जाकिर हुसैन

डा.

जाकिर हुसैन ( /ˈɑːkrəhʊsɛɪnə/) (हिन्दी: जाकिर हुसैन , आङ्ग्ल: Zakir Hussain) भारतस्य सुयोग्यः, शिक्षाविदः राष्ट्रपतिः (१९६७-१९६९) आसीत् । भारतीयधर्मनिरपेक्षतायाः साक्षी इदम् अस्ति यत्, भारतस्य सर्वोत्कृष्टे स्थाने (राष्ट्रपतिपदे) मुस्लिम-देशभक्ताः अपि आरूढाः भवन्ति । १९४७ तमे वर्षे कृतं धर्माधारितं भारतविभाजनं पाकिस्थानस्य जनकः अभूत् । तथापि भारतस्य धर्मनिरपेक्षतायाः विचाराः शिथिलाः नाभूवन् । एवं भारतस्य स्वतन्त्रतान्दोलनस्य देशभक्तः नेता डा. जाकिर हुसैन राष्ट्रपतित्वेन चितः । डा. सर्वपल्ली राधाकृष्णन्-महाभागः यदा राष्ट्रपतिः आसीत्, तदा डा. जाकिर हुसैन उपराष्ट्रपतिपदारूढः आसीत् । डा. सर्वपल्ली राधाकृष्णन्-महाभागस्य कार्यकाले समाप्ते सति १९६७ तमस्य वर्षस्य ‘मई’-मासस्य नवमे (९) दिनाङ्के राष्ट्रपतिनिर्वाचने डा. जाकिर हुसैन बहुमतेन चितः । १९६७ तमस्य वर्षस्य ‘मई’-मासस्य त्रयोदशे (१३) दिनाङ्के डा. जाकिर हुसैन राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् । राष्ट्रपतिभवनप्रवेशसमनन्तरं विशालभवनस्थानि विलासवस्तूनि दृष्ट्वा तस्य मुखात् सहसा निर्गतम्, “एतस्मिन् राजभवने त्यागिवत् जीवनयापनं कुर्वन् स्वदायित्वं निर्वहामि इति प्रार्थनां कुर्वन्तु” ।

डा. जाकिर हुसैन
जाकिर हुसैन
भारतस्य तृतीयः राष्ट्रपतिः
कार्यालये
१३/५/१९६२ – १३/५/१९६७
प्रधानमन्त्री इन्दिरा गान्धि
उपराष्ट्रपतिः श्रीवराहगिरि वेङ्कट गिरि
पूर्वगमः श्रीसर्वपल्ली राधाकृष्णन्
पादानुध्यातः श्रीवराहगिरि वेङ्कट गिरि
व्यक्तिगत विचाराः
जननम् ८/२/१८९७
हैदराबाद-महानगरम्
मरणम् ३/५/१९६९ (आयुः ७२)
देहली-महानगरं, भारतम्
राजनैतिकपक्षः स्वतन्त्रः
पतिः/पत्नी शाहजहां बैगम
अपत्यानि द्वे पुत्र्यौ
मुख्यशिक्षणम् अलीगढ-मुस्लिम-विश्वविद्यालयः, देहली-विश्वविद्यालयः, हम्बोल्ट् विश्वविद्यालयः - बर्लिन् (जर्मनी)
वृत्तिः दर्शनशास्त्री, प्राध्यापकः च
धर्मः मुस्लिमधर्मः

