दधि

एषः आहारपदार्थः प्रायः जगति सर्वत्र अस्ति एव । क्षीरेण निर्मीयमाणम् एतत् दधि आङ्लभाषायां Curd इति उच्यते । अयम् आहारपदार्थः न सस्यजन्यः, अपि तु प्राणिजन्यः आहारः एव । यद्यपि दधि दुग्धस्य रूपान्तरं तथापि गुणे दधि-दुग्धयोः महान् भेदः अस्ति । देवपूजासु नैवेद्यरूपेण अपि उपयुज्यते दधि । पायसेषु, पञ्चगव्ये, पञ्चामृते च दधि योजयन्ति । “श्रीखण्ड”नामकं भक्ष्यम् अपि निर्मीयते दध्ना । नवरात्रावसरे देवतापूजासु दध्यन्नस्य एव नैवेद्यं भवति । ललितासहस्रनाम्नि “काकिनीरूपधारिणी माता दध्यन्नम् अपेक्षते” इति उक्तम् अस्ति ।

दधि
दधि
बङ्गालस्य मिष्टि-दधि

“स्वादिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा । शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४ ॥

मेदोनिष्ठा मधुप्रीता बन्दिन्यादिसमन्विता । दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५ ॥“ इति ।

दधि कस्य न प्रियम् । विना दधि विशिष्टं भोजनं न भवति ।

    रोचनं दीपनं वृष्यं स्नेहनं बलवर्धनम् ।
    पाकेम्लमुष्णं वातघ्नं मङ्गल्यं बृह्मणं दधि ॥
    पीनसे चातिसारे च शीतके विषमज्वरे ।
    अरुचौ मूत्रकृच्छ्रे च कार्श्ये च दधि शस्यते॥

इति दध्न: गुणा: उक्ता: । (किन्तु दध्न: उपयोगे नियन्त्रणं नियमश्च विहित: इति न विस्मर्तव्यम् । उक्तं च - ‘कफपित्तकरं दधि ।’ भा. प्र) दधि शोफं जनयति

    न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् ।
    नामुद्गसूपं नाक्षौद्रं नोष्णं च नामलैर्विना ॥
    ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वातामया भ्रमान् ।
    प्राप्नुयात् कामलां चोग्रां विधिं हित्वा दधिप्रिय: ॥ (च.चि. 2)

आयुर्वेदस्य अनुसारम् अस्य दध्नः स्वभावः

दधि 
जलांशं निष्कास्य दृढीकृतं दधि

एतत् दधि पचनार्थं जडम् एव । किञ्चित् प्रमाणेन उष्णवीर्यम् अपि । वातं शमयति, रक्तवर्धकं च । शरीरे शुक्रधातुं, मेधस् च वर्धयति, बलं वर्धयति, शोथम् उत्पादयति च । रक्तपित्तकारकम् एतत् दधि जीर्णानन्तरम् आम्लं भवति ।

