शिक्षा नाम तच्छास्त्रं येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत । वेदे स्वरस्य प्राधान्यं वर्तते, स्वरज्ञानं च शिक्षाऽयत्तम्, अत एवेदं शिक्षाशास्त्रं वेदाङ्गम् ।
परम्पराः |
तत्त्वज्ञानिनः |
अन्यविषयाः |
प्रवेशद्वारम्:सनातनधर्मः |
'अथ शिक्षा व्याख्यास्यामः - वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तान इत्युक्तः शिक्षाध्यायः॥'
तत्र वर्णोऽकारादिः, स्वरोदात्तादिः, मात्रा ह्रस्वादिः, बलं स्थानप्रयत्नौ, साम निषादादिः, सन्तानो विकर्षणादिः । एतदवबोधनमेव शिक्षायाः प्रयोजनम् ।
यथा वैदिकविधीनां सम्पादनार्थं ब्राह्मणग्रन्थाः उपयुज्यन्ते, तथैवोच्चारणप्रयोजनेन शिक्षायाः उपयोगो वाञ्छच्यते । वेदानां वैदिकसाहित्यस्य वा अध्ययनाध्यापनविषयकविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षा स्वरवर्णाद्युच्चारणानि केन प्रकारेण कर्त्तव्यानीत्येतस्मिन् विषये उपदिशति । सायणस्य ऋग्वेदभाष्यभूमिकायामुक्तम् -
'स्वरवर्णायुच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षेति'
वेदपाठावसरे शुद्धमुच्चारणं स्वरक्रिया च युक्ता काम्येते। अशुद्धोच्चारणयुक्तो भ्रष्टस्वरश्च वेदपाठो महद् दुष्फलं जनयति । यज्ञयागोपासनादिकं यत्कार्यमिष्टलाभाय क्रियते, तस्माद्विशिष्टलाभो न कदापि अशुद्धेनोच्चारणेन समवाप्तः सञ्जायते । तद्विधमशुद्धोच्चारणयुतं कार्यं तु विपदां महतीम् उत्पादयति। श्रूयते यत् पुरा 'इन्द्रशत्रुर्वधस्व' इत्यस्य मन्त्रस्य अशुद्धोच्चारणं कृतमभूत्, तेन यजमानम्प्रति तदनिष्टकारकमसिद्धयत् । पाणिनीयशिक्षायामुक्तम् --
'मन्त्रो हीनः स्वरतो वर्णतो वा, मिथ्याप्रयुक्तो न तमर्थमाह।
स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात्॥'
वेदोच्चारणस्य युक्ततायै स्वरक्षाज्ञानमपेक्ष्यते समीचीनम् । स्वर उदात्तानुदात्तस्वरितभेदेन त्रिविधः । ‘उच्चैरुदात्तः', ‘नीचैरनुदात्तः', ‘समाहारः स्वरितः' इत्येतानि पाणिनिना तेषां त्रयाणां लक्षणानि प्रोक्तानि । 'अनुदात्तपदमेकवर्ज्यम्' इत्येतस्मिन् पाणिनीये सूत्रे अभिहितं यद्,, वेदस्य प्रतिपदमवश्यमेव केनापि उदात्तेन स्वरेण संश्लिष्टं भवति, अवशिष्टाश्च स्वराः भवन्त्यनुदात्ताः । तेष्वेवानुदात्तेषु स्वरेषु अन्यतमः स्वरो हि परिस्थितिविशेषे स्वरितो जायते । स्वरप्रधानतायाः कारणं वेदेष्वस्ति, तेषां स्वराणामर्थनियन्त्रणत्वम् ।