कुटुम्बेतिहासः

अष्टादशे(१८)ऽब्दे अफ्गानिस्थानात् भारतम् आगताः केचन पठानपरिवाराः उत्तरप्रदेशराज्यस्य फर्रुखाबादमण्डले स्वनिवासं निश्चितं कृतवन्तः । तेषु केचन विविधजीविकोपार्जनार्थं कृषिं प्रारभन्त । केचन भारतीयसैनिकस्य दायित्वं स्वीकृतवन्तः । गुलाम हुसैन खान भारतस्य सैन्ये कार्यं कुर्वन् आसीत् । १८८८ तमे वर्षे तस्य पुत्रः फिदा हुसैन वाक्कीलस्य कार्यं कर्तुं हैदराबाद-महानगरं गतः । स्वतर्कैः शीघ्रं हि सः हैदराबाद-महानगरस्य प्रतिष्ठितः वाक्कीलः अभवत् । तस्य पत्न्याः नाम आसीत् 'नाजनीन' । तयोः षड् पुत्राः आसन् । तेषु तृतीयः पुत्रः एव अस्माकं तृतीयः राष्ट्रपतिः डा. जाकिर हुसैन ।

जन्म, बाल्यकाले अनुभूताः क्लेशाः च

१८९७ तमस्य वर्षस्य 'फरवरी'-मासस्य अष्टमे (८) दिनाङ्के जाकिर हुसैन जातः । तस्य पिता क्षयरोगग्रस्तः (cancer patient) आसीत् । अतः यदा जाकिर हुसैन नववर्षीयः आसीत्, तदा तस्य पिता परिवारेण सह पुनः उत्तरप्रदेशस्थितं पुरातनगृहं गतवान् । १९०७ तमे वर्षे तस्य पिता दिवङ्गतः । जाकिर हुसैन यदा उच्चविद्यालये पठन् आसीत्, तदा तस्य मातुः, लघुभ्रातुः च 'प्लेग'-रोगेण मृत्युः अभूत् । तस्य मातुः, लघुभ्रातुः च यदा मृत्युः अभूत्, तदा सः परीक्षार्थम् आगरा-महानगरं गतवान् आसीत् । सः तस्य जीवन्यां लिखति, “परीक्षायाः पश्चात् यदा अहं गृहं प्राप्तुं रेलयाने आसम्, तदा अहं ज्ञातवान् 'प्लेग'-रोगस्य प्रसरण(spread)विषये । तस्मिन् दिने रेलस्थानकात् मां नेतुं कोऽपि न आगतवान् । अतः अहं पद्भ्यामेव गृहं प्राप्तवान् । गृहं यदा प्राप्तवान्, तदा मम मातुः मृत्योः ज्ञानमभूत् । मम माता मां प्रमुञ्च्य दूरं, बहु दूरं गतवती । बहु निराशः अहं किङ्कर्तव्यमूढः इतस्तः भ्रमितवान् । परन्तु मम माता दूरद्रष्टृ आसीत् । तस्याः जीवनकाले एव वयं भ्रातरः स्वनिर्भराः आस्म । मम माता वदति स्म, “स्वं कार्यं कुर्वन्तु । पूर्वजानां नाम उज्वलं कुर्वन्तु” इति । तस्याः वचनम् अस्माकं कृते आशीर्वादः आसीत्” ।

शिक्षणम्

मातृपित्रोः निधनानन्तरं तयोः वचनपालनार्थं सः अध्ययनाय अधिकं ध्यानं यच्छति स्म । जाकिर हुसैन यदा हैदराबाद-महानगरे निवसति स्म, तदैव तस्य अध्ययनस्य आरम्भः अभवत् । नववर्षस्य आयुपर्यन्तं हैदराबाद-महानगरे 'मौलवी' तस्य गृहं पाठनाय गच्छति स्म । तस्मात् सः फारसी-उर्दू-अरबी-अङ्ग्रेजी-भाषाः, कुरान-शरीफ च अपठत् । हैदराबाद-महानगरात् स्थानान्तरे सति इटावा-महानगरे स्थितायाम् इस्लाम-पाठाशालायां तस्य प्रवेशः अभूत् । तस्यां पाठशालायाम् इस्लामीसभ्यता-संस्कृत्योः ज्ञानेन सह अङ्ग्रेजी-संस्कृतयोः च शिक्षणं सः प्राप्तवान् । पाठशालायां पठितुं सः छात्रावासे निवसति स्म । छात्रावासस्य नियमानुसारं सः प्रतिदिनं 'नमाज' पठति स्म ।

