गौतमबुद्धः: नारायणस्य अष्टं अवतार:

निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत ।

गौतम बुद्धः
गौतमबुद्धः: नारायणस्य अष्टं अवतार:
गांधारशैल्या सृष्टा वज्रमुद्रायुक्ता बुद्धप्रतिमा। अद्य सः प्रतिमा टोक्यो नगरस्य राष्ट्रीय संग्रहालयन्तर्गत संरक्षितो वर्तते
जन्म १९४४ ई० पू०
लुम्बिनी, नेपाल
मृत्युः १८६४ ई० पू०
कुशीनगर, भारतम्
वृत्तिः राजकुमारः, धर्मप्रवर्तकः
कृते प्रसिद्धः बौद्धधर्मस्य प्रवर्तकः
गृहनगरम् कपिलवस्तु,नेपाल
पूर्वजाः कस्सपा बुद्ध
वंशजाः मैत्रेयः
भार्या(ः) राजकुमारी यशोधरा Edit this on Wikidata
अपत्यानि राहुल Edit this on Wikidata
गौतमबुद्धः: नारायणस्य अष्टं अवतार:गौतमबुद्धः

बौद्धधर्मः

गौतमबुद्धः: नारायणस्य अष्टं अवतार:बौद्धधर्मः
गौतमबुद्धः: नारायणस्य अष्टं अवतार:
बुद्धस्य विग्रहः

श्रीमद्भागवत्पुराणे बुद्धावतारः कृष्णस्य भविष्यति इति लिखितम्।

तत: कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।

बुद्धो नाम्नाञ्जनसुत: कीकटेषु भविष्यति।। (श्री भा 1.3.24)

सोऽयं महापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्तं विषयेषु नारमत । पुत्रस्य एतादृशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेषु मनागपि आसक्तं नाभवत् । अथ कदाचित् आतुरं कदाचि्त् वृद्धम्, अनन्तरं मृतकं ततः संन्यसिनं च विलोक्य तस्य हृदये महदवैराग्यम् अजायत । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिद्धार्थः रात्रौ पियां पन्तीं नवजातं पुत्रं च विहाय गृहात् प्राव्रजत् ।

ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत्, किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्यासेन तपस्यया च एकस्मिन् दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुःखमयम्, दुःखस्य मूलं कामना, कामनायाः उन्मूलनम् साध्यम्, एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपादिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिकसुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न चोरयेत् । सर्वान् समदृष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।

एतेषां पालनेनैव सुखं शान्तिश्च भवितुम् अर्हति । महात्मनो बुद्धस्य विचाराणाम् उपदेशानां च प्रचारः न केवलं भारते, अपि तु चीनजापानलंकादिषु देशेषु लोकप्रियता्म् अलभत ।

भारतीय धर्मगुरुः भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धशीलस्य शुद्धोदनस्य तथा तत्पत्न्याः पतिव्रतायाः मायादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।

सिद्धार्यो महान् सम्राट् व परिव्राट् वा भवतीति दैवज्ञवाणी आसीत् । पितुः अतिप्रयत्नम् अपि अतिक्रम्य दैवप्रचोदितः सिद्धार्थः रोगिणम्, अकिञ्चनं वृद्धं, मृतं नरं तथा स्थितप्रज्ञं मुनिं दृष्ट्वा वैराग्येण वनं गतः । तत्र बोधिवृक्षस्य छायायां तपस्तप्त्वा गौतमबुद्धो बभूव । तस्माच्च सः नश्वरं तत्कालीनमात्रं साम्राज्यं त्यक्त्वा आर्तजनानां हृदयसिंहासने शाश्वतं स्थानं प्राप्य अधुनापि तत्र विराजते ।

देशेऽस्मिन् गौतमबुद्धस्य काले धर्मस्य स्थाने सर्वत्र अधर्मस्यैव विकटाटृहासः विजृम्भमाणः आसीत् । यज्ञयागादिषु पशुबलिः नरबलिः इत्यादयः हिंसाक्रमाः प्रचलिताः अवर्तन्त । गौतमबुद्धस्तु 'अहिंसा परमो धर्मः’ इति सनातनं तत्त्वं पुनः संस्थापितवान् ।

गौतमबुद्धस्य मार्गः बौद्धधर्मः इति क्रमेण ख्यातः । सम्राजः अशोकादारभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य प्रचारमकुर्वन् । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१५४३आदिशङ्कराचार्यःराजस्थानराज्यम्ब्रह्मसूत्राणितमिळभाषाकराचीसिकन्दर महान११५६भाषाकुटुम्बःअशोच्यानन्वशोचस्त्वं...निकोला टेस्लायमःसांख्ययोगःवास्को ड गामाग्रेगोरी-कालगणनाकदलीफलम्कच्छवनस्पतियुक्तभूमिःकोलोम्बियाडचभाषाइस्लाम्-मतम्एडवार्ड् वी एप्पलटन्शाहिराज्यम्अधिवर्षम्Main pageताजमहलकालिदासस्य उपमाप्रसक्तिःरजतम्१७४४३६अलङ्काराःसुभाषितानिआङ्ग्लभाषाभोजपुरीभाषासोमालिलैंडजीवाणुःहानलूलूतत्त्वज्ञानम्संस्कृतविकिपीडियादेशाःरामःमेघदूतम्पाणिनिःप्राकृतिकविज्ञानम्क्षीरपथ-आकाशगङ्गाअरावली६०५१०२चम्पादेशःचिन्ताअश्वघोषःकरणम् (ज्योतिषम्)५३३टुनिशियायजुर्वेदःपर्वताःनव रसाःक्रैस्तमतम्९४१सूडानभोजदेवःकर्तृकारकम्विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् (योगसूत्रम्)रवीना टंडन१००इरीट्रियाअक्षरधाम (गान्धिनगरम्)रक्तम्विकिमीडियाधारणाईजिप्तदेशःहल्द्वानीमहाभाष्यम्१४५६🡆 More