एवं किल मन्यन्ते क्रीडेतिवृत्तविदो यत् 'क्रीडनकूर्दन’कलायाः शुभारम्भः ७७६ वर्षेभ्यः पूर्वमेव समभवत् । अन्ये च केचन अस्याः आरम्भः १२५३ वर्षपूर्वं तथा ८८४ वत्सराणां मध्ये स्वीकुर्वन्ति । परं भारतीयचिन्तनपरम्परा तु सृष्टेः उदयकालाद् मानवस्य जन्मनः समकालमेव यथा तदीयाशनवसनादिसम्बद्धानां वस्तूनाम् अपि समुत्पत्तिम् अकरोत् तथैव तच्छारीरकशक्तिसंवर्द्धनौपयिकीम् इमां कलामपि स्रष्टा ससर्जेति दृढं विश्वसिति । एवमेव क्रीडाः कथं कुतः केन वा प्रवर्तिता इति विषयेऽपि सन्ति नानाविधानि मतानि । आधुनिके जगति च याः कथा विद्यन्ते भूयस्यः प्रचलिताः ताः सर्वा ग्रीसदेशस्य राजभिः एव सम्बद्धा वर्तन्त इति कृत्वा तेषाम् अयम् अभिप्रायो विद्योतते यत् - साम्प्रतिकीनां क्रीडानां जनको ग्रीसदेशः एव इति।
तत्र क्रीडासु सर्वतः प्रथमं 'द्रुतप्रचलनक्रिया’ ततश्च 'धावनकला’ प्रारभत । आत्मानं सततं रक्षेद् इति भणित्यनुसारं मानवः हिंस्रादिजीवेभ्य आत्मानं त्रातुं यतस्ततो धावति स्म एव । सभ्यतासीम्नि वर्तमानैः शेमुषीशालिभिः धावनस्य महत्त्वं निरीक्ष्य च आत्मसात्कृता इयं कला । क्रमशः विकासं गमितायाः अस्याः कलायाः प्राथमिकं रूपं लघुदीर्घधावनम् इति (SPRINTS स्प्रिन्टस्)नाम्नाऽऽम्नातम् । तदानीं स्टेड्-रेस्’ नाम्ना सम्बोध्यमिदं धावनं प्रायो द्विशतगजमिते प्रलम्बे पथि भवति स्म । तदाधारेण एव तदा धावनक्षेत्रं 'स्टेडियम्’ नाम्ना ख्यातिम् अगमत् ।
प्राचीनयूनानदेशस्य प्रथमे विश्वक्रीडामहोत्सवे क्रीडितासु क्रीडासु धावनकलेयमेकाकिनी मुख्या घटनाऽऽसीत् । साम्प्रतिके काले १८६६ तमे वत्सरे यदा विश्वक्रीडोत्सवायोजनस्य पुनरुद्धारः अक्रियत । तदा पुनर्लघुतीव्रादिधावनानि अन्ताराष्ट्रियेण स्तरेण समारभन्त । अधुनातनीषु प्रतियोगितासु १००-२००-४०० मीटरमितानि प्रलम्बानि धावनानि एव लधुधावनविधौ स्वीक्रियन्ते । गतेषु पञ्चाशदवर्षेषु लघुधावनस्य इतिहासे सुबहूनि परिवर्तनानि सम्पन्नानि । अस्य प्राविधिकप्रशिक्षणप्रक्रियादिविधिषु नैकानि वैज्ञानिकानि परीक्षणानि च विधाय शैल्या आशातीतो विकासो विहितः । वैज्ञानिकाः प्रयोगाः प्राचीना धारणा मान्यताश्च विभेद्य नवीना विश्वासा आहिताः । निरन्तरं प्रगतिमत्कीर्तिमानमस्याः वैज्ञानिकप्रगतेः प्रमाणं विद्यते ।
'धावनप्रक्रियायां किं वैशिष्ट्यमस्ति ? सर्वेऽपि प्राणिनः आत्मरक्षार्थं यथा कथञ्चिद् धावन्त्येव' इत्येवं मन्यमाना धावनस्य महत्त्वं न विदन्ति । पुरातनकाले यादृशं धावनं भवति स्म तथैव अधुनाऽपि धावन्ति, परं तस्य वैज्ञानिकपद्धत्या समायोजनं दृष्ट्वा वस्तुतः चाकचक्यं प्राप्नुम । वर्तमानकाले ये विश्वक्रीडामहोत्सवा आयोज्यन्ते तेषु धावनस्य नानाविधानां प्रतिस्पर्द्धानां काले पश्यामो यद् धावकाः केषु केषु प्रकारेषु धावनकौशलं प्रदर्शयन्तीति ? अत एव नवीनायां धावनप्रणाल्यां ये प्रकारा आविष्कृता निर्धारिताश्च सन्ति तेषाम् अत्र संक्षिप्तः परिचयः प्रदीयते ।
धावनप्रकाराः-
एते चत्वारः प्रकाराः मुख्यत्वेन प्रसिद्धाः सन्ति तथा एतेषां कतिचन उपभेदाः अपि भवन्ति । धावकाः स्वस्वरुचिशक्त्योः अनुसारम् एतेषु धावनप्रकारेषु प्रावीण्यं सम्प्राप्य प्रतिस्पर्धासु विजयं लभन्ते ।
धावनप्रक्रियायाः पद्धतिः इत्थं निर्दिश्यते -
धावनकाले धावकेन निम्नलिखिताः षड विधिनिषेधसङ्केताः अपि निरतं स्मरणीयाः सन्ति ।
विधिरूपाः सङ्केताः | निषेघारूपाः सङ्केताः |
---|---|
समक्षं वलनरहितं धावितव्यम् | उच्छलनपद्धत्या न धावितव्यम् |
जानुः पूर्णरूपेणा अग्रे समुत्थाप्यः | पृष्ठवर्ति पादः उच्चैः न नेतव्यः |
अन्तिमसूत्रे वलनं विना अग्रे धावितव्यम् | सूत्रे न कूर्दितव्यम् |
आधुनिकानां क्रीडाचार्याणां मन्तव्यमस्ति यद् "येन क्रीडकेन आत्मनो निरन्तरं पीडनं विमुक्तं स शारीरकव्यायामवान् न अवशिष्यते ।" अस्याम् आशयो विद्यते यत् प्रारम्भादेव धावनादिविद्यानुरागी निरन्तरं कठिनं श्रमसाध्यञ्च अभ्यासं प्रवर्तयेत् ततः कदापि न विरमेत इति । यतो हि -
धावकः केवलं धावनमात्रेण सफलो न भवति, तेन यथाकालम् अन्येऽपि व्यायामाः कर्तव्याः । पोषकः आहारः सेवनीयः । अभ्यासक्रमः पर्याप्तरूपेण विनोदपूर्णो भवेद् यतो मानसिकी श्रान्तिः न आगच्छेत् । धावकेन स्थायिनी गतिः स्थायिनी सहनशक्तिः मानसिक्यो विशेषताः समयो विश्रामकालः प्रलम्बता च एतेषां सर्वेषां विचारेण अभ्यसितव्यम् ।
अभिनवक्रीडातरङ्गिणी
This article uses material from the Wikipedia संस्कृतम् article धावनक्रीडा, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.