धर्मशास्त्रम्: धार्यते इति धर्म:

धर्मशास्त्रम् भारतीयशास्त्रेषु अन्यतमम् । भारतीयपरम्परायाम् अस्य शास्त्रस्य बहुमुख्यं प्राशस्त्यम् अस्ति । धर्मशब्दः ‘धृ’ धारणे इति धातोः व्युत्पन्नः । तत्र महाभारते ‘धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः’ इति यद् उपवर्णितं तद् धर्मस्य यथार्थस्वरूपं संक्षेपेण प्रतिपादयति । एवं धर्मः समाजस्य धारणं नाम संरक्षणम् संवर्धनं च करोति, अर्थात् समाजकल्याणकारिणीं कामपि जीवनयापनपद्धतिं निर्दिशति । धर्मशब्दः प्रप्रथमतया ऋग्वेदे दृश्यते । अस्मिन् धर्मः इत्येतत् पदं धार्मिकविधिः, व्रतम्, आचारः इत्येतेषु अर्थेषु प्रयुक्तः अस्ति । अन्येषु सन्दर्भेषु धारकः पोषकः इत्येतौ अर्थौ बोधितः । तैत्तिरीय उपनिषदि 'धर्मञ्चर’ इति शिष्यानुशासनम्, मनुस्मृतौ 'भगवान्, सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि ॥' इति, याज्ञवल्क्यस्मृतौ ’योगिश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥' इति, पराशरस्मृतौ ’चातुर्वर्ण्यसमाचारं किञ्चित् साधारणं वद । चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः ॥' इत्येतेषु उक्तिषु प्राक्तनभारतीयसमाजस्य चतुर्वर्णीयैः आश्रमस्थैः अनुसरणीयाः आचाराः एव धर्मपदेन उपदिष्टाः भवन्ति ।

जैमिनिमते धर्मः इत्यस्य निरूपणं, ’बोधनालक्षणोऽर्थोधर्मः’ इति कृतमस्ति । वैशेषिकसूत्रे ’अथातो धर्मं व्याख्यास्यामः’।, 'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः’ इति व्याख्यातम् अस्ति । एवमेव ’ध्रियते अनेनेति धर्मः’, ’धर्मे सर्वं प्रतिष्ठितम्’, ’धारणात् धर्ममित्याहुः’ 'धर्मोधारयते प्रजाः’ इत्याद्याः उक्तयः धर्मस्य व्याप्तिं प्रयोजनञ्च प्रतिपादयन्ति ।

धर्मस्य प्रकाराः

धर्मा बहुविधा लोके श्रुतिभेदमुखोद्बवाः ।
देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च ॥
जातिधर्मा वयोधर्मा गुणधर्माश्च शोभने ।
शरीर-कालधर्माश्च आपद्धर्मास्तथैव च ॥
एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः।
देशधर्मः, कुलधर्मः, जातिधर्मः, वयो(आश्रम)धर्मः, गुणधर्मः, शरीर-कालधर्मः, आपद्धर्माश्च धर्मस्य प्रकाराः भवन्ति । वर्णधर्मः, आश्रमधर्मः, वर्णाश्रमधर्मः, नैमित्तिकधर्मः, गुणधर्मश्च धर्मस्य पञ्चप्रकाराः सन्ति इति मनुस्मृतेः टीकाकारः गोविन्दराजः, गौतमधर्मस्य सूत्रस्य टीकाकारः हरदत्तश्च प्रतिपादयन्ति ।

धर्मस्य आकराः

धर्मस्य आकराः विभिन्नेषु ग्रन्थेषु प्रतिपादिताः सन्ति । तानि,

  • "वेदो धर्म मूलम् ।"

"तद्विदां च स्मृतिशीले ।" गौ.ध.सू, १,१.२

  • "धर्मज्ञसमयः प्रमाणम् ।"

वेदाश्च । आ.ध.सू,१ , १.१, २-३

  • उपदिष्टो धर्मः प्रतिवेदम् । बो.ध.सू १.१.१

स्मार्तो द्वितीयः । तृतीयश्शिष्टागमः । १, १,३-४
श्रुतिस्मृतिविहितो धर्मः ।
तदलाभे शिष्टाचारः प्रमाणम् । व,ध.सू १ ४-५

  • अथातो धर्मं व्याख्यास्यामः ।

श्रुतिप्रमाणको धर्मः ॥ हा.ध.सू

  • वेदोऽखिलो धर्ममूलम् । स्मृतिशीले च तद्विदाम् ।

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ म. २, ६

  • वेदाः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।

एतच्चतुर्विधु प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ म, २ १-२

  • श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रयमात्मनः ।

सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ या १,७

धर्मस्य उद्भव: विकासश्च

धर्मो विश्वस्य जगतः प्रतिष्ठा । लोके धर्मिष्ठं प्रजा उपसर्पन्ति । धर्मेण पापमपनुदन्ति । धर्मे सर्वं प्रतिष्ठितम् । तस्माद् धर्मं परमं वदन्ति ।

विश्ववासिनां जनानामभ्युदयनिःश्रेयससिद्ध्यर्थं जगति विराजमानस्य धर्मस्य महती प्रतिष्ठा । स्वावयवार्थप्रतिपादकत्वेऽपि धर्मशब्द: भारतीयानां प्राणभूतवेदस्य बहुत्र बहुष्वर्थेषु प्रयुक्तः । भारतीयाः सनातनधर्मं दृढं विश्वसन्ति । तदनुसारं वेद एव हिन्दुसंस्कृतेः प्राचीनप्रमाणरूपेण स्वीकृतः। भारतीया: वेदानां नित्यत्वमपि विश्वसन्ति । यतः सोऽयं धर्मो वेदप्रतिपाद्य इति वेद एव सर्वस्व मास्तिकधुरन्धराणाम् । वैदिककाले नरा: यज्ञैर्देवान् सन्तोष्य धर्ममार्गे आसन् । देवानां सन्तोषाय यज्ञान् विधाय धर्ममार्ग दृढीचक्रुः। ततस्तदानीं यज्ञ एव मुख्यधर्म आसीत् ।

भगवताऽऽदिष्टत्वाद्वेदस्य श्रुतिसंज्ञा मन्वादिभिः प्रकटिता। वेदस्य परम प्रामाण्य सवैः स्मृतिकारैः मन्वादिभिरपि स्वीकृतमस्ति । तदनन्तरञ्च स्मृतयः वेदमूलकत्वेन धर्म प्रामाण्यमधिकुर्वन्ति । ऋग्वेदे धर्मशब्दः प्रायश: धारणार्थे पालनार्थे च पुंलिङ्गे एव प्रयुक्तः -

क) इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम् ।

ख) त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव ।

यजुर्वेदे धर्मन्शब्द: धारणार्थे धारकार्थे च दृश्यते -

क) मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै

यजमानस्य परिधिरस्यग्निरिड ईरितः।।

ख) उद्दिवं स्तभानान्तरिक्षं पृण दंहस्व पृथिव्यां द्युतानस्त्वा मारुतो

मिनोतु । मित्रावरुणौ ध्रुवेण धर्मणा ॥

पितुं नु स्तोषं महो धर्माणं तविषीम् ।

ऋग्वेदे यजुर्वेदेऽपि बहुषु स्थलेषु धार्मिकविधिषु क्रियासंस्कारेषु च धर्मशब्द: नपुंसकलिङ्गेऽपि प्रयुक्तः -

क) त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः।

का अतो धर्माणि धारयन् ॥

ख) समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि ।

देवानां दूत उक्थ्यः ॥

तानि धर्माणि प्रथमान्यासन् ।

अथर्ववेदे धर्मशब्दः धार्मिकक्रियाजनित गुणार्थे प्राप्यते -

ऋतं सत्यं तपो राष्ट्र श्रमो धर्मश्च कर्म च ।

भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥

एते धर्मस्य गुणाः खलु मानवसमाजस्य विकाशनस्य बीजम् । अनन्तरञ्च ब्राह्मणग्रन्थेष्वपि धर्मशब्द: बहुवारं प्रयुक्तः। तत्र ऐतरेयब्राह्मणे धर्मशब्दः सकलधार्मिककृत्येषु व्यवहृतः -

धर्मस्य गोप्ताजनीति तमभ्युत्कृष्टमेवं ।

विदभिषेक्ष्यन्नेतयार्चाऽभिमन्त्रयेत।

छान्दोग्योपनिषदपि धर्मस्य महत्त्वपूर्णमर्थं व्यनक्ति -

त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एवेति द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् । सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति।

तदनुसारं धर्मः यज्ञाध्ययनदानार्थेष्वभिहितः । ताश्च दानादिशाखा: ब्रह्मचारि-गृहस्थ- वानप्रस्था ख्यमाश्रमत्रयमभिव्याप्य तिष्ठन्ति । अत्र पुनः धर्मशब्द आश्रमाणां विलक्षण कर्तव्येषु संकेतितः । तैत्तिरीयोपनिषद्यपि धर्मशब्द: नियमाचरणाय निर्दिष्टः -