वेदेषु शुद्धोच्चारणं सर्वप्रथमं वाञ्छितं भवति, तच्च शुद्धोच्चारणं शिक्षा समुपदिशति । एतस्मादेव हेतोः षट्सु वेदाङ्गेषु शिक्षाऽङ्गस्य मूर्धन्यत्वमाम्नातम् । शिक्षाया अभिमतो विषयः प्रातिशाख्येषु दृश्यते । प्रातिशाख्यग्रन्थाः शिक्षाशास्त्रस्य प्राचीनतमाः प्रतिनिधय इव सन्ति । संहितापाठसम्बन्धिनः सर्वेऽपि विषयास्तत्र साङ्गोपाङ्गतया प्रतिपादिताः ।
शिक्षाशास्त्रेतिहासः पुरातनतरः । परं न तद्विषयकाः प्राचीनतराः ग्रन्थाः उपलभ्यन्ते। श्रीवाचस्पतिगैरोला स्वकीये इतिहासे लिखति यत्, सत्यकेतुविद्यालङ्कारस्य मतमिदं यत् ‘जैगीषव्यस्य शिष्यो बाभ्रव्यः शिक्षाशास्त्रं प्रणिनाय। महाभारते शान्तिपर्वणि आचार्यगालवकृतस्य शिक्षाग्रन्थस्योल्लेखो लभ्यते । भण्डारकरशोधसंस्थान-पूना-तः भारद्वाजशिक्षायाः प्रकाशनं जातमस्ति । तत्र नागेश्वरभट्टस्य टीका च वर्तते । नागेश्वरमतेन स ग्रन्थो भारद्वाजेन प्रणीतः । शिक्षासङ्ग्रहनामके ग्रन्थे द्वात्रिंशच्छिक्षापुस्तकानां सङ्ग्रहोऽवाप्यते । शिक्षा इमाश्चतुर्णामपि वेदानां भिन्नभिन्नशाखास्वात्मानं सम्बध्नन्ति । श्रीबलदेव-उपाध्यायः स्वकीये ‘वैदिक साहित्य और संस्कृति' इत्येतदभिधेये ग्रन्थे याज्ञवल्क्यशिक्षा-वासिष्ठीशिक्षादिसंज्ञकानां विंशतिग्रन्थानामुल्लेखं विदधानो दृश्यते । साम्प्रतं समवाप्ता पाणिनीयशिक्षा प्राचीनशिक्षासूत्राणां साहाय्येन प्रणीता अभूदिति बुधानां विचारः । अद्यतने युगे पाणिनीयशिक्षां स्वामी-दयानन्द उद्दधार। इदानीं शुक्लयजुर्वेदे याज्ञवल्क्यशिक्षा, सामवेदे नारदशिक्षा, अथर्ववेदे माण्डूकीशिक्षा, किञ्च ऋग्वेदे पाणिनीयशिक्षा च प्राप्यन्ते न च अन्या काऽपि।
वैदिककाले एव वेदाङ्गं प्रति वैदिकानाम् ऋषीणां ध्यानाकर्षणमभवत् । ब्राह्मणग्रन्थेषु शिक्षासम्बद्धनियमानाम् उल्लेखो यत्र तत्र प्राप्यते। उपनिषत्सु अद्वैत-विशिष्टाद्वैतश्रुतीनां सद्भावः। अस्मिन्नेव काले मूलरूपेण शिक्षा-सिद्धान्तोऽपि प्रतिपादितोऽस्ति । अाचार्यैः शिक्षासिद्धान्तप्रतिष्ठापिकाः श्रुतयः प्रधानत्वेन स्वीकृताः, अन्यासां श्रुतीनां गौणत्वञ्च तैरुपपादितम् । वस्तुत उपनिषत्सु सर्वेषामपि दर्शनानां बीजानि निहितानि सन्ति। न केवलं शिक्षादर्शनस्य अपि तु विभिन्नदर्शनानामपि मूलसिद्धान्ताः समुपलभ्यन्ते ।
उपनिषदां प्रधानत्वेन प्रतिपाद्यो विषयोऽस्त्यात्मा । संहिता-तः अारण्यकं यावत् तद् ब्रह्म अात्मनो भिन्नमित्येतेन रूपेण प्रतिपादितमस्ति, तदुपनिषत्सु ततो भिन्नमित्येतेन प्रकारेण व्याख्यातमस्ति । द्वयोरप्यभिन्नत्वाद् दैवाध्यात्मिकतत्त्वयोः एकत्वाच्च आत्मैवैकः सर्वत्र न च तं विहाय कोऽप्यन्यः पदार्थ इति हि उपनिषद्भिः उक्तम्। तच्चात्माख्यं तत्त्वं पूर्णमस्ति । तदेव तत्त्वं द्रष्टृ तदेव च दृश्यम् । न द्रष्टृदृश्ये भिन्नतां वस्तुतः श्रयतः । आत्मैव सर्वव्यापी वर्त्तते । विश्वस्य सर्वेष्वपि पदार्थेषु स एव व्याप्तोऽस्ति । तस्मिन्नेव समग्रस्यापि प्रपञ्चस्य लयो भवति। ततो व्यतिरिक्तं न किमपि । अत एव बृहदारण्यकोपनिषदाह -
