यवः

अयं यवः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं यवः अपि सस्यजन्यः आहारपदार्थः । अयं यवः आङ्लभाषायां Barley इति उच्यते । अस्य यवस्य मेध्यः, सितशूकः, दिव्यः, अक्षतः, धान्यराजः, तीक्ष्णशूकः, तुरगप्रियः, हयेष्टः , पवित्रधान्यम् इत्यादीनि अन्यानि नामानि अपि सन्ति । अयं यवः आहारः औषधं च । आचार्यः चरकः मधुमेहस्य निमित्तं संस्कारितः यवः अत्युत्तमम् औषधम् इति उक्तवान् अस्ति । एतं विषयम् अधिकृत्य एव आयुर्वेदमहाविद्यालये संशोधनम् अपि कृतम् अस्ति । तदा सिद्धं यत् यवस्य उपयोगेन सप्ताहाभ्यन्तरे एव रोगलक्षणं न्यूनं जायते, तथा च शर्करांशः १००-१५० मि.ग्रां.

यायत् न्यूनः जायते इति ।

यवः
शुष्कानि यवसस्यानि
यवः
यवराशिः

आयुर्वेदस्य अनुसारम् अस्य यवस्य स्वभावः

यवः 
यवसस्यम्
यवः 
यवः 
यवक्षेत्रम्

अयं यवः पचनार्थं जडः । यवः कषायमिश्रितमधुररुचियुक्तः । अयं यवः जीर्णानन्तरं कटुविपाकः भवति । अयं यवः पिच्छिलः रूक्षः च ।


    “यवः कषायो मशुरः शीतलो लेखनो मृदुः ।
    व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निवर्धनः ॥
    कटुपाकोऽनभिष्यन्दी स्वर्यो बलकरो गुरुः ।
    बहुवातमलो वर्णस्थैर्यकारी च पिच्छिलः ॥
    कण्ठत्वगामयश्लेष्मपित्तमेदःप्रणाशनः ।
    पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् ॥“ (भावप्रकाशः)


    १. अयं यवः शरीरं शुष्कीकरोति ।
    २. यवः शीतलः, लेखनः, मृदुः च ।
    ३. यवः शरीरे विद्यमानान् दोषान् निवारयति ।
    ४. अयं यवः अग्निवर्धकः, मेधावर्धकः, बलवर्धकः, स्थैर्यवर्धकः च ।
    ५. यवः नैर्यासगुणयुक्तः ।
    ६. यवः कफस्य पित्तस्य च दोषं निवारयति ।
    ७. मधुमेहे, कासे, अस्तमायां, पीनसे, चर्मरोगे, कुष्ठरोगे, कफप्रधाने ज्वरे च उत्तमः पथ्याहारः यवः ।
    ८. स्थूलकायाः प्रतिदिनं यवं सेवन्ते चेत् मासाभ्यन्तरे ३-४ के.जि. यावत् भारं न्यूनीकर्तुं शक्नुवन्ति ।
    ९. यवे ६९.३% पिष्टांशः, ११.५% फ्रोटिन्, १.५% खनिजांशः, विटमिन् सि, अयसः अंशाः च सन्ति ।
    १०. शरीरे शोथः अस्ति चेत्, मूत्रस्य अवरोधः अस्ति चेत् यवस्य सेवनं वरम् । यवः शोथं निवारयति, मूत्रं निस्सारायति च ।
    ११. यवस्य रोटिका रुचिकरी, मधुरा, लघु च ।
    १२. यवः मलवर्धकः, वीर्यवर्धकः, कफजन्यानां रोगाणां निवारकः च ।
    १३. यवः उत्तमः व्रणरोपकः अपि ।
    १४. यवस्य अधिकप्रमाणेन सेवनेन वातः वर्धते । ततः शरीरवेदना, अनिद्रा, शिरोवेदना च सञ्जायते ।‎

Tags:

आहारःचरकःभारतम्मधुमेहः

🔥 Trending searches on Wiki संस्कृतम्:

जार्ज २१००परित्राणाय साधूनां...अजर्बैजानद्विचक्रिकाविलियम ३ (इंगलैंड)काव्यप्रकाशःरामःमैथुनम्अलङ्कारशास्त्रम्प्रकरणम् (दशरूपकम्)करतलम्जर्मनभाषारसःअन्तर्जालम्१६७७कठोपनिषत्कराचीमार्जालःभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःनक्षत्रम्जातीकदलीफलम्वेदाविनाशिनं नित्यं...स्तोत्रकाव्यम्साङ्ख्यदर्शनम्नलःलाला लाजपत रायवासांसि जीर्णानि यथा विहाय...मायावादखण्डनम्साहित्यशास्त्रम्काशिकापुराणम्नेपोलियन बोनापार्टनव रसाःअविनाशि तु तद्विद्धि...मेजर ध्यानचन्दमन्त्रःक्रससम्प्रदायःचिलि१७४६लीथियम्सङ्गीतम्होमरुल आन्दोलनम्सुरभिप्रत्ययःनडियादग्रेगोरी-कालगणनावाद्ययन्त्राणिपी टी उषादमण दीव चयोगःजैनधर्मःनैषधीयचरितम्विपाशाअश्वत्थवृक्षःसूरा अल-नासइस्रेलमहाकाव्यम्मोक्षःरजतम्लातूर९९१इण्डोनेशियाबुल्गारियासंहतिः (भौतविज्ञानम्)बिहारीहर्षचरितम्नादिर-शाहःसूत्रलक्षणम्किरातार्जुनीयम्🡆 More