अध्यायस्यास्याध्ययनेन एवं स्पष्टं भवति यत् प्राचीने काले अस्माकं पर्यावरणं संरक्षितं,संतुलितञ्चासीत् । यदि काचन पर्यावरणीय समस्या आयाति स्म तर्हि तेषां समाधानं सर्वे ॠषय: अनौपचारिक-रुपेण एव कुर्वन्ति स्म ।परं सम्प्रति जनसख्यावृध्द्या, औद्यागीकरणेन अन्यकारणेन च अस्माकं पर्यावरनं पूर्ण-रुपेण प्रदूषितमस्ति । प्रक्रुतौ एतत् सामर्थ्यं नास्ति येन पर्यावरणं पुन: सन्तुलितं भविष्यति । सम्प्रिति जीवनं जगति दुष्करं प्रतिभाति ।सर्वकारेण संस्थाभिक्ष्च ये उपाया: क्रियन्ते तेषां क्रियान्वयनं पूर्णरुपेण न भवितुमर्हति । यत:नागरिका: पूणजगरुका: न सन्ति । एतदर्थं पर्यावरणशिक्षा साम्प्रतिके युगे अतीव महत्त्वपूर्ण अस्ति । अस्या: आवश्वकता विषये यदि विचारयामो वयं तर्हि एकं स्वतन्त्रं पुस्तकं भविष्यति । अत: संक्षिप्ते एव दृक्पात: क्रियते ।
१.सौरमण्डले मात्रं " पृथ्वी " एवस एक: ग्रह: अस्ति यत्र जीवनं भवति ,भवितुमहर्ति वा । यदि इयं हि नष्टा भविष्यति, जीवाय अनुपयुक्ता भविष्यति , तर्हि जगति जीवनाऽभाव: भविष्यति । अत: अस्या: पर्यावरणशिक्षाया: आवश्यकतावलोक्यते यत् पृथिव्या: संरक्षणं पृथ्वीवासिनेभ्य: सुखप्रदजीवनप्रदानम् ।
२.समेषां पर्यावरणीयसमस्यानां मूलं भवति जनसंख्यावृध्दि: । जनसंख्यावृध्द्या एव प्रकृतौ असन्तुलनं जातमस्ति । सम्प्रति जनसंख्यावृध्दि: इत्थं भवति येन अस्माकं शृङ्खलितं प्रकृतिचक्रं विशृङ् लितं जातम् । प्रकृति-चक्रं व्यवस्थापनाय,भविष्यति सुरक्षितं, संरक्षितञ्च वातावरणं हस्तान्तरयितुं जनसंख्या-वृध्द्यवरोधनमावश्यकं भससवति ।अतस्तदर्थं जनजागरणाय अस्या: शिक्षाया: आवश्यकता वर्तते ।
३. अस्माकं प्रकृतौ संसाधनस्याभाव: न विद्यते । परं तेषां संसाधनानां ज्ञानं नास्ति अस्माकं पार्श्वे । फलत: वयं कष्टमनुभवम: । येषां संसाधनानां ज्ञानमस्ति तेषामुपयोग: सम्यक् न क्रियतेऽस्माभि: । तत्र ज्ञनाभाव: एव कारणम् । अत: प्राकृतिकसंसाधनानां विषये पूर्णज्ञानप्रदानाय शिक्षेयमावश्यकीति ।
४.प्रकृतौ मात्रं पादपा: वनस्पतय: एव सन्ति ये कार्बनडाइ-आक्साइड (co2)इति नामकं गैसम्, आँक्सिजन (o2) प्राणवायु: इति नामके गैसे परिवर्तयन्ति ।अपि च जीवानां कृते आँक्सीजननामकं गैसं महदावश्यकं भवति । यद्यस्य परिवर्तनमवरुध्दं भवति तर्हि प्रकृतौ असन्तुलंन भवति । अत एतदर्थं किं करणीयं किं न करणीयमित्येतदर्थमावश्यकीयं शिक्षा ।
५. सम्प्रति जगति औद्योगिक-क्रान्तिरागता, वैज्ञानिकसंसाधनानां बाहुल्यं जातम् । परमनेन प्रकृतौ कञ्चन प्रदूषणं जातम् । अत: प्रदूषणानि निवारणाय, पर्यावरणीयसमस्यां समाधानमन्वेष्टुमावश्यकीयं शिक्षा ।
पर्यावरणशिक्षया: उद्देश्यानां निर्धारणं प्रारम्भत: एवम् ।(IEEP. International Environmental Education Plan.) अन्ताराष्ट्रिय-पर्यावरण-शिक्षा योजनामाध्यमेन जातम् । अस्या: प्रथमा सगोष्टी ( International workshop On Environmental Education ) १३-२२ अक्तूबर १९७५ वर्षे बेलग्रेड (यूगोस्लाविया) नगरे जाता । अस्यां कार्यशालायां बेलग्रेडघोषणापत्रस्य निर्माणं जातम् ।अस्मिन्नेव घोषणापत्रे बेलग्रेडघोषणापत्रस्य निर्माणजातम् अस्मिन्नेव घोषणापत्रे पर्यावरणीयशिक्षाया: उद्देश्यानां यथा- १.जागृति - सम्पूर्णपर्यावरणं प्रति तत्सम्बन्धिसमस्यां प्रति च जागृति: आनयनं , संवेदनशीलत्व-प्रदानञ्च । Awareness- To help individuals and social groups aquir an awareness of , and sensitivity to the total environmental and its allied problems. )
२.ज्ञानम्-सम्पूर्णपर्यावरणस्य तेषां समस्यानाञ्च सम्बन्धितसम-स्यानाञ्चाधारभूतज्ञानप्राप्ति: । Knowledge :- To help individuals and social groups acquire basic understanding of the total enviornment , its associated problems and humanity's crilially responsible presence and role in it .