सत्यं वद धर्मं चर।

एवमेवासौ समयानुसारं परिवर्तितो भूत्वाऽन्ते च मानवस्य विशेषाधिकारेषु, कर्त्तव्येषु, नियमेषु, आचारविधौ च प्रसिद्धो जातः।

अनन्तरञ्च स्मृतिकाले धर्मशब्द: पूर्णविकाशमभजत । तत्र सर्वत्र धर्मशब्दः पुंलिङ्गे एव दर्शितः । तस्यैव विशेषव्याख्यानाद् धर्मशास्त्रमिति नाम । तस्मिन् काले परमाराध्य: वैदिककालस्य पूज्य: स्मार्त्तधर्मस्य प्रतिष्ठापक: मनुः धर्मस्य सुस्पष्टं गाम्भीर्यपूर्णमर्थं प्राकाशयत् -

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।

हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥

तस्य मतमिदं यद् विद्वांस: विचारपूर्वकं यानि कर्माणि सर्वदा आचरन्ति तान्येव धर्मपदेनाख्यायन्ते । अन्यत्र च वानप्रस्थाश्रमप्रकरणे मनुः साधारणधर्मस्य परिभाषायां धृत्यादीन् दशगुणान् धर्मस्य लक्षणत्वेन व्याचख्ये -

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।

धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥

स धर्मस्य मूलत्वेन वेदं स्वीकृत्यापि पुन: स्मृतिसदाचारा त्मतोषान् त्रीन् धर्ममूलत्वेन प्रत्यपादयत् । एतेषां चतुर्णां धर्ममूलानां प्रामाण्यं स्वीकृत्य प्राय: सर्वे स्मृतिकाराः धर्मलक्षणानि कृतवन्तः। मनुमहर्षेरनन्तरं स्मृतिकारेषु सम्मानास्पदः स्मृतिकारः याज्ञवल्क्य:१४ धर्मलक्षणे श्रुतिस्मृति सदाचारात्मतोषान् प्रमाणीकृतवान् -

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः।

सम्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥

वसिष्ठ-आपस्तम्ब-बौधायन-गौतम -हारीतादयः धर्मसूत्रकारा अपि धर्मप्रमाणेषु श्रुतेः प्राथम्यं स्वीकृत्यानन्तरं स्मृतेः प्रामाण्यं स्वीकृतवन्तः -

श्रुतिस्मृतिविहितो धर्मः । तदलाभे शिष्टाचार: प्रमाणम् ।

शिष्टः पुनरकामात्मा।

धर्मज्ञसमयः प्रमाणम् । वेदाश्च ।

उपदिष्टो धर्मः प्रतिवेदम् । स्मार्तो द्वितीयः।

तृतीयः शिष्टाचारः।

वेदो धर्ममूलम् । तद्विदां च स्मृतिशीले।

श्रुतिप्रमाणको धर्मः । तदभावे स्मृतिः ।

अन्येषां विश्वामित्र-विष्णु-बृहस्पति-देवल-शंखलिखित-यमस्मृतीनां धर्मलक्षणान्यपि विभिन्ननिबन्ध ग्रन्थेषूदाहृतानि दृश्यन्ते -

यमार्याः क्रियमाणं हि शंसन्त्यागमवेदिनः।

स धर्मो यं विगर्हन्ति तमधर्मं प्रचक्षते ॥

क्षमा सत्यं दमः शौचं दानमिन्द्रियनिग्रहः ।

अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥

आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।

अनभ्यसूया च तथा धर्म: सामान्य उच्यते ॥

दया क्षमाऽनसूया च शौचानायासमङ्गलम् ।

अकार्पण्यास्पृहत्वञ्च सर्वसाधारणानि च ॥

शौचं दानं तपः श्रद्धा गुरुसेवा क्षमा दया।

विज्ञानं विनयः सत्यमिति धर्मसमुच्चयः॥

देशः काल उपायो द्रव्यं श्रद्धा पात्रं त्याग इति समस्तेषु धर्मोदय:

साधारणोऽन्यथा विपरीतः।

वेदाः प्रमाणं स्मृतयः प्रमाणं , धर्मार्थयुक्तं वचनं प्रमाणम् ।

यस्य प्रमाणं न भवेत् प्रमाणं , कस्तस्य कुर्याद्वचनं प्रमाणम् ॥

एते सर्वे मनूक्तं साधारणधर्ममनुसृत्य धर्मलक्षणं व्याख्यान्ति।

अन्येऽपि शास्त्रकाराः धर्मस्य महत्त्वमनुभूय तस्य लक्षणाकरणेन स्वशास्त्रस्य मर्यादाहानिभयाद् धर्मस्य लक्षणं कृतवन्तः। तेषु वेदमीमांसाकारो जैमिनिः स्वशास्त्रस्य प्रारम्भ एव धर्मलक्षणं कृतवान् । तन्मते वैदिकमन्त्रोपदेशानुष्ठितकर्मभिरुत्पादितं पुण्यमेव धर्मः। वैशेषिकशास्त्रमपि येन कर्मणा इहलौकिक-पारलौकिककल्याणसिद्धिः भवति स एव धर्म इति धर्मलक्षणं बबन्ध । योगशास्त्रमपि धर्मप्रभावादेव विश्वस्य स्थितिः सम्भाव्यत इति प्रतिपादयति । शास्त्रोपदिष्टं यागादि कर्म एव धर्म इति केचित् । विहितकर्मजन्योऽपूर्वविशेषो धर्म इत्यपरे । विहितकर्मजन्यापूर्वजन्यो धर्म इति अन्ये । विधेयत्वेनोपदिष्टमपि धर्मः। यथा ब्रह्मचारिधर्मः । विहितानुष्ठानं निषिद्धवर्जनं च धर्म इति शास्त्रकाराः -

चोदनालक्षणोऽर्थो धर्मः।

अथातो धर्मं व्याख्यास्यामः। यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः।

निरालम्बा निराधारा विश्वाधारा वसुन्धरा ।

यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ॥

आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः।

जन्महिंसाप्रभावोऽयं ध्रुवं धर्मस्य नेतरः।

अनन्तरं महाभारतकाले धर्मस्य विशेषत: प्रशंसाभिवृद्धिरजायत। सर्वेषु पुराणेषु धर्मः मुख्यध्येयरूपेण स्तुतिमवाप । महाभारतस्यारण्यक-वन-कर्ण-शान्तिपर्वसु धर्मस्वरूपं विवेचितम्। गरुडपुराण-भागवतादिषु आत्मतुष्टिं विनाऽन्यानि मनूक्तानि प्रमाणानि धर्मलक्षणे अन्तर्भावितानि। पुनश्च केचन धारणाद् धर्म इति लक्षणमपि प्रस्तुवन्ति -

वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः ।

शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ।।

आनृशंस्यं परो धर्मः। महाभा. वन. ३७३-७६.

धारणाद् धर्ममित्याहुः धर्मो धारयते प्रजाः।

सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् ।

चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् ॥

श्रुत्युक्तः परमो धर्मो स्मृतिशास्त्रगतोऽपरः।

शिष्टाचारेण शिष्टानां त्रयो धर्मोः सनातनाः॥

स्मृतिकालानन्तरं तत्परवर्त्तिभिः निबन्धकारैः ऋषीणां धर्मलक्षणानि सम्यग् व्याख्याय तेषां निगूढार्थः प्रकाशितः। कोशेष्वपि धर्मशब्दः बहुधा व्याख्यातः। तत्र धर्मशब्दस्य जीवाचार- वस्तु- गुण- रूप-स्वभाव- यागाद्यहिंसा न्यायोपनिषद्यम- सोमाध्यायी- सत्संग-दानाद्यर्थेषु व्यवहार: दृश्यते । अमरसिंहस्तु विश्वं धर्म: धारयति, जनाः धर्मं धारयन्तीति धर्मशब्दं व्युत्पादितवान्। मेदिनीकोष-हैमकोषयोस्तु पुण्यार्थे धर्मशब्दः प्रयुक्तः -

वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः।।

धरति विश्वमिति। धरति लोकान् ध्रियते वा जनैरिति ।

धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः क्रतौ ।

अहिंसोपनिषन्याये नाधनुरभिसोमपे ।

सुकृते पावने धर्मे ।

धर्मभेदाः

का नानालक्षणविशिष्टोऽसौ धर्म आचरणदृष्ट्या बहुभिः बहुधा विभक्तः। धर्म आचरणसंहितासंज्ञार्हत्वाद् द्विधा विभज्यते। मत्स्यपुराणे३८ पराशर माधवीयादिषु श्रौतस्मार्त्तभेदेन धर्मः द्विधा विभक्तः । तत्र श्रौतधर्म: त्रिविधः । इष्टिः, पशुयागः, सोमयागश्चेति । तत्रौषधिप्रधानयागः इष्टिः । ओषधिभिः यवब्रीहि- प्रभृतिभिः पुरोडाशं निर्माय या दर्शपौर्णमासेष्टिः सम्पाद्यते सा प्रथमप्रकारक: यागः । पशुयागे प्रधानतः पशुः, सोमयागे च सोम एव समर्प्यते। पशुयागे पशोरङ्गानि वपाहृदयादीनि देवताभ्य: समर्प्यन्ते । सोमयागे च सोमलतायाः काशात् सोमरसं निष्कास्य तेनैव द्रव्येण सोमयागोऽनुष्ठीयते। यागः प्रकृति वकृतिभेदेन द्विविधः। प्रकृतियागोऽपि त्रिविधः । सर्वासामिष्टीनां प्रकृतियाग: भवति र्शपौर्णमासः। सर्वेषां पशुयागानां प्रकृतिरग्नीषोमीययागः। सर्वेषां सोमयागानां कृतिश्चाग्निष्टोमसोमयागो भवति । एतदतिरिक्ता: यागा: विकृतिसंज्ञा धारयन्ति -