इटावा-महानगरे प्राथमिकशिक्षणं समाप्य अलीगढमण्डले स्थिते 'मोहम्मदन ओरियण्टल एङ्ग्लो' (M.O.A.) महाविद्यालये 'इण्टरमीडियेट्' इत्यस्य अध्ययनं प्रारभत सः । प्रारम्भे सः विज्ञानसम्बद्धानां विषयाणां चयनम् अकरोत् । परन्तु कालान्तरे साहित्यिकग्रन्थेषु तस्य रुचिः उद्भूता । अतः सः 'बी.ए.' इत्यस्याध्यनार्थं अलीगढ-महाविद्यालयं गतवान् । तत्र सः अङ्ग्रेजी-दर्शन-अर्थशास्त्राणाम् अध्ययनं प्रारभत । १९१८ तमे वर्षे सः 'बी.ए.' उत्तीर्णं कृतवान् । उत्तमगुणैः उत्तीर्णः सन् 'इकबाल' इति पदवीं प्राप्तवान् सः । ततः सः अर्थशास्त्रविषयम् अधिकृत्य 'एम.ए.' इत्यस्य अध्ययनं प्रारब्धवान् । तदैव न्यायशास्त्रस्य(एल.एल.बी.) अध्ययनमपि सः प्रारब्धवान् आसीत् । १९२० तमे वर्षे सः 'एम.ए.' इत्यस्य अध्ययनं समाप्य अलीगढ-महाविद्यालये एव प्रवक्तुः पदं प्राप्तवान् । अध्यापनेन सह न्यायशास्त्रस्य अध्ययनमपि कुर्वन् आसीत् सः ।

जाकिर हुसैन निरन्तरम् अध्ययने रतः आसीत् । अध्ययनचक्रं विना तस्य जीवनस्य चक्रं निरर्थकमासीत् । अध्ययनाध्यापनयोः तस्य अधिका रुचिः आसीत् । सः लेखान् अपि लिखति स्म । सः अनुवादं, भाषणं च करोति स्म । तस्य भारतराष्ट्रियविचाराः अलीगढ-महाविद्यालये बहु प्रख्याताः आसन् । आङ्ग्लनेतृत्वस्य विरोधी सः भारतीयसंस्कृतेः प्रबलः पक्षधरः आसीत् । सः अलीगढ-महाविद्यालयस्य शिक्षकः आसीत्, छात्रः अपि आसीत् । अलीगढ-महाविद्यालये यदा सः आसीत्, तदा भारते आङ्ग्लनां विरोधः पूर्णबलेन भवन् आसीत् । १९२० तमे वर्षे महात्मा असहयोगान्दोलनस्य घोषणां कृतवान् आसीत् । मुस्लिमनेतारः अपि 'खिलाफत'-आन्दोलनस्य प्रारम्भं कृतवन्तः आसन् । महात्मनः असहयोगान्दोलनं, यवनानां 'खिलाफत'-आन्दोलनञ्च आङ्ग्लविरोधार्थम् आसीत् । तदा डा. जाकिर हुसैन अलीगढ-महाविद्यालयस्य छात्रसङ्घस्य उपाध्यक्षः आसीत् । द्वयोः आन्देलनयोः एकतायै अलीगढ-महाविद्यालये 'खिलाफत कोङ्ग्रेस'-अधिवेशनम् आसीत् । तस्मिन् अधिवेशने अबुल कलाम आजाद, हकीम अजमल खा, महात्मा च भागम् अगृह्णत् । सर्वे नेतारः छात्रान् उद्दिश्य एकं सारयुक्तं निवेदनम् अकुर्वन्, “भारतस्य स्वतन्त्रतायै छात्राः स्वयोगदानं दद्युः” इति । तत्र महात्मा अवदत्, “एषः एव भारतस्य क्रान्तिकालः अस्ति । भारतीयछात्रैः भारतस्य स्वतन्त्रतायै योगदानं दातव्यमेव । अतः सर्वकारेण चालितानां विद्यालयानां, महाविद्यालयानां च त्यागं कृत्वा भारतीयैकतायाः प्रमाणं सर्वे छात्राः दद्युः इति मे प्रार्थना” ।

