परित्राणाय साधूनां...: भगवद्गीता श्लोकः ४.८

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य अष्टमः (८) श्लोकः ।

श्लोकः

परित्राणाय साधूनां...: श्लोकः, पदच्छेदः, अन्वयः 
गीतोपदेशः
    परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
    धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥

पदच्छेदः

परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥

अन्वयः

साधूनां परित्रणाय, दुष्कृतां च विनाशाय, धर्मसंस्थापनार्थाय च युगे युगे सम्भवामि ।

शब्दार्थः

    साधूनाम् = सज्जनानाम्
    परित्रणाय = संरक्षणाय
    दुष्कृताम् = दुर्जनानाम्
    विनाशाय = मारणाय
    धर्मसंस्थापनार्थाय च = धर्मप्रतिष्ठापनार्थाय च
    युगे युगे = प्रतियुगे
    सम्भवामि = अवतरामि ।

अर्थः

सत्पुरुषाणां संरक्षणाय, दुर्जनानां विनाशाय, धर्मस्य च संस्थापनाय प्रत्येकं युगे अवतरामि ।

शाङ्करभाष्यम्

किमर्थं-परित्राणायेति। परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानां, विनाशाय च दुष्कृतां पापकारिणाम्। किंच धर्मसंस्थापन्र्थाय धर्मस्य सम्यक्स्थापनं तदर्थेसंभवामि युगे युगे प्रतियुगम् ।।8।।


श्रीमद्भगवद्गीतायाः श्लोकाः
परित्राणाय साधूनां...: श्लोकः, पदच्छेदः, अन्वयः  पूर्वतनः
यदा यदा हि धर्मस्य...
परित्राणाय साधूनां... अग्रिमः
जन्म कर्म च मे दिव्यम्...
परित्राणाय साधूनां...: श्लोकः, पदच्छेदः, अन्वयः 
ज्ञानकर्मसंन्यासयोगः

१)इमं विवस्वते योगं... २)एवं परम्पराप्राप्तम्... ३)स एवायं मया तेऽद्य... ४)अपरं भवतो जन्म... ५)बहूनि मे व्यतीतानि... ६)अजोऽपि सन्नव्ययात्मा... ७)यदा यदा हि धर्मस्य... ८)परित्राणाय साधूनां... ९)जन्म कर्म च मे दिव्यम्... १०)वीतरागभयक्रोधा... ११)ये यथा मां प्रपद्यन्ते... १२)काङ्क्षन्तः कर्मणां सिद्धिं... १३)चातुर्वर्ण्यं मया सृष्टं... १४)न मां कर्माणि लिम्पन्ति... १५)एवं ज्ञात्वा कृतं कर्म... १६)किं कर्म किमकर्मेति... १७)कर्मणो ह्यपि बोद्धव्यं... १८)कर्मण्यकर्म यः पश्येद्... १९)यस्य सर्वे समारम्भाः... २०)त्यक्त्वा कर्मफलासङ्गं... २१)निराशीर्यतचित्तात्मा... २२)यदृच्छालाभसन्तुष्टो... २३)गतसङ्गस्य मुक्तस्य... २४)ब्रह्मार्पणं ब्रह्म हविः... २५)दैवमेवापरे यज्ञं... २६)श्रोत्रादीनीन्द्रियाण्यन्ये... २७)सर्वाणीन्द्रियकर्माणि... २८)द्रव्ययज्ञास्तपोयज्ञा... २९)अपाने जुह्वति प्राणं... ३०)अपरे नियताहाराः... ३१)यज्ञशिष्टामृतभुजो... ३२)एवं बहुविधा यज्ञा... ३३)श्रेयान्द्रव्यमयाद्यज्ञात्... ३४)तद्विद्धि प्रणिपातेन... ३५)यज्ज्ञात्वा न पुनर्मोहम्... ३६)अपि चेदसि पापेभ्यः... ३७)यथैधांसि समिद्धोऽग्निः... ३८)न हि ज्ञानेन सदृशं... ३९)श्रद्धावॉंल्लभते ज्ञानं... ४०)अज्ञश्चाश्रद्दधानश्च... ४१)योगसंन्यस्तकर्माणं... ४२)तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

परित्राणाय साधूनां... श्लोकःपरित्राणाय साधूनां... पदच्छेदःपरित्राणाय साधूनां... अन्वयःपरित्राणाय साधूनां... शब्दार्थःपरित्राणाय साधूनां... अर्थःपरित्राणाय साधूनां... शाङ्करभाष्यम्परित्राणाय साधूनां... सम्बद्धाः लेखाःपरित्राणाय साधूनां... बाह्यसम्पर्कतन्तुःपरित्राणाय साधूनां... उद्धरणम्परित्राणाय साधूनां... अधिकवाचनायपरित्राणाय साधूनां...

🔥 Trending searches on Wiki संस्कृतम्:

स्वामी दयानन्दसरस्वती१५४९नाट्यशास्त्रम् (ग्रन्थः)ब्रह्मदेशःवेदाविनाशिनं नित्यं...सितम्बर ७अमिताभ बच्चनके एन् एषुत्तच्छन्अल्बर्ट् ऐन्स्टैन्भारविःभारतस्य संविधानम्कात्यायनीरास्याक्षमा रावहितोपदेशःअष्टाङ्गयोगःआनन्दवर्धनः६४१छन्दःबुधःतैत्तिरीयोपनिषत्12.2 मय्यावेश्य मनो….नृयज्ञःभविष्यपुराणम्सुकर्णोभारतीयदर्शनशास्त्रम्जयन्त्युत्सवाःकराचीचम्पूकाव्यम्बहामासहन्शिन् टाइगर्सकौसल्यारामानुजाचार्यःमनोरञ्जनंत्रयोदशी८०६गङ्गानदीवर्णाश्रमव्यवस्थायोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)श्रीमद्भागवतमहापुराणम्पोलॅण्ड्सऊदी अरबजुलाई २२नवदेहलीकादम्बरीउद्योगपर्वराजस्थानराज्यम्ब्अमरमङ्गमलम्उर्वारुकम्जनवरी १२छन्दोनुशासनम्विकिपीडियाद्राक्षाफलम्भक्तिःआयुर्विज्ञानम्व्याकरणग्रन्थाःजून २५जनवरी १०ब्रह्मसूत्राणिमिशिगनलातूरगुरु दत्तअलङ्कारसम्प्रदायःक्रीडाभारतस्य नद्यःउपनिषद्रसतन्त्रम्पञ्चमहाकाव्यानिक्कास्सोवारिस्प्रियदर्शिकाक्रिकेट्-क्रीडाकैटरीना कैफकलियुगम्मयि सर्वाणि कर्माणि...भगत सिंहकल्पः🡆 More