‘स वाऽयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्रमाणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमयः अापोमयो वायुमय अाकाशमयस्तेजोमयः काममयोऽकाममयः क्रोघमयोऽत्रकोघमयो घर्ममयोऽधर्ममयः सर्वमयः ************ '
अतः संसारस्य यावन्तोऽपि सन्ति स्थूला वा सूक्ष्माः पदार्थाः, सर्वेऽपि नात्मनो भिन्नाः । ते सर्वे अात्मत्वेनैव वेदितव्याः, नात्मनः परं किमपि प्रियतरम् । ऋषिभिः बहुधा स अात्मा वर्णितः । कथयन्ति ते यत्, अात्मैव प्राणापानव्यानोदानवायुरूपेण अस्मच्छरीरे भवति । आत्मैव क्षुत्पिपासामोहशोकजरामरणेभ्यः अस्मान्नुद्धरति । अात्मनो ज्ञानानन्तरमेव मानवः सुतसम्पत्सुन्दरीस्वर्गादिसमवाप्तेः इच्छातो विरतो भूत्वा परिव्राजो जीवनं वहति । पूर्णत्वाद् अखण्डत्वाच्चात्मा सदसल्लघुगुरुद्रादूरान्तर्बहिरादि-सकलविरुद्धधर्माणाम् एकाधारः । सर्वेऽपि दर्शनकारा अत एवेदं परमतत्त्वमात्मा अभिधेयं विभिन्नरूपेण स्वस्वमूलतत्त्वं मत्वा भिन्नभिन्नया दृष्टिसरण्या भिन्नभिन्नानि दर्शनानि व्यरचयन् । ब्रह्मतत्त्वं यः कोऽपि जिज्ञासति, ज्ञातुं शक्नुते, यः कोऽपि मानवस्तल्लिप्सति लब्धुं प्रभवति।
नायमात्मा वेदाध्ययनेन लब्धुं शक्यो न च सद्धारणाशक्त्यैव । साधको हि यमात्मानं वृणुते, तेनैव स तमवाप्तुमीष्टे । सम्प्रति हि स्वयमेवात्मा स्वकीयं रूपमभिव्यनक्ति। कठोपनिषदाह-
‘नायमात्मा प्रवचनेन लभ्यो न मेघया न बहुधा भ्रुतेन ॥
यमेवैष वृणुते तेन लभ्यस्तस्यैष अात्मा विवृणुते तनू' स्वाम् ॥'
तैत्तिरीयोपनिषदः प्रथमवल्ल्यामस्याः शिक्षायाः समस्तमूलसिद्धान्तस्य विवेचनमुपलब्धं भवति । यथा- शिक्षां व्याख्यास्यामः ॥ वर्णः, मात्रा, बलं, साम, सन्तानः, इत्युक्तः शिक्षाध्याये'॥
उपनिषदानुसारेण इत्येतानि षडङ्गानि भवन्ति शिक्षाविषयस्येति
(१) वर्णस्य अभिप्रायः अक्षराणि भवन्ति । वेदतत्त्वस्य ज्ञानार्थं संस्कृतवर्णमालायाः ज्ञानं नितान्तम् आवश्यकमस्ति । पाणिनीयशिक्षातः ज्ञानं भवति यत्, संस्कृतवर्णमालायां ६३ अथवा ६४ वर्णाः निर्धारिताः भवन्ति । न केवलमियं संख्या संस्कृतभाषार्थमेव, प्रत्युत वैदिककाले प्रयुक्तं प्राकृतभाषार्थमपि नियता आसीत्।
(२) स्वरस्याभिप्रायः - उदात्तानुदात्तस्वरितै: सहास्ति ।