जाकिर हुसैन सर्वेषु विद्यार्थिषु उत्कृष्टः, प्रतिभावान् च आसीत् । अतः अलीगढ-महाविद्यालयस्य आचार्यः जियाउद्दीन जाकिर हुसैन इत्येनं न्यवेदयत्, “त्वं महाविद्यालयं त्यक्त्वा न गच्छसि चेत् अहं त्वां 'डेप्युटि कलेक्टर'-पदाय नियोजयिष्यामि” इति । परन्तु निस्स्वार्थी जाकिर हुसैन देशकल्याणाय महाविद्यालयं त्यक्तवान् एव । सः एतस्याः घटनायाः उल्लेखं स्वजीवन्यां करोति, “जीवनस्य सर्वप्रथमः सः मुख्यनिर्णयः मया स्वेच्छया कृतः आसीत् । तत्पश्चात् अहं मम जीवने तादृशान् निर्णयान् पुनः न कृतवान् । अधुना मम पार्श्वे यत्किमपि अस्ति, तत् तस्य निर्णयस्य बलेनैवास्ति” ।

सर्वकारेण चालितानां शिक्षणसंस्थानां त्यागं कृत्वा आगतेभ्यः विद्यार्थिभ्यः नवीनस्य राष्ट्रियविश्वविद्यालयस्य आवश्यकता उद्भूता । अतः १९२० तमस्य वर्षस्य 'अक्तूबर'-मासस्य एकविंशति(२१)तमे दिनाङ्के जाकिर हुसैन-द्वारा प्रेरितस्य 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयस्य स्थापना अभवत् । १९२२ तमे वर्षे सः विद्यावारिधिप्राप्त्यर्थं (PhD) जर्मनी-देशम् अगच्छत् । १९२६ तमे वर्षे यदा सः भारतं प्रत्यागच्छत्, तदा 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयः दुस्स्थितौ आसीत् । समाजे चर्चा आसीत् यत्, 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयस्य पिधानं भविष्यति” इति ।

वैवाहिकजीवनम्

जाकिर हुसैन यदा 'इण्टरमीडियेट्' पठन् आसीत्, तदा शाहजहा बैगम इत्यनया सह तस्य विवाहः जातः आसीत् । तयोः द्वे पुत्र्यौ आस्ताम् । तयोः नाम क्रमेण सईदा, साफिया च । तस्य पारिवारिकजीवनं शान्तियुतं, सुखप्रदं च आसीत् ।

शिक्षणक्षेत्रे योगदानम्

१९२७ तमे वर्षे 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयस्य कुलपतेः मृत्यौ सति विश्वविद्यालयस्य पूर्णः कार्यभारः डा. जाकिर हुसैन इत्यस्योपरि आपतितः । विश्वविद्यालयस्य निर्वहणार्थं धनस्याभावः आसीत् । अतः डा. जाकिर हुसैन देहली-महानगरं, हैदराबाद-महानगरं च गत्वा धनिकेभ्यः धनम् अयाचत । यात्रायाः साफल्येन विश्वविद्यालयस्य आर्थिकी स्थितिः सुदृढा अभूत् । डा. जाकिर हुसैन यदा विश्वविद्यालयस्य कुलपतिपदम् अलङ्कृतवान् आसीत्, तदा विश्वविद्यालयः पिहितः भविष्यति इति निश्चितमासीत् । परन्तु एकवंशतिः वर्षपश्चात् यदा विश्वविद्यालयस्य कार्यभारात् डा. जाकिर हुसैन विमुक्तः अभवत्, तदा तस्य विश्वविद्यालयस्य गणना उत्तमविश्वविद्यालयेषु अभवत् । डा. जाकिर हुसैन इत्यस्य काले हिन्दु-मुस्लिमविद्यार्थिनाम् एकतायै अपि विश्वविद्यालयः प्रख्यातः आसीत् । डा. जाकिर हुसैन गान्धि-विचारानुगामी आसीत् । अतः तस्मिन् विश्वविद्यालये महात्मना निर्दिष्टायाः शिक्षणपद्धत्याः अनुसरणं भवति स्म ।