३.अभिवृत्ति:- पर्यावरणसंरक्षणाय क्रियमाणं चिन्तनं प्रति, सामाजिकदायित्वनिर्वाहं प्रति तेषां , सुरक्षायै सुधारार्थं च क्रियमाणं कार्यं प्रति चाभिप्रेरणम्। Attitude- To help individuals and social groups acquire social values, strong feelings of concern for the enviornment and the motivation for activity participation in its protection and improvement.
४.कौशलसम्प्राप्ति:- शिक्षेयं पर्यावरणीयसमस्यानां समाधा-नान्वेषणार्थं कौशलप्राप्तौ सहायिका भवति । Skill.-To help individuals and social groups acquire the skills for solving environmental problems.
५.मूल्यांकनकौशलम्- शिक्षेयं पर्यावरणीयोपायस्य शैक्षिक-कार्य-क्रमस्य च पारिस्थितिक-सामाजिक-सौन्दर्यपरक-शैक्षिकपरिप्रेक्ष्ये च मूल्यांकनार्थं सहायिका भवति । Evaluation Ability-To help individuals and social groups evaluate environmental measures and education programmes in terms of ecological,political, economic, social,esthetic and educational factors.
६.सम्भागिता-शिक्षेयं पर्यावरणायसमस्यां प्रति, समस्यानामुचितं निश्चितञ्च समाधानान्वेषणं प्रति च महत्वभावनां, दायित्वभावनाञ्च विकासयति । Participation-To help individuals and social group develop a sence of responsibility and urgency regarding environmental problems so as to ensure appropriate action to solve those problems.
एवं प्रकारेण बेलग्रेडचार्टरस्यानुसारेण- पर्यावरणं सम्पूर्णरुपेण पश्यतु, यदि तत् प्राकृतिकं, पारिस्थितिकं, राजनैतिकम्, आथिकम्, औद्योगिकं,वैधानिकं, सास्कृतिकं, सौन्दर्यपरकञ्च भवतु । Consider the enviornment in its totally- Natural or manmade, ecological, political , economic , tecnological, social legislative, cultural and aesthetic .
पर्यावरणीयसमस्याया: पर्यावरणसंरक्षणस्य वा विचार: यदा मानवमनस्सु समायात: तदैव जगति पर्यावरणशिक्षाया:महत्व-विषये चिन्तनं समारब्धम् । स्टाँकहोम( १९७२ ) नगरे समायोजिते मानवपर्यावरण्म् इति अन्ताराष्ट्रिये सम्मेलनेऽपि विषयेऽस्मिन् चिन्तनं जातम् ।अत: परं बेलग्रेडचार्टर (१९७५) इत्यस्याधारे तिबलिसी-अन्तर्देशीय -सम्मेलने (१९७७ ) पर्यावरण-शिक्षाया: कार्यक्रमस्य उपादेयत्वं स्पष्टं जातम् । अस्यानुसरेण पर्यावरण-शिक्षाया: महत्वमेवं भिवितुमर्हति ।
फलत: ज्ञातव्यं यत् शिक्षेयमद्यतनीया आवश्यकता वर्तते,अस्या: उपादेयत्वं स्वीकरणीयम् । अस्य कार्यक्रमस्य सफलतायै प्रयत्नीय: । अनया पर्यावरणस्य गुणवत्ता जीवनस्य गुणवत्ता चायाति ।
पर्यावरणशिक्षानाम समेषां जीवजन्तूनां , वनस्पतीनां ,जैविकाजैविक -वस्तूनां , परिस्थितीनां ,वातावरणस्य चाध्ययनम् । फलत: अस्या: अध्ययनं मात्रम् औपचरिकरूपेण भावितुं नार्हति इति विचार्य एव तिबलिसीसंगूठ्या: इत्यस्या: शिक्षाया: विषयवस्तूनां निर्धारणंकृत: । यथा आङ्ग्लभाषायाम् -