दाराग्निहोत्रसम्बन्धमिज्या श्रौतस्य लक्षणम् ।

स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः ॥

अग्न्याधानादिपूर्वकोऽधीतप्रत्यक्षवेदमूलो दर्शपौर्णमासादिः श्रौतः।।

अनुमितपरोक्षशाखामूलः शौचाचमनादि: स्मार्त्तः ।

उपदिष्टो धर्मः प्रतिवेदम् । स्मार्तो द्वितीयः।

तृतीय: शिष्टागमः॥

वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः।

शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः।

वेदोक्तः परमो धर्मः धर्मशास्त्रेषु चापरः।।

शास्त्रकाराः श्रौतधर्मे वैदिकसंहितासु ब्राह्मणग्रन्थेषु वर्णितानां र्शपौर्णमासादि-यज्ञानां समावेशं कुर्वन्ति । स्मार्त्तधर्मे विशेषतः मृतिप्रतिपादितान् वर्णाश्रमसम्बन्धिशौचाचमननियमानन्तर्भावयन्ति । सौधायनधर्मसूत्र-अनुशासनपर्व-शान्तिपर्वादिषु च धर्म: दस्मृतिशिष्टागमप्रतिपाद्यरूपेण त्रिधा वर्णितः। हेमाद्रि-विज्ञानेश्चरादयः धर्म विष्यपुराणदृष्ट्या षोढा विभजन्ति । यथा - वर्णधर्मः, आश्रमधर्म:, र्णाश्रमधर्मः, गुणधर्मः , निमित्तधर्म:, साधारणधर्मश्च। तत्र वर्णधर्मः यथा साह्मणो नित्यं सुरां विवर्जयेत् । आश्रमधर्मः ब्रह्मचारी नित्यं दण्डं गृह्णीयात्। वर्णाश्रमधर्मः - ब्राह्मणः ब्रह्मचारी पलाशदण्डं गृह्णीयात् । गुणधर्मः - राज्ञः जापालनम्। निमित्तधर्मः - विहितस्याननुष्ठाने प्रतिषिद्धकर्मकरणे च प्रायश्चित्तम्। साधारणधर्म: अस्तेयाहिंसादयः ।


साधारणधर्मोऽपि मनुस्मृति-विष्णुस्मृति-महाभारतादिषु वस्तृततया वर्णितः । मेधातिथिः भविष्योक्त्यनुसार सामान्यधर्मं विहाय पञ्चधा प्रतिपादयति। मनु:४९ लोकप्रचलितधर्मं महत्वमर्पयति । अत: लोकप्रसिद्ध धर्म केचन बहुधा प्रतिपादयन्ति । मनुस्मृति-आनुशासनिकपर्व-देवीभागवत-पराशरमाधवीयादिषु देशधर्म - जातिधर्म - कुलधर्म - गुणधर्म - वयोधर्म - शरीरधर्म - कालधर्म - आपद्धर्म - ग्राम्यधर्म - युगधर्मादीनां विभागाः दर्शिताः।

वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम् ।

near वर्णाश्रमस्तृतीयस्तु गौणो नैमित्तिकस्तथा ।।

वर्णत्वमेकमाश्रित्य यो धर्मः सम्प्रवर्त्तते ।

वर्णधर्मः स उक्तस्तु यथोयनयनं नृप ।

आश्रमञ्च समाश्रित्य यो धर्मः सम्प्रवर्त्तते । ।

स खल्वाश्रमधर्मस्तु भिक्षादण्डादिको यथा ।

वर्णत्वमाश्रमत्वञ्च योऽधिकृत्य प्रवर्त्तते ।

स वर्णाश्रमधर्मस्तु स्यान्मौजी मेखला तथा॥

यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते ।

यथा मूर्धाभिषिक्तस्य प्रजानां परिपालनम् ॥

निमित्तमेकमाश्रित्य यो धर्मः सम्प्रवर्त्तते ।

नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ॥

साधारणधर्म: महाभारते विष्णुधर्मसूत्रे च वर्णितः ।

मिता., याज्ञ. स्मृ.,

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।

एतं सामासिकं धर्मं चातुर्वण्योऽब्रवीन्मनुः॥

क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः ।

अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥

आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।

अनभ्यसूयता तथा धर्मः सामान्य उच्यते ॥

श्राद्धकर्म तपश्चैव सत्यमक्रोध एव च ।

स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता ॥

मेधातिथिभाष्ये

धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः।

द्वितीयं धर्मशास्त्रं तु तृतीयं लोकसंग्रहः॥

देशधर्मान् जातिधर्मान् कुलधर्मांश्च शाश्वतान् ।

जो पाखण्डगुणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ॥

धर्माः बहुविधा लोके श्रुतिभेदमुखोद्भवाः।

देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च ॥

जातिधर्माः वयोधर्माः गुणधर्माश्च शोभने ।

शरीरकालधर्माश्च आपद्धस्तिथैव च।

एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः ॥

५३. ग्रामधर्मा जातिधर्माः देशधर्माः कुलोद्भवाः ।

परिग्राह्या नृभिः सर्वैः नैव तान् लङ्घयेन्मुने ।

५४. कृतेऽभूत् सकलो धर्मस्त्रेतायां त्रिपदः स्थितः।

पादः प्रविष्टोऽधर्मस्य मत्सरः द्वेषसम्भवः ॥

धर्माधौ समौ भूत्वा द्विपादौ द्वापरे स्थितौ ।

तिष्येऽधर्मस्त्रिभिः पादैः धर्मः पादेन संस्थितः ।।

एते धर्माः कदाचिदपि परिवर्तिताः सन्त: युगधर्मादिवत् वैरूप्यं धारयन्ति। युगधर्मा अपि कृतयुगे यथावदनुष्ठिताः भवन्ति । युगसामर्थ्येन त्रेतादिषु क्रमेण क्षीयमाणाः धर्माः कलियुगावसाने सर्वात्मना विनष्टाः भवन्ति। एते धर्माः लोकाचाररूपा: न कदापि अनादरणीयाः भवेयुः । एतेषु नानाविधेषु धर्मविभागेषु वर्तमानेषु लोकाचारनिमित्तमावश्यकनियमाः प्राधान्येन एषु धर्मेष्वन्तर्भुक्ताः। मुनिभिः प्रतिपादितेष्वाश्रमेष्वेव एते सर्वे धर्मा: अन्तर्भाविताः। तथापि गौतम-बौधायनादयः जातिदेशधर्मादीनां परस्परं विप्रतिपत्तिनिवारणाय तेषां पृथक् स्वरूपं स्पष्टीकृतवन्तः।

धर्मस्य मुख्यपुरुषार्थत्वम्

स्वाभिलाषानुरूपाणि पुरुषप्रयोजनानि चतुर्द्धा विभज्यन्ते। ते च पुरुषार्था: शास्त्रेषु धर्मार्थकाममोक्षभेदेन चतुर्धा प्रतिपादिताः। अपौरुषेयस्य वेदस्यानुमापकतया स्मृत्यादीनामपि वेदानुकरणेन धर्मे प्रामाण्याद् धर्मशास्त्रं पुरुषार्थचतुष्टयस्य प्रमुख प्रतिपादकम् । जीवनस्य सर्वेषु कालेषु धर्मस्य प्रभावः साक्षात् परम्परया वा वर्त्तते । अतः पुरुषार्थचतुष्टयेषु धर्मस्य श्रेष्ठत्वं सर्वे: स्वीक्रियते। पुरुषार्थेषु पुरुषस्य प्रवृत्तिः सुखायैव भवति । जीवमात्रस्य सुखमत्यन्तमभीष्टम् । तस्माद् धर्मार्थकामा: पुरुषार्थाः प्रथमत आहरणीयाः। अनन्तरमनायासेनैव मोक्ष: सिद्ध्यति । एतेषां पुरुषार्थानां नियन्त्रकः धर्मः। पुनश्च सकामभावेन धर्माचरणं न कृत्वा निष्कामभावेन कुर्यात् । अर्थोपार्जन त्यागाय, कामसेवनं पुन: शरीररक्षणायैवाऽऽचरणीयम्। एतेषां धर्मार्थकामानां पुरुषार्थत्रयाणां विशुद्धाचरणेन मोक्षप्राप्ति म चतुर्थः पुरुषार्थ:५५ सिद्ध्यति । चतुर्वर्गेऽर्थकाममोक्षाणां पुरुषार्थानां मूल: धर्मः।