स्वातन्त्र्यसङ्ग्रामे योगदानम्

महात्मना प्रेरिताय असहयोगान्दोलनाय स्वयोगदानं दत्त्वा स्वतन्त्रतायाः प्रतीकस्य 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयस्य रक्षणं कृत्वा डा. जाकिर हुसैन पूर्णमनसा देशसेवां कृतवान् । ततः सः कोङ्ग्रेस-पक्षे कार्यं कृतवान् । तस्य मुख्यं कार्यम् आसीत् शिक्षणद्वारा क्रान्तिः । शिक्षायाः माध्यमेन देशे जागरूकता कथं भवेत्, देशः स्वतन्त्रः कथं भवेत् इत्येताभ्यां कार्याभ्यां सः परिश्रमम् अकरोत् । स्वातन्त्र्यसङ्ग्रामकाले डा. जाकिर हुसैन योग्यः शिक्षाविदः विचारकः इति प्रसिद्धः अभवत् । परन्तु कोङ्ग्रेस-मुस्लिमलीग-पक्षयोः यः विभाजनसम्बद्धविवादः आसीत्, तेन डा. जाकिर हुसैन इत्यस्य मनः उद्विग्नं भवति स्म । अतः १९४६ तमे वर्षे 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयस्य रजतजयन्त्याः अवसरे सः मार्मिकं भाषणं कृतवान् आसीत् । तस्मिन् कार्यक्रमे कोङ्ग्रेस-मुस्लिमलीग-पक्षयोः महात्मा-सरदार-जिन्ना-मौलाना आजाद-नेहरू-आदयः सर्वे नेतारः उपस्थिताः आसन् । भाषणसमये सः उक्तवान्, “'खुदा'-र्थे भवन्तः पारस्परिकं मतभेदं विस्मृत्य कार्यं कुर्वन्तु । अस्माकं वर्तमानस्थित्यै कः उत्तरदायी अस्ति, तस्य विचारार्थम् एषः उचितकालः नास्ति । एतस्मिन् काले अस्माभिः निर्णयः कर्तव्यः यत्, वयं सुसभ्यं भविष्यं इच्छामः उत कलहपूर्णं जीवनम् । अतः अहं भवतः सर्वान् प्रार्थयामि, कृपया एकी भूत्वा देशस्य एकतायै चिन्तनं कुर्वन्तु” इति ।

राजनीतिप्रवेशः

महात्मा शिक्षणपद्धत्याः परिवर्तनम् इच्छति स्म । सः न केवलं शिक्षणस्य पद्धत्याः परिवर्तनम् इच्छति स्म, अपि तु विद्यार्थिनां शारीरिक-मानसिक-बौद्धिकविकासमपि । अतः १९३७ तमे वर्षे शिक्षणक्षेत्रे संशोधनाय राष्ट्रियसमितिः रचिता । तस्याः समित्याः अध्यक्षत्वेन डा. जाकिर हुसैन चितः । अतः १९४६ तमे वर्षे यदा अन्तिमसर्वकारस्य मन्त्रिमण्डलस्य रचना अभूत्, तदा नेहरू शिक्षणमन्त्रिपदाय डा. जाकिर हसैन इत्येतस्य नाम प्रस्तापितवान् । परन्तु जाकिर हुसैन राजनीतिप्रवेशाय निषेधमकरोत् । शिक्षणक्षेत्रे एव योगदानस्य इच्छा आसीत् तस्य । अतः सः तस्य प्रस्तावं निराकरोत् । परन्तु १९५७ तमे वर्षे नेहरू इत्यस्य आग्रहेण तेन बिहारराज्यस्य राज्यपालपदम् अलङ्कृतम् । एवं राजनीतिक्षेत्रे तस्य योगदानं प्रारब्धम् ।

