क्रमवतां वर्णानां समूहः पदम् । पदसमूहः वाक्यम् । वाक्यम् अभीप्सितम् अर्थं बोधयति । अतः शब्दप्रपञ्चे वाक्यमेव प्राधान्यम् आवहति । किन्तु पदम् अन्तरा वाक्यं न भवति । ऋते वर्णेभ्यः पदं नास्ति । अतः व्याकरणे वर्णनिमित्तानि कार्याणि, पदनिमित्तानि कार्याणि च सन्ति । प्रायः सन्धिकार्याणि वर्णनिमित्तकानि । समासादीनि पदनिमित्तकानि । वाक्यम् अवलम्ब्य प्रवृत्तानि भवन्ति कारकाणि कारकसम्बन्धीनि कार्याणि च । साक्षात् परम्परया वा वाक्यानि संस्कर्तुम् एव व्याकरणं प्रवृत्तम् । सम्प्रति कारकाणि कारकसम्बन्धीनि कार्याणि च इह प्रस्तूयन्ते ।
किं नाम कारकम् ? क्रियान्वयि कारकम् । क्रियायाः अन्वयः = क्रियान्वयः । अन्वयः = सम्बन्धः । क्रियान्वयः अस्य अस्ति इति क्रियान्वयि । यः क्रियया अन्वेति (सम्बन्धं प्राप्नोति ) सः कारकम् इत्युच्यते इति फलितार्थः । यथा –
कर्तृकारकं क्रियायां साक्षात् अन्वेति । अन्यानि कारकाणि तु परम्परया क्रियायाम् अन्वयं प्राप्नुवन्ति इति ज्ञेयम् । इदं परिशील्यताम् – कः, कां, केन, कस्मै, कस्मात्, कुत्र ददाति इति प्रश्नः (अयोध्यायाः) राजा, गां, हस्तेन, विप्राय, गोष्ठात्, गङ्गातीरे ददाति इति वाक्येन समाहितः भवति । अतः दानक्रियायां षडपि कारकाणि अन्वितानि भवन्ति इति स्पष्टम् । ‘कस्य राजा’ इति प्रश्नस्तु ‘अयोध्यायाः राजा’ इत्यनेन समाहितः भवति । अयोध्यायाः राजा’ इत्यनेन समाहितः भवति । अयोध्यायाः अन्वयः राज्ञि एव, न तु दानक्रियायाम् । अतः षष्ठी (शेषषष्ठी) कारकं न इति उद्घोषः ।
इत्थञ्च क्रियया सह कारकाणां सम्बन्धस्य परिशीलनाय प्रश्नोत्तररुपः पन्थाः सुगमः । यथा –‘कः पचति?’ = कः पाकक्रियां निर्वर्तयति ? इति उत्थितायाः आकांक्षायाः (प्रश्नस्य )उपशमनं देवदत्तः पचति=‘ देवदत्तः पाकक्रियां निर्वर्तयति’ इति वाक्येन (उत्तरेण ) भवति । देवदत्तस्य कर्तुः पाकक्रियया सह सम्बन्धः यदि न अभविष्यत् तर्हि आकांक्षायाः उपशमनमपि न अभविष्यत् । जातञ्च उपशमनम् आकांक्षायाः । अतः क्रियया सह सम्बन्धः अस्तीति ज्ञायते । एवम् अन्यकारकादौ अपि ज्ञेयम् ।
एतानि षट् कारकाणि स्मर्तुम् अयं सरलः श्लोकः -
This article uses material from the Wikipedia संस्कृतम् article कारकम्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.