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।

त्रिवर्गोऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥

पुरुषार्थचतुष्टयस्य विशदविवरणं धर्मशास्त्रे एव प्राधान्येन प्राप्यते । सर्वेषु विषयेषु पुरुषार्था: प्राधान्येन वर्ण्यन्ते। यत: धर्मशास्त्रं शृङ्खलितजीवन धारणायैवोपदिष्टम् । अतः मनुष्यस्य परमाकाङ्कितपुरुषार्थानां वर्णनं तत्रैव सन्निविष्टम् । प्रथमत: 'सत्यं वद , धर्मं चर' इत्यादिना धर्मस्य, तथा शरीरस्य विना क्लेशं, सत्यपथे स्थित्वा श्ववृत्त्यादिवर्जनपूर्वकं धनार्जनं विधेयमि त्यादिनाऽर्थस्य , पर्वकालं विहाय स्त्रियां रतिवासनां प्रपूरयेदित्यादिना कामस्य, पुनश्च 'सर्वमात्मनि संपश्येदि'त्यादिना मोक्षस्य वर्णनं भवति ।

यथा - धर्मपालनं ब्रह्मचर्याश्रमे मुख्यतया विहितम् । गृहस्थाश्रमे धर्योपायेनार्थ कामयोरर्जन सेवनञ्च विहितम् । पुनश्च वानप्रस्थाश्रमे संन्यासाश्रमे च मोक्षे चित्त निवेश्य कामार्थौ परित्यज्य च धर्मपालनमुपदिष्टम् । तत्रापि धर्ममात्रं यथायोगं सर्वेषां साधनम् । अतः प्रवृत्तिनिवृत्त्यात्मकतया द्विविधस्यापि५६ धर्मस्य पुरुषार्थसाधनतोक्ता । धर्मादेवेहलौकिकं पारलौकिकं च सुखं जायते । अत: पुरुषार्थचतुष्टयप्राप्तये धर्मशास्त्रमेव सर्वथाऽऽदरणीयं सर्वेषाम् ।

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।

धर्मस्य महत्त्वं सर्वजनविदितम्। अनियतेऽपि संसारे धर्मस्यैव नियतत्वं सर्वैरनुभूयते। अतस्तस्य प्रतिपादकशास्त्रत्वेन धर्मशास्त्रस्य महत्त्वमत्यन्तं राजते। धर्मशास्त्रमेव मानवचरित्रस्य नियामकम् । धर्मशास्त्रस्योद्देश्य प्रत्यक्षसिद्धम् । मनुष्य: स्वाभिलषितपदार्थान् यस्मात् प्राप्तुं शक्नोति, तस्य प्रतिपादनमेव धर्मशास्त्र स्योद्देश्यम्। धर्मः परलोकेऽपि कर्मानुसारं फलं ददाति। अत: परलोकविश्वास: हिन्दुधर्मस्य मुख्याधारः। मनुष्यस्य मरणकाले यद्यपि प्रियजनेषु न कोऽपि सहायको भवति तथाऽप्यसौ धर्म एक एव तमनुसरतीत्येव धर्मस्य नित्यसहायकत्वं वैशिष्ट्यञ्च -

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।

एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।

शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥

धर्माद्राज्यं धनं सौख्यमधर्माद् दुःखसम्भवः।

तस्माद् धर्मं सुखार्थाय कुर्यात् पापंच कीर्तयेत् ॥

वेदोपनिषत्स्वपि धर्मस्य माहात्म्यं प्रतिपादितम् । धर्मं विना विश्वस्य स्थितिरपिन सम्भवति। श्रुतिस्मृतिप्रतिपादितधर्माणामाचरणं कृत्वा मानवः परत्रेह च सुखस्याधिक्यं फलं प्राप्तुमर्हति । स्कन्दपुराणमपि धर्मस्य प्रशंसां कृत्वा धर्माद्राज्यधनसुखादीनां प्राप्तिर्भवतीति प्रतिपादयति । चतुर्वर्गचिन्तामणौ धर्मादेवेतरपुरुषार्थसिद्धि: वर्णिता । धर्मः रक्षितो रक्षकं रक्षति । य: धर्महानिं करोति धर्मोऽपि तं नाशयति । अत: सर्वथा धर्मयुक्तकर्माणि विद्वानाचरेदिति शास्त्रकाराणामादेशः -

धर्मात् सञ्जायते ह्यर्थो धर्मात् कामोऽभिजायते।

धर्मादेव परब्रह्म तस्माद् धर्म समाश्रयेत् ॥

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः।

तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥

धर्मे मतिर्भवतु व: सततोत्थितानां ।

स ह्येक एव परलोकगतस्य बन्धुः।

धर्मशास्त्रस्य उत्पत्तिः विकासश्च

धर्मशास्त्रं नाम सकलशास्त्रपुरस्कृतं निखिललोकसुरक्षकं कृत्याकृत्य विवेकप्रतिपादकत्वेन नित्यनियतोपादेयं साक्षाद् वेदार्थानुमापकत्वेन वेदवत् प्रमाणभूतं तप:स्वाध्यायपूतचरित्राणां मनुगौतमवसिष्ठादीनामनवरतस्वाध्याया ध्ययनपूतकण्ठोद्गीर्णत्वेन परमपवित्रं गुणिगणसमादरणीयं सर्वजनग्रहणीय शास्त्रम् -

धर्मशास्त्रस्य लक्षणमिदं पण्डितश्रीकुलमणिमिश्रशर्मणा श्रीदेवयानपत्रिकायां प्रतिपादितम् ।

धर्मस्य मूलं वेद एव। स च वेदः सर्वासां विद्यानां मूलभूतः। वेदवृक्ष माश्रित्य सर्वाणि शास्त्राणि प्रभवन्ति । तस्यैव वेदस्य षडङ्गानि सन्ति । तानि यथा शिक्षा, कल्पः, व्याकरणं, छन्दः,निरुक्तं, ज्योतिषञ्चेति । एतेषु वेदाङ्गेषु कल्पभागे एव धर्मशास्त्रस्यान्तर्भावः। अत: कल्पभागादेव धर्मशास्त्रस्योत्पत्तिः समभूत् । कल्पभाग: वेदपुरुषस्य हस्ततुल्यो भवति । प्राचीनशास्त्रवत् कल्पभागोऽपि सूत्रमय आसीत् । कल्पसूत्रं चतुर्विधं भवति । श्रौतसूत्रं, शुल्वसूत्रं, धर्मसूत्रं, गृह्यसूत्रश्चेति । तत्र श्रौतसूत्रेषु यागानुष्ठानविधयः, शुल्वसूत्रेषु यागवेदि-यागपात्रकुण्डादीना निर्माणविधयः, धर्मसूत्रेषु धर्मशास्त्रीयविषयाणां विचाराः, गृह्यसूत्रेषु च कर्मकाण्डीयविषयाणां संस्कारादीनामनुष्ठानविधयः प्रतिपादिताः सन्ति।

वेदान्तर्गतानां निखिलविषयाणां प्रतिपादकत्वाच्छ्रुत्यनन्तरं धर्मविषये स्मृतेरेव मान्यता स्वीक्रियते । श्रुतेश्च विप्रकीर्णत्वेनालब्धत्वात् सनातनी धर्म धर्मशास्त्रग्रन्थानामेव मौलिकं महत्त्वं विद्यते । अस्यैव धर्मशास्त्रस्य काल पि. भि. काणेमहोदयानां मतानुसारं निरुक्तकारस्य यास्कस्य कालादेव प्रारभ्यते।

तत्र निरुक्तस्य३ तृतीयकाण्डे प्रतिपादित: दायभागविषय: विचारपथमागच्छति। कौशीतक्युपनिषद्यपि४ दायसम्बन्धिनौ मनूक्तश्लोकावुदाहृतौ । अत एवोपनिषत् कालेऽपि धर्मशास्त्रस्य प्रामाण्यमवर्त्तत --

अर्थतां जाम्या रिक्थप्रतिषेध उदाहरन्ति । ज्येष्ठं पुत्रिकाया इत्येके ।

अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ।

आत्मा वै पुत्रनामासि स जीव: शरदः शतम् ॥

अविशेषेण पुत्राणां दायो भवति धर्मतः।

मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत् ॥

गौतमधर्मसूत्रेऽपि ‘तस्य च व्यवहारो वेदाः धर्मशास्त्राणि' इत्यादिना गौतमवचनेनैतत् स्पष्टीभवति यत्तदानीन्तनकालेऽपि धर्मशास्त्रस्य प्रचलनमासीत्। महाभारत - रामायणादिषुः मनूक्तधर्मशास्त्रस्य बहूनि प्रमाणवचनानि दृश्यन्ते। अत: महाभारतरामायणादीनां कालत: प्रागेव धर्मशास्त्रस्योत्पत्तिरभवत् । पतञ्जले: व्याकरणमहाभाष्येऽपि धर्मशास्त्रीयग्रन्थानामुदाहरणानि इतस्तत उद्धृतानि। अत: वैदिककालादारभ्यैव धर्मशास्त्रस्योत्पत्तिरिति भारतीयपरम्पराऽवितथरूपेण प्रमाणमधिगच्छति -