१९६२ तमे वर्षे तस्य कार्यकाले समाप्ते सति सः देहली-महानगरं प्रत्यगच्छत् । तस्मिन् एव वर्षे सः उपराष्ट्रपतित्वेन चितः । डा. जाकिर हुसैन इत्यस्य उपराष्ट्रपतित्वेन दायित्वम् अशान्तमेव आसीत् । १९६२ तमे वर्षे एव चीन-देशेन सह भारतस्य युद्धम् अभूत् । तस्मिन् युद्धे भारतस्य अतिनिम्नपराजयः अभवत् । ततः नेहरू दिवङ्गतः । तस्य निधनानन्तरं लाल बहादूर शास्त्री प्रधानमन्त्री अभूत् । तस्य कार्यकाले पाकिस्थानदेशः भारतस्योपरि आक्रमणमकरोत् । तस्मिन् युद्धे भारतस्य विजयात् हर्षानुभवावसरे लाल बहादूर शास्त्री दिवङ्गतः येन डा. जाकिर हुसैन इत्यस्य हृदयं दुःखे निमज्जितम् । ततः इन्दिरा गान्धि यदा प्रधानमन्त्री अभवत्, तदा तस्य उपराष्ट्रपतिकार्यकालः समाप्तः अभवत् । पञ्चवर्षेषु द्वयोः प्रधानमन्त्रिणोः निधनस्य, युद्धद्वयस्य च साक्षी अभवत् सः । बहु दुष्करस्थित्यामपि सः विनयेन, संयमेन च कार्यम् अकरोत् । तस्य मनसि यत् दुःखम् आसीत्, तेन तस्य कार्यस्योपरि कदापि प्रभावः नाभूत् ।

राष्ट्रपतित्वेन जाकिर हुसैन

डा. सर्वपल्ली राधाकृष्णन्-महाभागः यदा राष्ट्रपतिः आसीत्, तदा डा. जाकिर हुसैन उपराष्ट्रपतिः आसीत् । डा. सर्वपल्ली राधाकृष्णन्-महाभागस्य कार्यकालस्य समाप्त्यनन्तरं १९६७ तमस्य वर्षस्य ‘मई’-मासस्य नवमे (९) दिनाङ्के राष्ट्रपतिनिर्वाचने डा. जाकिर हुसैन बहुमतेन चितः । १९६७ तमस्य वर्षस्य ‘मई’-मासस्य त्रयोदशे (१३) दिनाङ्के डा. जाकिर हुसैन राष्ट्रपतिपदस्य गौरवरक्षणस्य शपथम् अकरोत् । राष्ट्रपतिभवनप्रवेशसमनन्तरं विशालभवनस्थानि विलासवस्तूनि दृष्ट्वा तस्य मुखात् सहसा निर्गतम्, “एतस्मिन् राजभवने त्यागिवत् जीवनयापनं कुर्वन् स्वदायित्वं निर्वहामि इति प्रार्थनां कुर्वन्तु” ।

डा. जाकिर हुसैन यदा उपराष्ट्रपतिः आसीत्, तदा तु सः बहूनां देशानां प्रवासं कृतवान् आसीत् । परन्तु राष्ट्रपतिकार्यकाले देशद्वयस्यैव प्रवासम् अकरोत् सः । १९६८ तमे वर्षे सः रूस-देशं गतवान् । तस्मिन् एव वर्षे सः नेपाल-देशस्य प्रवासमपि अकरोत् । सः तस्य भाषणे उक्तवान् आसीत्, “मह्यं राष्ट्रपतेः दायित्वं दत्त्वा देशेन शिक्षकस्य सम्माननं कृतमस्ति । अहं सङ्कल्पं कृतवान् आसम् यत्, अहं मम जीवनं शिक्षाक्रान्त्यै यक्ष्यामि इति । अहं मम सार्वजनिकजीवनं गान्धि-चरणाशीर्वादेन प्रारब्धवानासम् । महात्मा एव प्रत्यक्षं, परोक्षञ्च आजीवनं मम मार्गदर्शनम् अकरोत् । सर्वदा अहं सर्वान् गान्धि-मार्गे एव प्रेरयिष्यामि” इति ।


