तिलः

अयं तिलः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं तिलः सस्यजन्यः आहारपदार्थः । तिलः आङ्ग्लभाषायां Sesame इति उच्यते । अयं तिलः वर्णस्य अनुगुणं चतुर्विधः भवति । कृष्णवर्णीयः तिलः, श्वेतवर्णीयः तिलः, रक्तवर्णीयः तिलः, वनतिलः च इति । अस्य तिलस्य होमधान्यं, पवित्रं, पितृतर्पणं, पापघ्नि, पूतधान्यं, जटिलम् (वनोद्भवस्य तिलस्य केवलम्) इत्यादीनि अन्यानि नामानि अपि सन्ति । मकरसङ्क्रमणपर्वणि अस्य तिलस्य एव साम्राज्यम् । तदवसरे सर्वत्र जनाः प्रतिगृहं गत्वा तिलवितरणं कुर्वन्ति । मोदकं, पञ्चकज्जायं, ’कडुबु’ इत्यादीनां खाद्यानां निर्माणे अयं तिलः अपि मुख्यं द्रव्यम् । नवग्रहधान्येषु अन्यतमः अस्ति तिलः ।

Sesame
तिलः
Sesame plants
Sesame plants
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Lamiales
कुलम् Pedaliaceae
वंशः Sesamum
जातिः S. indicum
द्विपदनाम
Sesamum indicum
L.
पर्यायपदानि
  • Dysosmon amoenum Raf.
  • Sesamum africanum Tod.
  • Sesamum occidentalis Heer & Regel
  • Sesamum oleiferum Sm.
  • Sesamum orientale L.
  • Volkameria orientalis (L.) Kuntze
तिलः
तिलसस्यम्
तिलः
श्वेतवर्णीयं तिलधान्यम्
तिलः
कर्तितानि शुष्काणि तिलसस्यानि

आयुर्वेदस्य अनुसारम् अस्य तिलस्य स्वभावः

तिलः
तिलतैलम्
तिलः
तिलनिर्मितं लड्डुकम्

अयं तिलः पचनार्थं जडः । अस्य रुचिः कटु-तिक्त-मधुर-कषायमिश्रिता । अयं तिलः जीर्णानन्तरं कटुविपाकः भवति । अयं तिलः स्पर्शार्थं शीतलः परन्तु शरीरार्थम् उष्णः एव ।