    १. अस्माकं शरीरे विद्यमानेषु सप्तधातुषु मांसं मेधस् च वर्धयति दधि ।
    २. शीतपूर्वके विषमज्वरे दधि हितकरं भवति ।
    ३. वातशामकम् इति कारणात् वातबाधा अस्ति चेत् उपयोक्तुं शक्यते ।
    ४. पात्रस्य अधोभागे विद्यमानं दधि पीनसबाधायां, जीर्णक्रियायाः दोषात् जातायां “ग्रहिणी” रोगबाधायां च हितकरम् ।
    ५. गुडं योजयित्वा सेवनेन शरीरे नैर्यास्यम् उत्पादयति । गुडयोजितं दधि तृप्तिकरं, हृदयस्य हितकरं, वातशामकं च ।
    ६. पर्याप्तमात्रेण जलं लवणं च योजितं दधि रात्रौ उपयोक्तव्यम् । पित्तसम्बद्धेषु रोगेषु, रक्तपित्ते, विसर्पे, चर्मरोगे, पाण्डुरोगे च अस्य दध्नः उपयोगः हितकरः भवति ।
    दधि 
    निम्बूकदधि
    ७. दधि रात्रौ उष्णैः आहारैः सह न उपयोक्तव्यम् ।
    ८. दधि उष्णीकृत्य अपि न उपयोक्तव्यम् ।
    ९. दधि वसन्ते, ग्रीष्मे, शरदृतौ च न उपयोक्तव्यम् ।
    १०. प्रतिदिनं दधि न उपयोक्तव्यम् । प्रातः उपहारेण सह अपि न उपयोक्तव्यम् ।
    ११. श्वासोच्छ्वासस्य सम्बद्धेषु रोगेषु, अपस्मारे, पीनसे अथवा “सैनसैटिस्” रोगे वा दध्नः उपयोगः सर्वथा अहितः एव ।
    १२. पूर्णतया दृढं न जातम्, पूर्णतया दधि अपि न जातं (सम्यक् आतञ्चनं न जातम्), तादृशं दधि विषसमानं भवति ।
    १३. अत्याम्लं दधि अग्निदीपकं, कफवर्धकं च । तत् पित्तप्रकोपं जनयति ।
    १४. दध्ना निर्मितं “श्रीखण्ड”नामकं भक्ष्यम् अत्यन्तं वृष्यम् । तत् पचनार्थं जडम् । नैर्यास्यम् अपि वर्धयति शरीरे ।
    १५. दृढस्य दध्नः उपरि स्थितं जलमयं दधि देहे विभिन्नान् स्रोतान् शोधयति, उदरस्य सम्बद्धान् दोषान् निवारयति, जीर्णकारि च ।
    १६. महिषीणां वा इतरेषां वा प्राणिनां दुग्धस्य दध्नः अपेक्षया गोदधि एव श्रेष्ठम् ।‎

Tags:

दुग्धम्नवरात्रम्पञ्चगव्यम्

🔥 Trending searches on Wiki संस्कृतम्:

२१ जनवरीदृष्ट्वा तु पाण्डवानीकं...नासासोमवासरःविल्हेल्म् कार्नार्ड् रोण्ट्जेन्सलमान खानयवःस्वामी विवेकानन्दः१४अजोऽपि सन्नव्ययात्मा...अलङ्कारशास्त्रम्बिहारी९ जूनलाला लाजपत रायसिरियापाषाणयुगम्शुष्कफलानिजिम्बाबवेअष्टाध्यायीप्याउपमेयोपमालङ्कारःसुमित्रानन्दन पन्तचरकसंहिता९१२किरातार्जुनीयम्लातूरचार्वाकदर्शनम्अलवरकर्मयोगः (गीता)खण्डशर्करारवीना टंडनभारतेश्वरः पृथ्वीराजःब्रूनै१२३८भारतीयदर्शनशास्त्रम्चातुर्वर्ण्यं मया सृष्टं...राष्ट्रियजनतादलम्फाल्गुनमासःकालिदासस्य उपमाप्रसक्तिःजैनतीर्थङ्कराःरघुवंशम्पतञ्जलिस्य योगकर्मनियमाःडयोस्कोरिडीस्१०५४क्भारतीयप्रौद्यौगिकसंस्थानम्सचिन तेण्डुलकरतन्वीगयानातत्त्वज्ञानम्नैषधीयचरितम्पुराणम्१७३०कालिदासःद्विचक्रिकाजावासुहृन्मित्रार्युदासीनम्...भारतस्य अर्थव्यवस्थास्त्रीx9hqnजार्ज २आकाशवाणी(AIR)नाटकम् (रूपकम्)जलम्कौशिकी नदीश्वेतःसंयुक्ताधिराज्यम्नरेन्द्र सिंह नेगीकङ्गारूएप्पल्होमरुल आन्दोलनम्जैनदर्शनम्नादिर-शाहः🡆 More