बसवेश्वरः

भक्तः बसवेश्वरः(बसवण्णः) कर्णाटकस्य सांस्कृतिक इतिहासे बसवण्णस्य महोन्नतस्थानम् अस्ति । तस्य जीवने धार्मिक्यः, सामजिक्यः वैचारिक्यः एवं साहित्यक्यः क्रान्तयः जाताः। ८०० वर्षाणां पूर्वतनाः बसवेश्वरस्य सन्देशाः अस्माकं जीवने समुचितमार्गदर्शनरूपेण सन्ति । कन्नडसाहित्यक्षेत्रे बसवण्णः युगपुरुषः इति वक्तुं शक्यते । साहित्यक्षेत्रे महत्वपूर्णा क्रान्तिः एव कृता बसवेश्वरेण । स्वस्य ज्ञानं तथा दैवज्ञानं सर्वे यथा अवगच्छेयुः तथा सरलया शैल्या विचारयुक्तैः रसयुक्तवचनैः बोधितवान् । ज्ञानसम्पत्तिः केवल एकस्य एव न भवति । तस्य जातिभेदः वा, लिङगभेदः वा नास्ति । सामान्यजनाः अपि ज्ञानं प्राप्तुं शक्नुवन्ति । सरलशैल्या वचनानि लिखितवान् बसवण्णः । यथा वचनं तथा कृतिः इतिवत् व्यक्तिस्वातन्त्र्यस्य धैर्यं अन्येन केनापि कविना न कृतम् । पूर्वतनकवयः आश्रयदातृणां श्लाघनार्थं वा, मृतानां स्मरणार्थं वा, काव्यानि रचयन्ति स्म । किन्तु बसवण्णः तथा तस्य समकालिनः वचनकाराः नित्यसत्ययुक्तस्य लोकस्य वक्रता द्र्ष्ट्या निखरैः वचनैः लिखितवन्तः । सामान्याः जनाः सन्मार्गे प्रवर्तयेयुः इति बसवण्णस्य आशयः आसीत् । बसवण्णः बिजापुरमण्डलस्य बागेवाडी ग्रामे मादरसस्य तथा मादलाम्बायाः पुत्रः । एतत् स्थानम् इदानीं बसवनबागेवाडी इत्येव प्रख्यातम् अस्ति । वीरशैवानां पवित्रं यात्रास्थलम् एतत् । बिज्जलस्य मन्त्रिरूपेण कल्याणक्रान्तेः कारणकर्ता भूत्वा युगपुरुषः इति प्रख्यातः जातः । अस्पृश्यतयाः निवारणं जातिभेदानां निर्मूलनं , शीलयुक्तजनानां वर्धनम् एतस्य लक्ष्यम् आसीत् ।

Basaveshwara
बसवेश्वरः
Guru Basavanna
जन्मतिथिः 1134 CE
जन्मस्थानम् Basavana Bagewadi in Bijapur district, Karnataka, India
मृत्युतिथिः 1196 CE
मृत्युस्थानम् Kudalasangama, Karnataka, India
गुरुः/गुरवः Lingayat
तत्त्वचिन्तनम् Lingayatism, Humanity, monotheism, Human equality
साहित्यिककृतयः Vachanaas
उक्तिः Work is Worship
Mystic

बाह्यसम्पर्कतन्तुः

Tags:

कन्नडभाषाकर्णाटकबसवनबागेवाडीबिजापुरमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

स्मृतयःविकिःजनवरी १११७२८७७८जे साई दीपक१६७५चीनदेशः१६५६संस्कृतविकिपीडिया१०६७टेक्सास्१०७७मुख्यपृष्ठम्बौद्धधर्मःवेदव्यासः१६ फरवरी१५०१मोहिनीयाट्टम्९७१प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्कल्पना चावला५२८७६१गणितम्१४६५६८२८५१०५९देशाःभारविःचार्ल्स द गॉल७२९राम चरणरीतिसम्प्रदायः१७०७दाण्डीयात्रावेदाविनाशिनं नित्यं...न्‍यू मेक्‍सिकोकालाग्निरुद्र-उपनिषत्क्रीडा७२४विकिपीडियाआहारःविद्यारण्यः११९९थाईलेण्ड्९९६शिम्बीरससम्प्रदायःजुलियस कैसररास्याकुन्तकः१४. गुणत्रयविभागयोगःसेवील्लश्रीलङ्का१०२प्कदलीफलम्७६९४५९उर्वारुकम्२६०ल्६४२स्सितम्बर ६१०७३अथर्वशिरोपनिषत्ऋग्वेदः३७६हस्तःबोअ क्वोन्🡆 More