    “तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः ।
    विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत् ॥
    बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः ।
    दन्त्योऽल्पमूत्रकृद्ग्राही वातघ्निग्निमतिप्रदः ॥“ (धन्वन्तरिकोषः)
    १. अस्य तिलस्य तैलं सर्वाङ्ग-अभ्यङ्गार्थम् अत्यन्तं श्रेष्ठम् ।
    २. तिलतैलं सर्वस्य अपि तैलस्य मूलद्रव्यम् ।
    ३. “तैलेऽनुक्ते तिलतैलं स्यात्” इति उक्तम् अस्ति आयुर्वेदशास्त्रस्य वैद्यकीयपरिभाषायाम् । तन्नाम केवलं तैलम् इति यत्र कुत्रापि उक्तम् अस्ति चेत् तेन तैलशब्देन तिलतैलम् एव ग्राह्यम् इति अर्थः ।
    ४. पञ्चकर्म, कर्णपूरणं, नस्यं, धारा, उष्णादिषु चिकित्सासु तिलतैलम् एव उपयुज्यते ।
    ५. पुनः पुनः जायमानस्य वेदनासहितस्य पक्वातिसारस्य उत्तमम् औषधं तिलतैलम् । भोजनात् पूर्वं चमसमितं तिलतैलं सेवनीयम् ।
    ६. अस्थिभङ्गे, क्षतव्रणे च तिलतैलं शीघ्ररोपकम् ।
    ७. कृष्णवर्णीयः तिलः पुण्यकरः, श्वेतवर्णीयः तिलः रुचिकरः ।
    ८. श्राद्धादिषु कर्मसु पितृतर्पणार्थं कृष्णवर्णीयः तिलः एव उपयुज्यते ।
    ९. गणहवने उपयुज्यमानेषु अष्टद्रव्येषु अपि कृष्णवर्णीयः तिलः अन्यतमः ।
    १०. कृष्णवर्णीयः तिलः रक्षोघ्नः, पापघ्नः च इति प्रभावीद्रव्यम् अस्ति ।
    ११. सङ्क्रमणस्य मधुरः तिलः हासं द्योतयति चेत्, श्राद्धस्य तिलः वेदनां द्योतयति । एवम् उभयद्योतकः अयं तिलः ।
    १२. चतुर्विधेषु तिलेषु कृष्णवर्णीयः तिलः अत्यन्तं श्रेष्ठः । श्वेतवर्णीयः तिलः अपि उत्तमः एव ।
    १३. रक्तवर्णीयः तिलः, वनतिलः च हीनः, उपयोगार्थम् अनर्हः अपि ।
    १४. शरीरे वातः वृद्धः चेत् तिलतैलम् उत्तमं शामकम् औषधम् ।
    १५. अयं तिलः तैलांशयुक्तः त्रिदोषहरः च ।
    १६. अयं तिलः बलवर्धकः, केशवर्धकः, कान्तिवर्धकः, स्तन्यवर्धकः, अग्निदीपकः च ।
    १७. अयं तिलः दन्तदार्ढ्यकरः, व्रणरोपकः, मूत्रकरः , मेध्यः च ।
    १८. तिलस्य पिण्याकः मधुरः रुचिकरः च । किन्तु सः नेत्रस्य विकारकः, कफस्य वातस्य च विकारकः, मलावष्टम्भकः च ।
    १९. तिलस्य पिण्याकः धेनूनां पुष्टिकरः आहारः ।
    २०. तिलात् निष्कासितं क्षारं मधु दधि च योजयित्वा सेवन्ते चेत् मूत्रावरोधः अपगच्छति ।
    २१. तिलनालात् निर्मितः क्षारः मांसभक्षणजन्यः अजीर्णः आहारः ।
    २२. रक्तजेषु अर्कस्रोगेषु, अस्थिरोगेषु च तिलः नवनीतेन सह उपयोक्तव्यः ।
    २३. शनिग्रहस्य उपशान्त्यर्थं तिलः उत्तमः परिहारकः । अष्टमशनिना, पञ्चमशनिना, सार्धसप्तशनिना च पीड्यमानाः तिलतैलेन स्नात्वा देवालयेषु तिलतैन दीपान् ज्वालयन्ति ।
    २४. हेमन्ते (जनवरि फेब्रवरि मासयोः) तैलांशयुक्तस्य आहारस्य सेवनम् आयुर्वेदोक्तम् । तदवसरे अग्निशान्त्यर्थं, बलवर्धनार्थं तिलः अत्यन्तं हितकरः ।

चित्रशाला

बाह्यसम्पर्कतन्तुः

Tags:

भारतम्मकरसङ्क्रमणम्

🔥 Trending searches on Wiki संस्कृतम्:

शुनकःविद्याविष्णुःसंस्कृतभाषामहत्त्वम्आश्रमव्यवस्थाभासनाटकचक्रम्१४७८१८६९क्रीडारिच्मन्ड्स्ताम्रम्स्कौट् तथा गैड् संस्था१८६३जुलाईसङ्कल्पप्रभवान्कामान्...टोपेकारामपाणिवादःमङ्गलवासरःमार्च १४अङ्गुलीसुन्दरसीपर्यटनम्वादेवगिरि शिखरम्क्षमा रावयस्त्विन्द्रियाणि मनसा...पुनर्गमनवादशिक्षाशास्त्रस्य इतिहासः६८९मास्कोनगरम्जैनधर्मःएस् एल् किर्लोस्करकर्मसंन्यासयोगःयास्कःअयोध्याकाण्डम्द्वारकाद्वीपःप्रजातन्त्रम्१४३१ब्रह्मानार्वेअन्तर्जालम्११८३वाशिङ्टन्बाय्सी१७५८संस्कृतभारतीहनुमज्जयन्तीमीराबाईविकिस्रोतःकालिका पुराणअस्माकं तु विशिष्टा ये...पी टी उषापुंसवनसंस्कारः१७८१2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चपक्षिणः४४४अग्रिजेन्तोयोगःनीतिशतकम्नारिकेलम्देवनागरीसूत्रलक्षणम्आयुर्वेदः१६८०🡆 More