(३) मात्राशब्देन उच्चारणसापेक्षसमय एवास्ति । मात्रा त्रिधा भवति - ह्रस्व-दीर्घ-प्लुताश्चेति । एकमात्रो भवेद् ह्रस्वः, द्विमात्रो दीर्घं उच्यते, तथा त्रिमात्रो प्लुतसंज्ञको भवति ।
(४) बलेन स्थानप्रयत्नयोः बाधो भवति । स्वर-व्यञ्जनयोः उच्चारणकाले ताल्वादि यत्स्थानस्य वायुना स्पर्शो भवति, तदैव स्थानमिति । स्थानानि च इमानि अष्टसंख्यकानि भवन्ति । प्रयत्नोऽपि द्विधा भवति- अाभ्यन्तरो बाह्यश्चेति । अभ्यन्तरप्रयत्नः चतुर्धा विभक्तोऽस्ति - स्पृष्ट-ईषत्स्पृष्ट-विवृत-संवृतभेदात् । बाह्यप्रयत्नोऽपि एकादशधा - विवार-संवार-श्वास-नाद-घोष-अघोष-अल्पप्राण-महाप्राण-उदात्तस्वरिताश्चेति ।
(५) सामशब्दस्यार्यो भवति — ‘साम्यम्' अर्थात् दोषरहितम् अनुदात्त-माधुर्यादिगुणयुक्तमुच्चारणम् । तद्यथा -
‘माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः।
धैर्यं लयसमर्थञ्च षडेते पाठका गुणाः।।'
विपरीतमस्य अधमपाठकेषु परिगणितप्रकाराणां निर्देशोऽपि तत्रैव । यथा -
‘गीती शीघ्री शिरः कम्पी यथा लिखितपाठकः॥
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाऽधमाः॥'
शकृितभीतादिपाठोऽपि अनर्थको भवति। यथा -
'शङ्कितं भीतमुत्कृष्टमव्यक्तमनुनासिकम्।
काकस्वरं शिरसिंगं तथा स्थानविवर्जितम्।।
उपांशुदष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम्।
निष्पीडितं ग्रस्तपदाक्षरश्च वदेन्न दीनं न तु सानुनास्यम्।।'
(६) सन्तानः - सन्तानशब्दस्यार्थो भवति संहिता, अर्थात् पदानामतिशयसनिधिः । सत्यपि पदानां स्वतन्त्रास्तित्वे यदा कदा पदद्वयस्य आवश्यकतानुसारेण शीघ्रतयैकस्य अनन्तरमेकस्य उच्चारणं भवति, तदेवोच्चारणं संहितापदेन व्यपदिश्यते । पदेषु प्रथमं संहिता भवति, तत्पश्चादेव सन्धिर्भवितुमर्हति । यथा -'वायो आयाहि' अत्र स्वतन्त्रे द्वे वैदिकपदे स्तः । यदैकस्मिन्नेव वाक्ये पदद्वयस्य सहैवोच्चारणं भवति तदा सन्धिकारणेन अत्र किमपि परिवर्त्तनं भवति। तदा पूर्वोदाहरणस्य रूपं 'वायवायाहि' भविष्यति। अनेनैव प्रकारेण 'इन्द्राग्नो आगतम्' अत्र प्रकृतिभावो भविष्यति । प्रत्येकस्मिन् वेदे वर्णानामुच्चारणं समानरूपेण भवितुं नार्हति । तेषामुच्चारणे पार्थक्यं भवत्येवेति । उदाहरणाय - मूर्धन्यः 'ष' इत्येतस्य शुक्लयजुर्वेदे रेफेण सह उष्मवर्णेन सह संयुक्ते सति च अस्योच्चारणं ‘ख’ इव भवति । किञ्च अन्यवेदेषु अस्य उच्चारणं विशुद्धमूर्धन्यः ‘ष' इव भवति । यथा पुरुषसूक्तस्य प्रधानमन्त्रगत-‘सहस्रशीर्षा पुरुषाः' अत्र ऋग्वेदिनामुच्चारणे यत्र 