फलत: पर्यावरणईयशिक्षाया: व्यवस्था यदि एकात्मिका भवति तर्हि सर्वे लाभप्रदा: नभवितुमर्हन्ति । अत: भवतु विषयवस्तुन: सैध्दान्तिक: पक्ष: एकात्मक: ,परं तस्य वर्गीकरणं विविधरूपेण करणीयमपेक्षते । एवं प्रकारकंविचारं स्वीकृत्य एव अस्याअ; शिक्षाया: पाठ्यक्रम: औपचारिका-र्ध्दौपचारिकानौपचारिकश्चेति त्रिध स्वीकृत: ।
१.औपचारिकी-पर्यावरणशिक्षा-पाठ्यक्रम :- Formal Enviornmental Education Curriculum - श्रेण्यामस्यां समाजस्य राष्ट्रास्य च प्रधानसमूह: छात्रसमूह: आगच्छति । स: छात्रसमूह: चतुर्षु स्तरेषु अध्दयनं करोति । यथा - प्राथमीकस्तर:, उच्चप्राथमीकस्तर:, माध्दमिकस्तर:,उच्चस्तरश्चेति । एतेषां स्तराणां के विषया: उपयुक्ता:इति परं चिन्तयाम: ,पूर्व त्वस्य पाठ्यक्रमस्य विषयवस्तूनिविचारयाम: ।
प्राथमिकस्तरे- स्तरेस्मिन् बालका: अनौपचारिकरूपेण, भ्रमणेन, दर्शनेन ,कार्यक्रमेण वा शिक्षाग्रहणे तत्परा: भवन्ति ।अत: एतै: माध्यमै: जलस्य,वायो:, भोजनस्य , स्वास्थ्यस्य, वनस्य च ज्ञानं प्रदातव्यम् ।
उच्चप्राथमिकस्तरे-स्तरेस्मिन् छात्रा: प्रकृते: प्राकृतिकसाधनेभ्यश्च परिचिता: भवन्ति । अत: तेभ्य: प्रदर्शनीमाध्यमेन ,विडियोफ़िल्ममाध्यमेन , लघुनाटकमाध्यमेन, कवितामाध्यमेन , पर्यावरणगीतिमध्यमेन, प्रहेलिकामाध्यमेन, क्रीडामाध्यमेन च पर्यावरणस्य ज्ञानप्रदानम् ।
माध्यमिकस्तरे-स्तरेस्मिन् छात्रा: स्वकीये क्षतिलाभादिविषये जानन्ति ।सामाजिककार्यक्रमेषु, च रुचिं प्रदर्शयन्ति । अत: ते नातिजटिलपर्यावरणीयसमस्याभि: परिचिता: भवितुमर्हन्ति । यथा- जनसंख्यावृध्दे: दुष्परिणाम:,खाद्यसामग्रीणामभाव:, विवधप्रकारकं प्रदूषणं, भूक्षरणं, वन्यजीवसंरक्षणमित्यादय: ।
उच्चस्तरे :-स्तरेस्मिन् महाविद्यालय:, विश्वविद्यालयश्चागच्छति । अस्यामवस्थायां छात्रेभ्य: पर्यावरणस्य विषयवस्तूनि , तेषां तथ्यात्मकं विश्लेषणं,देशस्य वास्तविकी स्थिति:, जनानां पर्याअवरणं प्रति उपेक्षित: व्यवहार:, विविधप्रकाराकाणि प्रदूषणानि, प्रादूषणकृत-हानि:, वन-वन्यजीवानां संरक्षणं , पर्यावरणसंरक्षणे वनस्य योगदानं, पर्यावरणकृत -हानि : ,वन-वन्यजीवानां संरक्षणं, पर्यावरणसंरक्षणे वनस्य योगदानं , पर्यावरणीयप्रबन्ध:, विविधस्तरेषु जनानामुत्तरदायित्वञ्चेत्यादिकस्य वृहदज्ञानं छात्रेभ्य: दातव्यम् । स्तरेऽस्मिन् पर्यावरणडिप्लोमाकोर्श इति प्रचालनीयम् ।
(Guiding principles of Environmental Education)
वरणस्य सर्वे घटका: अवधेया भवेयु: ।
This article uses material from the Wikipedia संस्कृतम् article पर्यावरणशिक्षा, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.