नरकचतुर्दशी

कार्त्तिकमासे आचर्यमाणस्य दीपावलीपर्वणः अङ्गभूतं पर्व अस्ति नरकचतुर्दशी । चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्रीकृष्ण: नरकासुरं संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले तैले लक्ष्मी:, जले च गङ्गा निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।

नरकचतुर्दशीहिन्दुधर्मः

हिन्दुधर्मःइतिहासः

नरकचतुर्दशीPortal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

नरकचतुर्दशी
नरकासुरस्य संहारं कुर्वन्तौ सत्यभामा कृष्णः च
    तैले लक्ष्मीर्जले गङ्गा दीपावल्याचतुर्दशीम् ।
    प्रात: काले तु य: कुर्यात् यमलोकं न पश्यति ॥ (पद्मपुराणम् - ४-१२४)
    अलक्ष्मीपरिहारार्थम् अभ्यङ्गस्नानमाचरेत् । (नारदसंहिता)

तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति ।

    अत्र आचारात् चतुर्दशशाकभक्षणं च कर्तव्यम् ॥ इति उक्तिरपि श्रूयते ।

रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति ।

    यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
    वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
    औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
    वृकोदराय चित्राय चित्रगुप्ताय वै नम: ॥

इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै तिलतर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, अश्वशालासु, गजशालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, शिवं, महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।

Tags:

कृष्णःगङ्गाजलम्तैलम्लक्ष्मीः

🔥 Trending searches on Wiki संस्कृतम्:

द्वितीयविश्वयुद्धम्विलियम शेक्सपीयर१८२८१९०२न कर्मणामनारम्भात्...महाराष्ट्रराज्यम्अक्षरं ब्रह्म परमं...क्यकृत्हिन्दूधर्मःजेम्स ७ (स्काटलैंड)वानीतिशतकम्पुत्रः१७८८पतञ्जलिःअन्तर्जालम्सीताफलम्वलसाडमण्डलम्वराटिका१३ मार्च१४४८अनन्यचेताः सततं...मुङ्गारु मळे (चलच्चित्रम्)पृथ्वीवि के गोकाकलिबिया११४५सिडनी१८५३२८ मार्चराधाभारतम्वेदाङ्गम्१७८१श्देशबन्धश्चित्तस्य धारणाब्रह्माप्रशान्तमनसं ह्येनं...१०२७व उ चिदम्बरम् पिळ्ळैजया किशोरी१५७४न हि कश्चित्क्षणमपि...वेदव्यासःझान्सीवाल्मीकिःआश्रमव्यवस्थाचलच्चित्रम्बहामासरूप्यकम्१६८०कुन्तकःप्रस्थानत्रयम्मन्त्रःस्कौट् तथा गैड् संस्थाआदिशङ्कराचार्यःविज्ञानम्भौतिकशास्त्रम्सिन्धुसंस्कृतिःजनवरी २५८७सितम्बर २१माण्डूक्योपनिषत्🡆 More