तैरेवमुक्तो भगवान् मनु: स्वायम्भुवोऽब्रवीत् ।

शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः॥

राजभिभृतदण्डास्तु कृत्वा पापानि मानवाः।

निर्मला: स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥

मा शासनाद्वा विमोक्षाद्वा स्तेन: पापात् प्रमुच्यते ।

राजा त्वशासन् पापस्य तदवाप्नोति किल्विषम् ।।

पूर्वप्रतिपादितधर्मलक्षणानां पर्यालोचनेनैतत् स्पष्टीभवति यत् निखिलैरपि शास्त्रकारैः वेद एव धर्ममूलत्वेनाङ्गीकृतः। किन्तु वेदेषु धर्मशास्त्रान्तर्गताः सर्वे विषयाः न सन्ति। वेदानां विप्रकीर्णत्वात् सर्वतोभावेनानुपलब्धत्वात्ते ते विषयाः स्मृतिष्वनुसन्धेयाः। एतदपि जैमिनिना पूर्वमीमांसायां स्मृतिप्रामाण्याधिकरणे सिद्धान्तितम् । सर्वे वेदगता: विषया: धर्मशास्त्रेऽस्मिन् प्रतिपादिताः। मन्वादिभिः सर्वेषां ज्ञानार्थं सरलसुबोधशैल्या धर्मशास्त्रे समग्र: वेदार्थः प्रतिपादितः। वेदविषयानुद्धृत्य धर्मशास्त्रं मानवसमाज सन्मार्गमुपदिशति।

वेदेषु विवाह-वर्णाश्रम-पुत्रभेद-उत्तराधिकारिनिर्णय-धनविभाग श्राद्धादिविषयका: बहवः प्रसङ्गा उपलभ्यन्ते। ते प्रसङ्गाश्च कालक्रमेण धर्मशास्त्रस्य विषयीभूताः। यास्कमतानुसारं पुत्रिकाग्रहणविधिः ऋग्वेदे दृश्यते । भ्रातृहीना कन्या वरं लब्धुं न शक्नोतीति ऋग्वेदे दृश्यते। मनु - याज्ञवल्क्यस्मृत्यादिष्वपि तत्त्वमिदं स्पष्टमुद्घोषितम् । ऐतरेयब्राह्मणे शुन:शेपोपाख्याने औरसपुत्रे विद्यमानेऽपि दत्तपुत्रग्रहणं युज्यत इति प्रतिपादितम्। तैत्तिरीयसंहितायामत्र्युपाख्याने दत्तपुत्रग्रहण विधि: विवृतोऽस्ति। ज्येष्ठपुत्रस्य श्रेष्ठभागस्तैत्तिरीयसंहितायां प्रतिपादित: । आपस्तम्बधर्मसूत्रे बौधायनधर्मसूत्रे चायमेव विषयः गृहीतः। ऋग्वेदे ब्रह्मचारिणः प्रशंसनं क्रियते , तदाचरणविधिश्च निर्णीयते । तथैव मनुसंहितायामपि ब्रह्मचारिणः कर्त्तव्यं निरूपितम् -

अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् ।

कृधि प्रकेतमुपमास्या भरदद्धि भागं तन्वो येन मामहः ॥

तस्माज्येष्ठपुत्रं धनेन निरवसाययन्ति । (तैत्तिरीयसंहितायां)

शतपथब्राह्मणे तैत्तिरीयारण्यके ७२ च पञ्चमहायज्ञानामुल्लेखोऽस्ति । धर्मशास्त्रेऽपि पञ्चमहायज्ञा: मानवस्य कर्त्तव्यरूपेणोपदिष्टाः । अत एव विविधैरुदा हरणैः प्रतिपाद्यते यद् वेद एव धर्मशास्त्रस्य मूलम् । वेदस्तु कर्मकाण्ड-ज्ञानकाण्ड भेदेन द्विधा विभज्यते। धर्मशास्त्रस्याङ्गविशेषैः धर्मसूत्रैः सह वेदाङ्गभूतस्य कल्पस्य साक्षात् सम्बन्धसत्वादस्य प्रमाणं वेदा एवेति निश्चप्रचम् । परवर्तिनि काले धर्मसूत्रकारा: श्रौतसूत्राणां गृह्यसूत्राणाञ्च विधानान्यनुसृत्य स्वग्रन्थेषु कर्माणि निर्दिशन्ति -

पञ्च वा एते महायज्ञाः शतति प्रतीयन्ते । शतति संतिष्ठते ।

देवयज्ञः पितृयज्ञः भूतयज्ञः मनुष्ययज्ञः ब्रह्मयज्ञश्चेति ।

धर्मशास्त्रस्य शास्त्रत्वम्

धर्मस्य मूलं वेद एव । धर्मादयः पुरुषार्थाः यत्र विद्यन्ते स एव वेद इति व्युत्पत्त्या इतरपुरुषार्थानां वेदे वर्तमानत्वेऽपि धर्मस्य मुख्यतया वर्णन विहितम्। अनन्तरं धर्मस्य विस्तृतवर्णनं धर्मशास्त्रे एव क्रियते । अतस्तस्य धर्मशास्त्रं नाम। तस्यापरा संज्ञा स्मृतिः। अनयोः स्मृतिधर्मशास्त्रयोः नान्तरं महत् । मनुना वेदधर्मशास्त्रयोः भेदप्रदर्शनावसरे धर्मशास्त्रस्यैव स्मृतिपदवाच्यता प्रदर्शिता । तस्य धर्मशास्त्रस्य पुनः वेदस्मरणमाध्यमेन प्रतिपादितत्वात् स्मरन्ति वेदमनया इति स्मृति:, अथवा महर्षिभिः वेदार्थचिन्तनं स्मृतिरिति सिद्धमेव -

श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।

याज्ञवल्क्योक्त्यनुसार विद्यायाः चतुर्दशत्वे सिद्धे सति वेदातिरिक्ता अन्या: दशविद्याः स्मृतिरूपाः। ताः चतुर्दशविद्या: याज्ञवल्क्येनाचाराध्याये प्रतिपादिताः। ताश्च पुराणं ब्राह्मादि वक्ष्यमाणम् । न्यायः गौतमीयं, काणादं कापिलं,पातञ्जलं शास्त्रञ्चेति चतुर्विधं प्रमाणादिनिरूपणशास्त्रं गौतमादि प्रणीतम्। मीमांसा जैमिनिप्रणीता कर्ममीमांसा, शाण्डिल्यप्रणीता भक्तिमीमांसा, वादरायणप्रणीता ब्रह्ममीमांसा च। धर्मशास्त्रं च मनुयाज्ञवल्क्यादि प्रणीतम् । अङ्गानि शिक्षा, कल्पो , व्याकरणं, निरुक्तं, छन्दः, ज्योतिषमिति। एतैरुपेताश्चत्वारो वेदाः। एतासां चतुर्दशविद्यानां स्वर्गाद्यपवर्गसाधनकर्मब्रह्मज्ञानानां स्थानानि धर्मस्य च निमित्तानि। अत एतेषां धर्मस्थानत्वमित्युक्तम् -

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः।

वेदा: स्थानानि विद्यानां धर्मस्य च चतुर्दश।

अङ्गिरास्तु शास्त्रीयज्ञानवर्जितं यत् किञ्चिदेव कर्म विचारपूर्वकं क्रियते तत्सर्वं बालकानां क्रीडेव निष्फलं भवतीति प्रतिपादयति । स्मृतिशब्दस्योक्तदश विद्यावाचकत्वे प्रमाणं श्रुतिः स्मृतीति याज्ञवल्क्यवचनमेव ।

स्वाभिप्रायकृतं कर्म यत् किञ्चिद् ज्ञानवर्जितम् ।

क्रीडाकर्मेव बालानां तत्सर्वं निष्प्रयोजनम् ।।

अत्र स्मृतिपदस्य मन्वादिप्रणीतधर्मशास्त्रमात्रपरत्वे पुराणन्यायेत्यादिना पूर्वोक्तवाक्येन सह विरोधो दुष्परिहरः स्यात्। श्रुतिस्मृतीति पञ्चानामेव धर्ममूलत्वेन प्रतिपादनादेतादृश विरोधपरिहाराय चात्र स्मृतिपदेन दशानामपि विद्यानां ग्रहणस्यावश्यमभ्युपेयत्वात्। अत एव व्याकरणस्मृतिः सांख्यस्मृतिरिति व्यवहारोऽपि संगच्छते। सङ्गच्छते च स्मृतिप्रामाण्यनिरूपणप्रकरणे व्याकरणप्रामाण्यनिरूपणं जैमिनीयम् । एवं स्मृतिपदस्य विशेषतो मन्वादिप्रणीतधर्मशास्त्रवाचकत्वमपि। मनुना स्मृतिधर्मशास्त्र योरैक्यं प्रदर्शितम् । याज्ञवल्क्यस्य चतुर्दशविद्याव्याख्यानावसरे विष्णुपुराणं धनुर्वेदायुर्वेदादीनामपि विद्यात्वं स्वीकृत्याष्टादशत्वं साधयति -