भारतस्य राष्ट्रपतयः
जाकिर हुसैन  पूर्वतनः
सर्वपल्ली राधाकृष्णन्
जाकिर हुसैन अग्रिमः
वि वि गिरि
जाकिर हुसैन 

सम्बद्धाः लेखाः

राष्ट्रपतिः

महात्मा गान्धी़

पण्डित नेहरु

इन्दिरा गान्धी

बाह्यानुन्धाः

http://www.youtube.com/watch?v=0cpJnCM7tsM

http://pastpresidentsofindia.indiapress.org/zakirhusain.html

http://www.iloveindia.com/indian-heroes/dr-zakir-hussain.html


Tags:

जाकिर हुसैन कुटुम्बेतिहासःजाकिर हुसैन जन्म, बाल्यकाले अनुभूताः क्लेशाः चजाकिर हुसैन शिक्षणम्जाकिर हुसैन वैवाहिकजीवनम्जाकिर हुसैन शिक्षणक्षेत्रे योगदानम्जाकिर हुसैन स्वातन्त्र्यसङ्ग्रामे योगदानम्जाकिर हुसैन राजनीतिप्रवेशःजाकिर हुसैन राष्ट्रपतित्वेन जाकिर हुसैन सम्बद्धाः लेखाःजाकिर हुसैन बाह्यानुन्धाःजाकिर हुसैनआङ्ग्लभाषाजाकिर हुसैन.wavपाकिस्थानभारतभारतम्मुस्लिमराष्ट्रपतिराष्ट्रपतिःराष्ट्रपतिभवनम्सञ्चिका:जाकिर हुसैन.wavसर्वपल्ली राधाकृष्णन्हिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

वीर बन्दा वैरागीमुख्यपृष्ठम्बास्टन्मिथकशास्त्रम्किरातार्जुनीयम्कलिङ्गद्वीपःग्रेगोरी-कालगणनाआर्गनदेवगढमण्डलम्कालिदासःविलियम ३ (इंगलैंड)काशिकासिरियायवःचक्राशरीरं च रक्तवाः स्रोतभारतीयप्रौद्यौगिकसंस्थानम्ईरानसूरा अल-फतिहाकराचीसुमित्रानन्दन पन्तदक्षिणकोरियाअक्षरमालाधावनक्रीडाx9hqnमहाकाव्यम्हनोईबन्धुरात्मात्मनस्तस्य...हिन्द-यूरोपीयभाषाःदृष्ट्वा तु पाण्डवानीकं...श्वेतः९१२शुक्लरास्यामत्त (तालः)भद्रातन्वीकर्णःसिर्सि मारिकांबा देवालय१८९२मार्जालःमास्कोनगरम्ब्राह्मणम्प्यालेखावेदाविनाशिनं नित्यं...सङ्गीतम्विकिपीडियाद हिन्दूपर्यावरणशिक्षाविकिः२५ अप्रैलसूरा अल-अस्रभारतीयराष्ट्रियकाङ्ग्रेस्होमरुल आन्दोलनम्तत्त्वज्ञानम्समय रैनामहिमभट्टः२८ अगस्तनार्थ डेकोटाअस्माकं तु विशिष्टा ये...सोमवासरःअरुणाचलप्रदेशराज्यम्३०८राष्ट्रियजनतादलम्नासाजर्मनभाषाआयुर्वेदःसङ्गणकम्दमण दीव चरूपकालङ्कारः🡆 More