'शीर्षा' इत्येतस्य 'ष' इति मूर्धन्यः स्पष्टत एव भवति, तत्र माध्यन्दिनशाखीयानामुच्चारणे 'शीरेखा पुरुखः' इत्युच्चारणं भवति । अस्य विशिष्टपरिचयः तत्तद्वेदस्य एव शिक्षायां विस्तरेण सह प्रदत्तमस्ति । इदमेव कारणमस्ति यत्, प्रत्येकस्य वेदस्य स्वकीया शिक्षाऽस्ति । तस्यामेव शिक्षायां तत्तद्वेदविशेषस्य उच्चारणस्य अपि विधानं वर्त्तते ।
प्रातिशाख्यानि शिक्षाणां पूर्वरूपाणि । किन्तु तानि वेदाङ्गसंज्ञया न व्यवह्नियन्ते । शौनकेन विरचितम् ऋग्वेदप्रातिशाख्यं प्रातिशाख्येषु विशिष्यते । एतत् जर्मनीयैः पण्डितैः मुद्रयित्वा प्रकाशितम् अस्ति । पदप्रकृतानिप्रातिशाख्यानि, एतदतिरिक्तं प्रातिशाख्यग्रन्थेषु, शिक्षा-व्याकरण-छन्दसां नियमाः विवेचिताः सन्ति । कस्याः शाखायाः नियमविशेषः कः, इति प्रदर्शनम् एव प्रातिशाख्यग्रन्थानां प्रयोजनमस्ति । अर्थात् शिक्षा-व्याकरण-छन्दसां समाहारः एव प्रातिशाख्यग्रन्थः । इमे प्रातिशाख्याः संहिताभेदेन शाखाभेदेन वा विभिन्नाः वर्तन्ते । यथा ऋग्वेदस्य ऋक्प्रातिशाख्यम्, यजुर्वेदस्य वाजसनेयिप्रातिशाख्यम्, तैत्तिरीयप्रातिशाख्यम्, सामवेदस्य ऋक्तन्त्रम्, पुष्यसूत्रप्रातिशाख्यं तथा अथर्ववेदस्य शौनकीयाप्रातिशाख्यम्, अथर्ववेदप्रातिशाख्यञ्च सुप्रसिद्धाः प्रातिशाख्यग्रन्थाः सन्ति ।
‘शिक्षा'-शब्दस्य अत्रार्थो भवति वैदिकमन्त्राणामुच्चारणविधेः शिक्षको ग्रन्थः । शिक्षा-प्रातिशाख्ययोः परस्परसम्बन्धविषये मतैक्यं नास्ति । शिक्षायाः साहित्यं पर्यातरूपेण विशालमस्ति । प्रधानशिक्षायाः संक्षिप्तपरिचयेन शिक्षासाहित्यस्य विशालतायाः कल्पना भवेत्।
अस्य ग्रन्थस्योपरि महामहोपाध्यायपण्डितवैङ्कटरामशर्मणा रचितो वेदतैजसनाम्ना व्याख्याग्रन्थः समुपलब्धोऽस्ति ।
अस्य ग्रन्थस्य सम्बन्धः तैत्तिरीयसंहितया सहास्ति । ग्रन्थोऽयं ‘संहिताशिक्षा' नाम्ना व्यवहृतोऽस्ति । यतोऽस्य प्रधानलक्ष्यं संहिता-पदानां शुद्धतैवाऽस्ति । तदर्थं विशिष्टनियमानाम् अस्मिन् ग्रन्थे विवरणमस्ति। क्वचिद्विशिष्टशब्दानां सङ्कलनमप्यस्ति । तैत्तिरीयसंहितायां ‘वृजिन्'-शब्दस्य उपलब्धिर्भवति । किञ्च जकारस्य उदात्तस्वरयुक्तत्वे सति अकारयुक्तः ‘वृजन' इत्येवं भवति ( वृजने ‘च' उदात्तश्चेद् अकारेण सहोच्यते) । अनेन प्रकारेण 'पर्शु'-शब्दः अन्तोदात्तश्चेत्, 'परशु' इत्यस्मिन् रूपे परिणतो भवति । अनेनैव प्रकारेणात्र नियमाः प्रदर्शिताः । अक्षरक्रमेण ग्रन्थस्य सङ्कलनमस्ति । शिक्षायाः अन्येषां विषयाणाम् अत्राभावो विद्यते । श्रीनिवासदीक्षितेन रचिता ‘सिद्धान्तशिक्षा' अपि अस्याः शिक्षाया विषयप्रतिपादने अनुगमनं करोति ।