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।

धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ॥

आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः।

अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः॥

आयुर्वेदादीनां चतसृणां विद्यानामपि न स्मृतित्वं नापि श्रुतित्वशङ्का । यतः विद्यानामष्टादशत्वेऽपि स्वर्गापवर्गसाधनकर्मब्रह्मज्ञानैकस्थानभूतानां धर्मप्रधाना नामेव विद्यानां याज्ञवल्क्यमहर्षिणा चतुर्दशतया परिगणनम् । विष्णुपुराणे तु धर्मशास्त्रस्येतिहासः दृष्टार्थप्रधानाश्चायुर्वेदादिविद्या अपि सम्मिल्याष्टादशतया परिगणिता इत्यविरोधः। याज्ञवल्क्योक्तचतुर्दशविद्या: प्रधानत: धर्ममेव प्रतिपादयन्ति। परन्तु आयुर्वेदाद्यास्तु चतस्रोऽनुषङ्गतो धर्मं प्रतिपादयन्त्योऽपि प्राधान्यादर्थकामावेव प्रतिपादयन्ति ।

प्राधान्येन धर्मप्रतिपादकान्येव शास्त्राणि स्मृतिपदेनोच्यन्ते । क्वचिदव्यव हृतञ्चार्थकामप्रधानानां चरमाणां चतसृणां न स्मृतित्वम् । न हि श्रुतिभिन्नत्व मात्रं स्मृतित्वे प्रयोजकम् । काव्यादीनामपि स्मृतित्वप्रसङ्गाम्। श्रुतिस्मृतिविरोधे दृष्टलोभादिमूलकत्वे वा स्मृतेरप्रामाण्यमेव। जैमिन्यनुसारं सांख्ययोगपाञ्चरात्र पाशुपताद्यसाधारणधर्माधर्मप्रतिपादकानां तथा म्लेच्छाचारादीनां प्रतिपादकस्मृति वाक्यानामप्रमाणता सिद्ध्यत्येव । नोचेत् तेषामपि शास्त्राणां धर्मे प्रमाणत्व मागमिष्यति। तेषु धर्मनिर्णयशास्त्रत्वप्रसङ्गे धर्मशास्त्रस्यैव प्राथम्यं वरीवति । पूर्वप्रतिपादितधर्मस्यैव प्रतिपादकं शास्त्रं धर्मशास्त्रम् ।

वेदस्य निखिलभागस्य धर्मप्रतिपादकत्वेन तस्यैव शास्त्रत्वे प्रामाण्यम्। सर्ववेदद्रष्टुत्वेन मनुरेव प्रमाणम् । परन्त्वन्येषां वेदाङ्गानां मीमांसादीनामपि वेदैः परम्परया सम्बन्धानां न धर्मशास्त्रवत् प्रत्यक्षसम्बन्धः। पुराणानामपि वर्णनीय पुरुषप्रवृत्तिवर्णनपरतया नैकान्ततो धर्मपरतेति न तेषां प्राधान्येन धर्मशास्त्रत्वम्। मन्वादिप्रणीतान्येव शास्त्राणि धर्मशास्त्राणीति आर्यजनपरम्पराप्रसिद्धानि ।

अन्यत्रापि तैत्तिरीयारण्यक- पाणिनीयव्याकरणादिषु स्मृतिशब्देन वेदैः सह सम्बन्धितशास्त्रत्वेनैव व्याख्या विधेया। वेदानुमापकग्रन्थेषु श्रेष्ठत्वाद् धर्मशास्त्रस्यैव स्मृतित्वसिद्धिः युक्ता प्रतिभाति । यत: व्यापकार्थविशिष्टः धर्मः समग्रवेदवाङ्मयस्य विधिनियमाननुसरति। यद्यपि वेदार्थानुमापकग्रन्थत्वेन व्याकरणगृह्यसूत्रपुराणादीनां शास्त्रान्तराणामपि स्मृतिसंज्ञा यौगिकी तथापि धर्मशास्त्राणां पङ्कजादिशब्दवत् सा योगरूढा -

वृषो हि भगवान् धर्मः।

चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।

त्रिधा बद्धो वृषभो रोरवीति महो देवो महँ आविवेश ।

अस्य मन्त्रस्य विशिष्टार्थः मदीयगुरुपादैः पण्डितकुलमणिमिश्रमहोदयैः धर्मशास्त्रशब्दकोषस्य प्रथमखण्डे भूमिकायां (पृ.१८.) प्रकाशितः।

धर्मशास्त्रवाङ्मयस्य परिचयः

श्रुत्यनुमापकत्वेन प्रमाणभूतस्य धर्मशास्त्रस्य निखिला: विषया: सामान्यतः त्रिधा विभज्यन्ते । सर्व एव विषयाः धर्माधर्मावेव प्रतिपादयन्ति। स चायं धर्मः कर्तुरभिमतफलवर्षणान्मन्वादिभिः वृष इत्युच्यते । भगवान् वेदोऽपि धर्मं वृषाकृतिमाचष्टे । अस्य विलक्षणवृषभरूपस्य धर्मस्य चत्वारि शृङ्गाणि यथाक्रम धर्मस्य वेद- स्मृति- सदाचारात्मतुष्ट्यादि लक्षणानि । तस्यैव धर्मवृषस्य त्रयः पादाः। ते चाचार -व्यवहार- प्रायश्चित्त- काण्डत्रयरूपाः। अतः धर्मशास्त्रस्य विषया: आचार- व्यवहार - प्रायश्चित्तभेदैः विभज्यन्ते।

धर्मः श्रौतस्मार्त्तभेदेन द्विधा विभक्तः । स्मार्त्तधर्म: धर्मशास्त्रस्य विषयीभूतः। तत्रार्याणां क्रियमाणानां सकलधर्मार्जनविधयः तथाऽधर्मनिवारणाय प्रतिषेधा अपि वर्णिताः । वर्णाश्रमधर्म- षोडशसंस्कार- गार्हस्थ्यधर्म - पञ्चमहायज्ञ भक्ष्याभक्ष्यनिरूपण - द्रव्यशुद्धि - जननमरणाशौचनिरूपण - श्राद्ध- राजधर्म - ऋणादानाद्यष्टादशव्यवहारपद- आपद्धर्मप्रकरण- प्रायश्चित्तनिरूपण- कृच्छ्रचान्द्रा यण- व्रतोत्सर्ग- प्रतिष्ठा- तीर्थयात्रादय: विषया: धर्मशास्त्रे सन्निविष्टाः। अत एव धर्मस्य तत्त्वं मानवस्य समग्रजीवनमभिव्याप्योपदिष्टम् ।

पूर्वोक्तेषु त्रिषु काण्डेषु आचार एव वैशिष्ट्यं धारयति । मनुष्यस्य दिनचर्या, रात्रिचर्या , देशाचार- कुलाचार- जात्याचारादीनां वर्णनं, सर्वेषां वर्णानां तथा ब्रह्मचर्य-गृहस्थाश्रमयोः वर्णनं, तेषां विशेषाधिकाराश्च, सर्वे गर्भाधानाद न्त्येष्टिपर्यन्तं संस्काराः, ब्रह्मचारिनियमाः, अनध्यायाः, अभक्ष्यभक्षण, स्नातकधर्माः, गृहस्थाश्रमस्य विवाहादित: वानप्रस्थाश्रमग्रहणपर्यन्तं सर्वे नियमाः, व्रतोपवासाः, दानानि, प्रतिष्ठाः, देवपूजा - पितृपूजा - नृपूजादीनां पञ्चमहायज्ञाना मनुष्ठानविधिः, द्रव्यशुद्धिः, श्राद्धस्य भेदाः, कर्त्तव्यविधिः, निखिलनियमानां प्रतिपादनं, तीर्थस्थानमित्येते विषया: आचारकाण्डान्तर्गताः। आचाराध्याये सर्वविधधर्मोत्पादककर्मणां प्रतिपादनाद् धर्मशास्त्रे स एव मुख्यरूपं धारयति । व्यवहारभागे क्षत्रियधर्माः प्रतिपादिताः । राजगुणोपेतः क्षत्रियोऽभिषेकानन्तरं प्रजापालनं कुर्यात् । नृपतेः स एव परमो धर्मः। राज्ञः व्यवहारदर्शनविधिरत्र मुख्यतः प्रतिपादितो भवति। राज्ञः शत्रुसकाशादात्मरक्षणम्, प्रजारक्षणं, देशरक्षणं, दुर्गव्यूहादीनां रचनं, राज्यस्य षडङ्गानाममात्यदुर्गजानपदादीनां पालनं, प्राड्विवाकादीनां नियोगः , तेषां साहचर्येन व्यवहारपदानां समाधानं, विवादानां विचारः, धनस्य दायादेषु विभाजनं चेत्यादय: विषया: काण्डेऽस्मिन् प्रतिपादिताः।

