चान्द्रमानपद्धत्यनुसारं चैत्रशुक्लप्रतिपत् एव युगादिः इति उच्यते । तद्दिने एव नववर्षस्य आरम्भः । तदा एव वसन्त-ऋतोः आगमनमपि । प्रकृतिः अपि नवोत्साहवती भवति तदा । वृक्षाः सर्वे पल्लविताः भवन्ति । सर्वत्र वसन्तस्य प्रभावः दृश्यते । इदानीन्तनजगति नवसंवत्सरः इति यद् आचरन्ति (जनवरी १) तदा तु प्रकृतौ नववर्षस्य किमपि लक्षणं न भवति । वृक्षाः सर्वे पर्णरहिताः तिष्ठन्ति । वातावरणम् अपि अतिशीतलं भवति । जनाः अपि तादृशवातावरणे उत्साहवन्तः न भवन्ति । एतत् युगादिपर्व समग्रे भारतदेशे आचर्यमाणं महापर्व । केषुचित् राज्येषु एतत् दिनं नूतनवर्षत्वेन आचर्यते |एतत् पर्व यस्मिन् वासरे भवति तस्य वासरस्य ग्रहः एव तस्य वर्षस्य अधिपतिः भवति । उदाहरणार्थं युगादिपर्व गुरुवासरे अस्ति चेत् गुरुग्रहः एव तस्य संवत्सरस्य अधिपतिः ।
युगादिः नाम युगस्य आदिः । युगानि चत्वारि – कृत-त्रेत-द्वापर-कलियुगम् चेति । भगवान् ब्रह्मा एतद्दिने एव जगतः सॄष्टिकार्यम् आरब्धवान् इति कारणात् एतत् दिनं युगादिशब्देन निर्दिश्यते ।
परम्पराः |
तत्त्वज्ञानिनः |
अन्यविषयाः |
प्रवेशद्वारम्:सनातनधर्मः |
आयुर्वेदानुसारं वसन्तऋतौ जायमनानां शारीरकविकाराणां निमित्तम् उत्तमम् औषधम् अस्ति निम्बकम् । निम्बगुडयोः मिश्रणस्य खादनेन शरीरस्य समतोलनं साधितं भवति ।
निम्बकदलभक्षणेन शतायुः भवति । शरीरं वज्रमिव सुदृढं भवति । सर्वसम्पत्प्राप्तिः भवति । सर्वारिष्टविनाशः अपि भवति । इति वदति अयं श्लोकः । जीवनं नाम निम्बकगुडमिश्रणमिव । मधुरत्वं तिक्तत्वं द्वयमपि भवति इत्यपि सन्देशं स्मारयति निम्बकगुडमिश्रणम् । एतत् निम्बकगुडमिश्रणं सुख-दुःखयोः, रात्रि-दिनयोः, लाभ-नष्टयोः, प्रीति-द्वेषयोः, जयापजययोः वा सङ्केतम् इव अस्ति । सर्वम् अपि जीवने समभावेन स्वीकरणीयम् इत्यस्य “स्थितप्रज्ञत्व”]]स्य अपि पाठः अस्ति अत्र । समग्रस्य वर्षस्य पूर्वसूचना दीयते एतत् निम्बकगुडमिश्रणम् ।
This article uses material from the Wikipedia संस्कृतम् article युगादिः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.