शिक्षेयं प्रसिद्धा लोकप्रिया चास्ति । लौकिकानां वैदिकानाञ्च शास्त्राणां कृते शिक्षेयं नितान्तमुपयोगित्वेन अधिकमहत्त्वपूर्णाऽस्ति । ग्रन्थेऽस्मिन् षष्टिः श्लोकाः सन्ति । एतेषु श्लोकेषु उच्चारणविधिसम्बद्धविषयाणां संक्षिप्तं किञ्चोपादेयं विवरणं प्रदत्तमस्ति । ग्रन्थान्ते पाणिनेरुल्लेखः दाक्षीपुत्रनाम्ना कृतोऽस्ति ।
'शङ्करः शाङ्करीं प्रादात् दाक्षीपुत्राय धीमते।
वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः।।'
अनेन पाणिनिमतानुयायी कोऽपि वैयाकरणः अस्य उपयोगिनो ग्रन्थस्य निर्माणमकरोत् । अस्य ग्रन्थस्य उपरि बहुविधाः टीकाः अप्युपलब्धाः भवन्ति । परिमाणे न्यूनत्वेन अप्यस्य सारगर्भितग्रन्थस्य अनुशीलनेन संस्कृतभाषायाः अस्योपयोगिनो विषयस्य सुष्ठु ज्ञानं प्राप्येत।
परिमाणेयं बृहदाकाराऽस्ति । अस्याः श्लोकानां संख्या २३२ अस्ति। अस्याः सम्बन्धः शुक्लयजुर्वेदीयवाजसनेयीशाखया सहास्ति । अस्यां शिक्षायां वैदिकस्वराणामुदाहरणेन सह विशिष्टं विस्तृतञ्च वर्णनमस्ति । लोपागमविकारप्रकृतिभावाख्यानां चतुर्विधसन्धीनां विवेचनोऽप्यत्र वर्तते । वर्णानां विभेदस्वरूप-साम्य-वैषम्यादीनामपि वर्णनमस्ति ।
अस्या अपि सम्बन्धो वाजसनेयीसंहितया सहैवास्ति । अस्यां संहितायां ऋग्-मन्त्र-यजुर्मन्त्रयोः पार्थक्यम् अतिविस्तारेण वर्णितमस्ति । अनया शिक्षया अनुसारेण शुक्लयजुर्वेदीयसमग्रसंहितायाम् ऋग्वेदीयाः १४६७ मन्त्राः सन्ति । अत्र यजुषां संख्या २८२३ अस्ति । संख्याविभागोऽयमस्य वेदस्य अध्ययनकर्तृभ्यः अतीवोपादेयः अस्ति ।
अस्यां शिक्षायां केवलं त्रयोदशश्लोकाः वर्त्तन्ते । जयन्तस्वामिनाम्ना कोऽपि विद्वानस्य टीकां लिलेख ।
अस्यां शिक्षायामपि १६० शलोकाः सन्ति । अस्मिन्नपि ग्रन्थे सन्धि-स्वर-वर्णादीनां विषयाणां विवेचनमस्ति।
शिक्षेयं शुक्लयजुर्वेदेन सह सम्बद्धाऽस्ति । ग्रन्थेऽस्मिन् वाजसनेयीसंहितायां प्रयुक्तानां नामौष्ठ्यवर्णानां सङ्ग्रहो विद्यते। अतीवपरिश्रमेण समस्तसंहितायाः अध्ययनं कृत्वा उपादेयोऽयं ग्रन्थो लिखितोऽस्ति । सामान्यशिक्षाग्रन्थेभ्यः अस्य ग्रन्थस्य विशिष्टता अधिका अस्ति। स्वरस्य वर्णस्य च विचारम् अकृत्वैव केवलम् ओष्ठेन उच्चारितवर्णानाम् एवात्र सङ्ग्रहः कृतोऽस्ति ।
अस्मिन् ग्रन्थे १३० श्लोकाः सन्ति । अत्र स्वरस्य वर्णस्य च सूक्ष्मविचारः कृतोऽस्ति । अस्य ग्रन्थस्य संक्षिप्तसंस्करणमप्यस्ति । अस्मिन् संस्करणे केवलं सप्तदशश्लोका एव सन्ति ।