अन्तिमभागो भवति प्रायश्चित्तकाण्डः । तत्र विशेषत: निमित्तधर्मः वर्णितः। मोक्षप्रधानयोर्वानप्रस्थसंन्यासाश्रमयोरपि तत्र योगीश्वरेण समावेशः कृतः। शौचाशौचयोवर्णनम्, पापस्य स्वरूपप्रतिपादनं,पापोत्पत्तिकारणानि, पापकर्मणां महापातक-अतिपातक-उपपातक-पातक-संकरीकरण-मलिनीकरणादिषु विभागेषु विभाजनं, तेषां पापानामपनो दनार्थं प्रायश्चित्तप्रतिपादनं, प्रायश्चित्तरूपव्रताङ्गभूत- कृच्छ्र-चान्द्रायण-प्राजापत्यादीनां वर्णनं विभागेऽस्मिन् निवेशितम् । अत: धर्मशास्त्रस्य सर्वेऽपि विषया एषु त्रिषु काण्डेषु प्रतिपाद्यन्ते। त्रिषु काण्डेषु प्रथमत: वर्णधर्म - आश्रमधर्म -वर्णाश्रमधर्माणामाचारभागे तथा गुणधर्म: व्यवहारकाण्डे, निमित्तधर्मश्च प्रायश्चित्तभागे वर्ण्यन्ते। सामान्यधर्मश्च सामान्यतः सर्वेषु भागेषु स्थानितो भवति ।

धर्मशास्त्रस्य वाङ्मय: मात्रायां महत्त्वं धारयति । असौ वाङ्मयः विशाल वृक्षरूपः। अस्य वाङ्मयस्येतिहासः काणेमहोदयानां मतानुसारं त्रिभिः कालैः विभज्यते । यथा -

१. सूत्रकालः - ख्रीष्टात् पूर्वं ५०० तः - ३०० ख्रीष्टाब्दपर्यन्तम् ।

२. स्मृतिकालः - ख्रीष्टात् पूर्व ५०० तः - ५०० ख्रीष्टाब्दपर्यन्तम् ।

३. भाष्यनिबन्धकालः - ८०० ख्रीष्टाब्दात् - १९५० ख्रीष्टाब्दपर्यन्तम् ।

धर्मशास्त्रसाहित्यस्य विकासः

धर्मशास्त्रस्य सहस्राधिकाः उपलभ्यमानाः ग्रन्थाः प्रायशः २५ दशकेभ्यः पूर्वदारभ्य धारावाहितया अद्यापि लभ्याः सन्ति । धर्मशास्त्रग्रन्थाः रचनाशैलीम् अनुसृत्य सूत्र-स्मृति-टीकादिभिः विभक्ताः सन्ति । रचनाकालादारभ्य समर्थतया विभक्ताः सन्ति एते ग्रन्थाः । धर्मशास्त्रस्य ग्रन्थाः आदौ धर्मप्रचारयोग्यं प्रदेशं दर्शयन्ति । मनुस्मृतौ सरस्वती दृषद्वती नद्योः विद्यमानं मध्यभागं (प्रदेशं) ब्रह्मावर्तमिति उपदिष्टम् अस्ति । कुरुक्षेत्र-मत्स्य-पाञ्चाल-शूरसेनप्रदेशाणां प्रदेशः ब्रह्मर्षिदेशः इति । हिमवद् विन्द्यपर्वतयोः मध्ये विद्यमानं कुरुक्षेत्रं पूर्वप्रदेशः इति, प्रयागस्य पश्चिमदिशि विद्यमानं प्रदेशं मध्यदेशः इति, पूर्वपश्चिमसमुद्रयोः हिमवद् विन्द्यपर्वतयोः च विद्यमानयो मध्यविशालप्रदेशम् आर्यवर्तप्रदेशः इति च निर्दिष्टः अस्ति । एतेषु उत्तरोत्तरदेशस्यापेक्षया पूर्वदेशाः धर्मानुष्ठाय योग्याः इति ।

धर्मशास्त्रस्य प्रमेयाः

धर्मशास्त्रे सामान्यतया विषयाः त्रिषु विभागेषु विभक्ताः । आचारः, व्यवहारः, प्रायश्चित्तञ्च इति । वेदेषु विद्यमानाः बीजरूपविषयाः धर्मसूत्रेषु निबद्धाः सन्ति । मनोः, याज्ञवल्क्यस्य, नारदस्य, पराशरस्य च स्मृतिषु शास्त्रीयदृष्ट्या विभागः कृतः अस्ति ।

आचारः

आचारः नाम श्रुतिस्मृतिप्रोक्तं शास्त्रीयम् आचरणम् । अस्मिन् व्यक्तिजीवने, सामाजिकजीवने, गृहजीवने च अनुसरणीयाः नीतयः नियमाश्च, मानवेन आजीवने अनुसरणीयाः संस्काराः, संस्कारानन्तरं करणीयाः आचारनियमाः च निरूपिताः ।
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च -मनस्मृतिः,-१-१०८
आचारः परमो धर्मः सर्वेषामिति निश्चयः-वसिष्ठः,६,१
चतुर्णामपि वर्णानामाचारो धर्मपालकः
आचारहीनः षडङ्गसहितं वेदं पठति चेदपि निष्फलं भवति । आचारयुक्तः चेदेव सम्पूर्णफलं प्राप्नोति । तपसः आधारः आचारः एव भवति । सदाचारः एव धर्मस्य मूलम् । आचारेण आयुष्यम्, इष्टार्थसिद्ध्यादीः च लभ्यन्ते । अशुभं नाशयति च । दुराचारी लोके निन्दितः भवति, दुःखभाजनः सततव्याधिग्रस्थः अल्पायुः च भवति । धर्माचरणे निरतः एवं चिन्तयन्ति, वयं फलं न प्राप्नुमः, दुःखमयं जीवनं, दारिद्र्यञ्च बाधते इति । एतेषां प्रश्नानाम् उत्तरं मनुः एवं वदति,
नाधर्मश्चरितो लोके सद्यः फलति गौरिव ।
शनैरावर्तमानस्तु कर्तुर्मूलानि कृन्तति ॥
यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु ।
न त्वेव तु कृतो धर्मः कर्तुर्भवति निष्फलम् ॥
अधर्मेणैधते तावत्ततो भद्राणि पश्यति ।
ततः सपत्नान् जयति समूलस्तु विनश्यति ॥

  • आचारकाण्डे प्रमुखाः विषयाः वर्णधर्मः, आश्रमधर्मः, अनयोः धर्मयोः सम्बद्धाः संस्काराः च निरूपिताः ।

वर्णधर्मः

सर्वेषु धर्मशास्त्रग्रन्थेषु अस्याः वर्णव्यवस्थायाः निरूपणं कृतम् अस्ति । चत्वारो वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्र इति । "ब्राह्मणोऽस्य मुखमासीत् बाहु राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्ब्भ्यां शूद्रो अजायत" इति ऋग्वेदे अपि वर्णितम् अस्ति । वर्णविभजनस्य उद्देश्यं तु लोकस्य अभिवृद्धिः एव । उक्तं तद्यथा,
लोकानां विवृध्यर्थं मुखबाहूरुपादतः ।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥

आश्रमव्यवस्था

धर्मशास्त्रे चात्वारः आश्रमाः व्यवस्थितया निरूपितवान् अस्ति । ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्यासादयाः (चत्वारः) आश्रमाः । आश्रमाणां धर्माचरणम् उपनयनोत्तरम् इत्येव निर्दिष्टमिति ।

  • ब्रह्मचर्याश्रमः- मुख्यः आदिमः आश्रमः। सद्गृहस्थः भवितुम् अस्य आश्रमस्य प्रामुख्यता वर्तते । ब्रह्मचर्यशब्दस्य अर्थः वेदानाम् अध्ययनम् एवं तेषां अनुष्ठानं च भवति । केचन नियमाः यथा,

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्धकं पादिकं वा ग्रहणान्तिकमेव वा ॥
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममासेत् ॥

  • गृहस्थाश्रमः- सकलाश्रमाणाम् आधारभूतः अतिमुख्यः च आश्रमः गृहस्थाश्रमः । सकलाश्रमाणां आधारस्तम्भः भवति । अस्य आश्रमस्य वैशिष्ट्यम् एवं निरूपितम्,

गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
चतुर्णामाश्रमाणां तु गृहस्थश्च विशिष्यते ॥

    गृहस्थाः सन्ध्यादि षट् कर्माणि करणीयानि । तानि उक्तानि,

संध्यास्नानं जपो होमो देवतानां च पूजनम् ।
आतिथ्यं वैश्वदेवश्च षट् कर्माणि दिने दिने ॥

    गृहस्थेभ्यः कानिचन कर्तव्यानि निर्दिष्टानि सन्ति । तानि भवन्ति,

अध्यापनं ब्रह्मयज्ञः, षितैयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतोनृयज्ञोऽतिथिपूजनम्॥

