कश्यपः

अयं कश्चन महर्षिः । ब्रह्मणः पुत्रेण मरीचिमहर्षिणा कर्दमपुत्र्या कलायां जातः । अनेन अदितिः, दितिः, दनुः, कला, दनायुः, सिंहिका, क्रोधा, प्राधा, विश्वा, विनता, कपिला, मुनि, कद्रु - इत्येताः त्रयोदश दक्षपुत्रीः परिणीतवान् । सृष्टिकार्ये चतुर्मुखस्य अनन्तरम् अयमेव प्रमुखः । कश्यपः कदाचित् यज्ञं कर्तुम् इच्छन् गाः वरुणात् आनीतवान् । यज्ञस्य अनन्तरं यद्यपि बहुधा पृष्टः तथापि गाः न प्रत्यर्पितवान् । क्रुद्धः वरुणः लोभग्रस्तं कश्यपं तत्पत्न्यौ च उद्दिश्य मनुष्यजन्म प्राप्नुवन्तु इति शप्तवान् । गाः बन्धने स्थापितवन्तः इत्यतः कारागारवासः अनुभूयताम् इत्यपि शापं दत्त्वा चतुर्मुखस्य समीपं गत्वा सर्वं न्यवेदयत् । चतुर्मुखः पौत्रं कश्यपम् आहूय अवदत् - सर्वज्ञः सन् अपि भवता लोकपालस्य वरुणस्य गावः किमर्थं न प्रत्यर्पिताः ? भूभारहरणाय धर्मसेतुस्थापनाय च भवान् भूलोके जन्म प्राप्नोतु इति । अदितिः दितेः पुत्रान् सर्वान् संहृतवती । इदं दुःखम् असहमाना दितिः 'भवत्याः पुत्राः अपि जन्मसमनन्तरमेव मरणं प्राप्नुवन्तु । भवती अपि पुत्रशोकम् अनुभवतु । इन्द्रः अपि लोभग्रस्तः सन् एतादृशानि नीचकार्याणि कृतवान् इत्यतः सः अपि राज्यभ्रष्टः भवतु' इति शापम् अयच्छत् । वरुणस्य शापानुसारं कश्यपः दिति-अदितिभ्यां सह भूलोके २८तमे द्वापरयुगे वसुदेवरूपेण देवकी-रोहिणीभ्यां सह जन्म प्राप्नोत् । देवक्याः षट् पुत्राः अपि जननसमनन्तरमेव कंसेन संहृताः अभवन् । इन्द्रः देवलोकाधिपत्यात् च्युतः जातः । तदा देवताः बृहस्पतेः द्वारा अश्वमेधयागम् अकारयन् । तस्मात् इन्द्रः ब्रह्महत्यादोषात् मुक्तः जातः । पुत्रकामेष्टिद्वारा बहून् पुत्रान् प्राप्नोत् । आदित्यः, दैत्यः, दानवः, गरुडः, गन्धर्वः, नागः, पशुः, पक्षी, वृक्षः, गुल्मलतादयः अस्य सन्ततिः । अस्य १७ पत्न्यः । विष्णुः अदिति-कश्यपयोः पुत्रः सन् वामनरूपेण जन्म प्राप्नोत् । कदाचित् काश्यपः परशुरामेण अश्वमेधयागम् आचरय्य दक्षिणारूपेण भूमण्डलं प्रतिगृहीतवान् । अतः एव भूमिः 'काश्यपी' इति कथ्यते । अयं गोत्रप्रवर्तकेषु महर्षिषु आदिमः अस्ति । अयं मन्त्रद्रष्टा । अज्ञातगोत्राः कश्यपमेव स्वस्य मूलपुरुषं मन्यमानाः काश्यपगोत्रीयाः इति घोषयितुम् अर्हन्ति इति बोधयन्ति धर्मशास्त्राणि । (लिङ्गपुराणम् ६३)अस्य वैश्वानरस्य कुमर्यौ काला पुरोमा च पत्न्यौ आस्ताम् । कालया राक्षसाः कालकेयाः जाताः । पुलोमया राक्षसाः पौलोमाः जाताः । पर्वतनामकः देवर्षिः, विभण्डकनामकः ब्रह्मर्षिश्च अस्य पुत्रौ । अन्ये अपि पुत्राः आसन् इति श्रूयते ।

कश्यपःहिन्दुधर्मः

हिन्दुधर्मःइतिहासः

कश्यपःPortal:Hinduism

प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

    1. दितिः - दैत्याः
    2. अदितिः - आदित्याः (देवताः)
    3. दनुः - दानवाः
    4. दनायुः - सिद्धाः
    5. प्राधा - गन्धर्वाः
    6. मुनिः - अप्सरसाः
    7. सुरसा - यक्षाः नागाः
    8. इला - वृक्ष-लता-तृणजातयः
    9. क्रोधवशाः - मांसहारिणः दुष्टमृगजातयः
    10. ताम्रा - अश्व-अश्वतर-गर्दभ-श्येन-गृध्रादयः
    11. कपिला (सुरभिः) - गावः
    12. विनता - अरुण-गरुडादयः
    13. कद्रू - सर्पजातयः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अव्ययीभावसमासःभारविःपुरुषार्थःकामसूत्रम्विमानयानम्इरीट्रियाआर्गनग्रेगोरी-कालगणनापक्षिणःमोल्दोवा४ जुलाईसमयवलयःनादिर-शाहः१०५४जैनदर्शनम्नास्ति बुद्धिरयुक्तस्य...२३ जनवरी१४३५पी वी नरसिंह राव्दमण दीव चनैषधीयचरितम्शिश्नम्शर्करासत्त्वात्सञ्जायते ज्ञानं...चीनदेशःनिरुक्तम्३५८अजोऽपि सन्नव्ययात्मा...जैनतीर्थङ्कराःमन्त्रःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यायेषामर्थे काङ्क्षितं नो...समय रैनाक्षमा रावव्यवसायःवेदव्यासःचम्पादेशःअलाबुगौतमबुद्धःलीथियम्यवद्वीप4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःद्वितीयविश्वयुद्धम्विवाहसंस्कारःआकाशवाणी(AIR)वासांसि जीर्णानि यथा विहाय...११ जूनअस्माकं तु विशिष्टा ये...पीठम्रघुवंशम्आत्मात्वमेव माता च पिता त्वमेव इतिपूजा हेगड़ेचातुर्वर्ण्यं मया सृष्टं...कङ्गारूओट्टो वॉन बिस्मार्कन्१००नासिकाभर्तृहरिःपाषाणयुगम्अलवरद हिन्दूवाद्ययन्त्राणिहर्षवर्धनःजाम्बियाभगवद्गीता२२ जनवरीरामायणम्हिन्दूदेवताःकुवैतसाहित्यशास्त्रम्🡆 More