ग्रन्थेऽस्मिन् केवलं द्वित्वनियमानां विवेचनमस्ति । द्विविधोऽयं ग्रन्थः । एकः बृहदाकारः, द्वितीयस्तु लघ्वाकार एवेति । प्रथमो गद्यात्मकः, द्वितीयः पद्यात्मकश्चेति ।
अस्य ग्रन्थस्य रचयिता भारद्वाजवंशीयः कोऽपि अमरेशनामको विद्वानस्ति । अस्यापि समयः अज्ञात एव । अस्य ग्रन्थस्य श्लोकानां संख्या २२७ अस्ति। नामानुरूपेण एव अस्मिन् ग्रन्थे वर्ण-स्वर-सन्धीनां साङ्गोपाङ्गं विवेचनमस्ति ।
अस्याः रचयिता आस्तिकमुनेर्वंशजो गोकुलदैवज्ञस्य पुत्रः केशवदैवज्ञोऽस्ति । द्विविधेयं शिक्षा समुपलब्धा भवति । प्राथमिकीशिक्षायां माध्यन्दिनशाखातः सम्बद्धपरिभाषाणां विस्तृतं विवेचनमस्ति। प्रतिज्ञा - समस्तानां नवसूत्राणां विस्तृतव्याख्योदाहरणेन सहात्र प्रदत्ताऽस्ति। द्वितीया शिक्षा पद्यात्मिका अस्ति। एकविंशतिपद्येषु अत्र स्वरस्य विस्तृततया विचारोऽस्ति।
अस्य ग्रन्थस्य रचयिता उपमन्युगोत्रीयः अग्निहोत्री खगपतिमहोदयस्य पुत्रो मल्लशर्मा नामतः कोऽपि कान्यकुब्जब्राह्मणः आसीत्। अस्याः शिक्षायाः पद्यानां संख्या ६५ अस्ति। लेखकस्य कथनानुसारेण अस्याः रचना १७८१ विक्रमाब्देऽभवत् ।
अस्याः शिक्षायाः रचयिता जयन्तस्वामीनामकः कोऽपि विद्वानासीत् ।
श्रीरामकृष्णनामकेन विदुषा षोडशश्लोकीशिक्षा नामकं लघ्वेकं पुस्तकं प्रणीतं, यत्र स्वरस्य व्यञ्जनस्य च विचारः कृतः अस्ति ।
वैदिकव्याकरणसम्बन्धिपदप्रयोगनियमानां ज्ञानाय स्वरवर्णादिज्ञानसौलभ्याय च शिक्षेयं प्रणीता अनन्तदेवेन विदुषा ।
स्वरभक्तिप्रयोगनियमानां ज्ञानाय महर्षिणा कात्यायनेन विविधोदाहरणैः संयुतो लक्षणग्रन्थोऽयं रचितः।
इदं पाण्डित्यपूर्णं शिक्षाशास्त्रं सदाशिवपुत्रेण बालकृष्णनाम्ना केनाऽपि विदुषा कृतमस्ति। शिक्षेयं परिमाणे गरिष्ठेति। शिक्षाशास्त्रमिदं किमपि प्राचीनम् ईदृशं शास्त्रम् आलोक्यैव प्रणीतम् । ग्रन्थेऽस्मिन् कतिपयानि व्याकरणप्रयोगपराणि ग्रन्थान्तरात्पद्यानि समुद्धृतानि सन्ति । स्वरवर्णादिशिक्षायाः समग्रविषयाणां सरसं सरलं साङ्गोपाङ्गञ्च विवेचनमत्रास्ति ।
सामवेदेन सम्बद्धोऽयं शिक्षाग्रन्थोऽस्ति । अतिविस्तृता, उपादेया च शिक्षाऽस्ति। अस्य ग्रन्थस्य शोभाकरभट्टेन विस्तृता व्याख्याऽपि लिखिता। व्याख्येयं नितान्तप्रौढा प्रसिद्धा चास्ति । सामवेदीयस्वराणां रहस्यं विज्ञातुं ग्रन्थोऽयम् अतीवोपयोगी वर्त्तते ।
सामवेदेन सह सम्बद्धा शिक्षा इयम्।
सामवेदेन सह सम्बद्धा शिक्षा इयम्।
अथर्ववेदेन सम्बद्धेयं शिक्षाऽस्ति । अस्याः श्लोकानां संख्या १७९ अस्ति। अथर्ववेदस्य स्वराणां वर्णानाञ्च सुष्ठुज्ञानाय शिक्षेयं महनीया श्लाघनीया चास्ति ।