  • वानप्रस्थः- देवऋणात्,ऋषिऋणात्, पितृऋणात् च मुक्तो भूत्वा , एवं क्रमशः यजनयाजनम्, अध्ययनम्, अध्यापनम्, पुत्रप्रजननानन्तरं पौत्रस्य जननं च दृष्ट्वा जटाधारीभूत्वा आवसथाग्निना सह काननं प्रति गन्तव्यम् । वन्यफलादिकं भुक्त्वा जीवितव्यम् । प्रतिनित्यं त्रिषवणम्(त्रिवारं स्नानम्), त्रिसन्ध्याजपम्, भूमौ शयितव्यम् । आत्मसिद्धि प्राप्तुं यतमानः भवेत् । श्रुतेः, उपनिषदानां च अध्ययनं निरन्तरतया भवेत् ।
  • सन्यासाश्रमः- वानप्रस्तस्य अस्य च भेदः तावान् नास्ति । वानप्रस्थाश्रमे जटाधारिः भवति । अस्मिन् तु मुण्डितः भवति । अस्मिन् आत्मसाधनार्थं सर्वदा यतमानाः भवेयुः । उक्तञ्च,

वनेषु च विहृत्यैवं तृतीयं भागमायुषः ।
चतुर्थमायुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥
सन्यासाश्रमधर्माः केचन पठिताः सन्ति । ते यथा,
न कुट्यां नोदरे सङ्गो न चैले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥
अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य ।
आध्यात्म चिन्तागमानसस्य ध्रुवाह्यसौवृत्तिरुपेक्षकस्य ॥

  • संस्काराः- संस्काराः सामान्यतया द्विधा विभक्ताः । जननपूर्वाः जननानन्तराणि च । संस्काराः षोडष उक्ताः सन्ति । तानि मनस्मृतौ उक्तानि सन्ति । यथा,गर्भादानम्, पुंसवनम्, सीमन्तोनयनम्, जातकर्म, नामकरणम्, निष्क्रमणम्, अन्नप्राशनम्, चूडाकरणम्, कर्णवेध, विद्यारम्भः, उपनयनम्, वेदारम्भः, केशान्तः, समावर्तनम्, विवाहः, अन्तेष्टिः च ।
    संस्काराणाम् उद्देश्यं निरूपितं मनुस्मृतौ । तद्यथा,

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥
गार्बैर्होमैर्जातकर्म चौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः॥

व्यवहारः

स्मृत्युक्तेषु धर्मेषु व्यवहारभागः (आचारकाण्डेषु) प्रमुखः अस्ति । लौकिकालौकिकव्यवहाराः सुवर्णिताः सन्ति । राजधर्मस्य कथनं नाम व्यवहारधर्मः इत्यर्थः । मनुस्मृतौ सप्तमे एवं अष्टमे अध्याये राजधर्मः निरूपितः अस्ति । याज्ञवल्क्यस्मृतौ अपि व्यवहारधर्मः निरूपितः अस्ति । अस्मिन् व्यवहारकाण्डे प्रथमश्लोकः एवं विद्यते,
व्यवहारान् नृपः पश्येत् विद्वद्भिः ब्राह्मणैः सह ।'
धर्मशास्त्रानुसारेण क्रोधलोभे विवर्जितः ।
स्मृत्यानुसारं नृपः न्यायदानं कुर्यात् । अतः न्यायनिर्णयार्थं वेदधर्मशास्त्रपारङ्गतानाम्, सत्यवादिनाम्, निष्पक्षपातिनाम्, विद्वज्जनानां च समूहः भवतिस्म । समूहे विद्यमानानां सख्यायाः विषये स्मृतिग्रन्थेषु ऐक्यमत्यं नास्ति । समूहे नृपाः, गौरवस्थकुटुम्बिनः, वृद्धवणिक्, धनिकाः च भवेयुः । नृपस्य अनुपस्थाने कश्चित् न्यायाधीशः नृपेणैव निर्दिष्टाः भवति । एवं ग्रामेषु मण्डलादिषु च निर्दिष्टाः भवन्ति । न्यायालयादिषु गणक, लेखकः, साध्यपालि इति च त्रयः अधिकार्यः आसन् । समस्यायाः निर्णयदाने प्रतिज्ञा, उत्तरम्, संशयहेतुपरामर्शः, निर्णयप्रमाणञ्च परीक्ष्य निर्णयः देयः भवतिस्म । प्रमाणं द्विविधं, मानुषम्, दैविकञ्चेति । मानुषप्रमाणस्य अभावे दैविकप्रमाणं स्वीकुर्वन्तिस्म ।
व्यवहारः अष्टादशेषु विभागेषु विभक्ताः । ऋणम्, दानम्, निक्षेपः, अस्वामिविक्रयः, सम्भूयसमुत्थानम्, दत्तानपाकर्म, वेतनादानम्, संविद्व्यतिक्रमः, क्रयविक्रयः, स्वामिपालविवादः, सीमाविवादः, दण्डपारुष्य, वाक्पारुष्य, स्तेय, साहसम्, स्त्रीसङ्ग्रहणम्, स्त्रीपुंधर्मः, विभागः, द्यूतसमाह्वयः इति व्यवहारस्य विभागः ।

प्रायश्चित्तम्

प्रायश्चित्तं नाम पश्चात्तापप्राप्तं मनः इति । अस्य वर्णनं मनुस्मृतौ एवं निरूपितम्,
प्रायो नाम तप-प्रोक्तं चित्तं निश्चय उच्यते ।
तपो निश्चयसंयुक्तं प्रायश्चित्तमितिस्मृतम् ॥
आत्मशुद्ध्यर्थम् उक्तानि सन्ति प्रायश्चित्तानि । अतः मनस्मृतौ,याज्ञवल्क्यस्मृतौ , गतमस्य, बोधायनस्य, आपस्तम्भस्य, वसिष्ठधर्मसूत्रादिषुच प्रायश्चित्तस्य विषये निरूपितम् अस्ति । प्रायश्चित्तेषु दैहिकप्रायश्चित्तानि विहाय जपतपादयः, कृच्छ्रः, अतिकृच्छाः, पराकः, चान्द्रायणादीनि प्रायश्चित्तानि निरूपितानि । प्रायश्चित्तस्य विषये भवदेवभट्टस्य प्रायश्चित्तप्रकरणम्, शूलपाणेः प्रायश्चित्तविवेकः च मुख्यौ ग्रन्थौ भवतः । रघुनन्दनस्य कृतिषु महापातकाः, उपपातकाः च वैज्ञानिकदृष्ट्या निरूपिताः । हनमम्, अभक्ष्यभक्षणम्, अगम्यगमनादिषु विषयेषु स्पष्टतया निरूपितवान् अस्ति ।


अधाराः

बाह्यानुबन्धः

Tags:

धर्मशास्त्रम् धर्मस्य प्रकाराःधर्मशास्त्रम् धर्मस्य आकराःधर्मशास्त्रम् धर्मस्य उद्भव: विकासश्चधर्मशास्त्रम् धर्मभेदाःधर्मशास्त्रम् धर्मस्य मुख्यपुरुषार्थत्वम्धर्मशास्त्रम् धर्मशास्त्रस्य उत्पत्तिः विकासश्चधर्मशास्त्रम् धर्मशास्त्रस्य शास्त्रत्वम्धर्मशास्त्रम् धर्मशास्त्रवाङ्मयस्य परिचयःधर्मशास्त्रम् धर्मशास्त्रसाहित्यस्य विकासःधर्मशास्त्रम् धर्मशास्त्रस्य प्रमेयाःधर्मशास्त्रम् अधाराःधर्मशास्त्रम् बाह्यानुबन्धःधर्मशास्त्रम्

🔥 Trending searches on Wiki संस्कृतम्:

भौतिकशास्त्रम्विकिपीडियाहर्षचरितम्१८१४आर्मीनियानासिकानादिर-शाहःकथावस्तुतैत्तिरीयोपनिषत्इण्डोनेशियाआङ्ग्लविकिपीडियामृच्छकटिकम्राष्ट्रियजनतादलम्विकिःविकिस्रोतःभारतीयभूगोलम्शाब्दबोधः१२३८कथाकेळिःकठोपनिषत्२६परित्राणाय साधूनां...पूजा हेगड़ेवर्षःकाव्यम्नैषधीयचरितम्रससम्प्रदायः१०५४११५०भारतेश्वरः पृथ्वीराजः२४ अप्रैल१८१८रवीना टंडनसुमित्रानन्दन पन्तयो यो यां यां तनुं भक्तः...x9hqn१८९२शरीरं च रक्तवाः स्रोतआस्ट्रेलियाअष्टाध्यायी१४कराचीइस्लाम्-मतम्पेलेकाव्यप्रकाशःब्राह्मणम्नासतो विद्यते भावो...मन्त्रःछन्दःअभिज्ञानशाकुन्तलम्हिन्द-यूरोपीयभाषाःशुक्लरास्यातन्वीअन्ताराष्ट्रियः व्यापारःसिरियाभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःसर्पगन्धःमेजर ध्यानचन्दमोक्षःब्रूनैएक्वाडोरराँचीत्रिविक्रमभट्टःदशार्हः१३१५कामसूत्रम्जर्मनभाषासङ्गीतम्बन्धुरात्मात्मनस्तस्य...कोटिचन्नयौपीठम्🡆 More