उक्तानां त्रयाणां ग्रन्थानां रचयिता याज्ञवल्क्यमुनिरस्ति ।
उपरिलिखिताः शिक्षाग्रन्थाः प्रकाशिताः सन्ति । किञ्च एतदतिरिक्तान्यपि शिक्षाशास्त्राणि सन्ति, येषां प्रकाशनमद्यावधिः नाभवत् । एते ग्रन्थाः हस्तलिखितरूपेण एव अवतिष्ठन्ते। एतेषु शिक्षाग्रन्थेषु प्राचीनशिक्षासूत्रमपि विद्यमानमासीत् । आपिशलि-पाणिनि-चन्द्रनोमीत्यादीनि शिक्षासूत्राणि च सन्ति प्रकाशितानि। आपिशलिशिक्षासूत्रे स्थान-करण-अन्तः-प्रयत्न-बाह्यप्रयत्न-स्थानपीडन-वृत्तिकारप्रकरण-प्रकम-नाभितल-प्रकरणादयश्चाष्टप्रकरणानि सन्ति । एतेषु प्रकरणेषु अक्षराणामुत्पत्तिः, स्थानप्रयत्नानाच्च विशदं विवेचनञ्च अस्ति । एभ्यः शिक्षासूत्रेभ्यः कतिपयानि शिक्षासूत्राणि वृषभदेवेन वाक्यपदीयटीकायां, हेमचन्द्रेण व्याकरणस्य बृहद्वृत्त्यां, न्यासकारेण च स्वन्यासे समुद्धृतानि सन्ति । पाणिनि-शिक्षासूत्रेष्वपि आपिशलि-शिक्षासूत्रमिव क्रम-प्रकरणयोः उल्लेखो विद्यते । उभयोरपि सूत्रेषु समता लभते। उपरिलिखितेभ्यः शिक्षाग्रन्थेभ्यः एतानि शिक्षासूत्राणि असन्दिग्धरूपेण प्राचीनतराणि सन्ति । यथा अष्टाध्यायीम् आधारीकृत्य चन्द्रगोमीपण्डितेन स्वं व्याकरणं विरचितं स्यात्तथैव पाणिनिशिक्षासूत्राणि अाधारीकृत्यैव स्वकीयवर्णसूत्राणां रचना कृताऽस्ति ।
प्राचीना ऋषयः भाषाशास्त्रस्य आवश्यकाङ्गस्य वैज्ञानिकाध्ययनमकुर्वन्। अद्यतनीयाः प्रतीच्यप्रधयोऽपि उच्चारणविद्यान्तर्गते (Phonology) अस्य विषयस्याध्ययनं कुर्वन्ति । सम्प्रति वैज्ञानिकैः उच्चारणस्वरूपावबोधनाय उच्चारणयन्त्रमपि निर्मितम् । प्राचीनभारते एवंविधस्य यन्त्रस्य अप्यभाव आसीत् । तथाऽप्यस्य विषयस्य एवंविधं वर्णनमनुशीलनञ्च प्राचीनभारतीयानाम् उच्चारणसम्बन्धिवैज्ञानिकगवेषणस्य द्योतकम् अस्ति। अद्यापि तत्तद्वैदिकमन्त्राणां तथैवोच्चारणं भवति, यथा प्राचीनकाले तेषामुच्चारणमभूत् । वैदिकोच्चारणस्य परम्परा एवंविधा विशुद्धाऽस्ति यत्, प्रान्तेतराणामप्यध्येतारः समानरूपेणैव समानशाखाया उच्चारणं कुर्वन्ति । तेषां विभिन्नप्रान्तीयानां वैदिकानामुच्चारणे स्तोकमपि पार्थक्यं वैभिन्न्यञ्च परिलक्षितं न भवति । शिक्षाशास्त्रीयमहत्त्वस्य सूचकोऽयमस्ति । शास्त्रमिदं यद्यपि वैदिकव्याकरणलक्षणप्रयोगज्ञानाय निर्मितमिति प्रतिभाति, तथाऽप्यस्य शास्त्रस्य साहित्यिकं किमपि वैशिष्ट्यं विद्वज्जनमनोरञ्जकाय विद्यते ।
This article uses material from the Wikipedia संस्कृतम् article शिक्षा, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.