स्मृतिः नाम पूर्वतनज्ञानस्य स्मरणम् इत्येषः सामान्यः अर्थः । महर्षयः वेदान् गभीरतया अधीत्य हृद्गतान् उपदेशान् लिखितरूपेण अयच्छन् । एवं स्मरणात् प्राप्ताः स्मृतयः । एताः वेदानां सङ्ग्रहरूपाः सन्ति । एतासु धर्म-अर्थ-काम-मोक्षाणां चतुर्णामपि पुरुषार्थाणां विवेचनं कृतं वर्तते । अत्र वर्णाः, अर्थव्यवस्थाः, वर्णाश्रमधर्माः, विशेषावसरेषु करणीयानि कर्माणि, प्रायश्चित्तम्, प्रशासनप्रणालिः, दण्डव्यवस्था, मोक्षसाधनम् इत्यादिषु सर्वेषु विषयेषु विवरणम् उपलभ्यते ।
परम्पराः |
तत्त्वज्ञानिनः |
अन्यविषयाः |
प्रवेशद्वारम्:सनातनधर्मः |
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
धर्मशास्त्राणाम् अपरं रूपमेव स्मृतिः इति उच्यते । किन्तु धर्मशास्त्राणां स्मृतीनां च भेदः विद्यते । धर्मशास्त्राणि विस्तृतानि भवन्ति किन्तु स्मृतयः संक्षिप्तरूपयुक्ताः भवन्ति ।
काश्चन स्मृतयः गद्यरूपेण भवन्ति । काश्चन पद्यरूपेण काश्चन चम्पूशैल्या वर्तन्ते ।
कालक्रमेण यदा वेदार्थावबोधनं सर्वसाधारणेभ्यः अतिदुरूहम् अभवत्तदा परमकारुणिकाः ऋषयः प्रचलितसरलसंस्कृतभाषायां लोकोपकाराय स्मृतिपुराणादिग्रन्थानां रचनां कृतवन्तः। दर्शनश्चापि सर्ववेदोपासनारूपमेव, वेदप्रामाण्यानभ्युपगन्तारो निराकर्तुमेतेषां ग्रन्थानां रचनाऽस्ति। वेदप्रथितसिद्धान्त एव स्मृत्यादिग्रन्थेषु प्रतिपादितोऽस्ति। अतो वेदं प्रति श्रद्धावतः पुरुषस्य स्मृत्यादिग्रन्थान् प्रति श्रद्धाहीनता चाशोभनीया भवति। भाषागतभेदं प्रतिपादनजन्यशैलीगतविभेदञ्च विहाय न केनाऽपि प्रकारेण विभेदः दृश्यते अस्माकं धर्मग्रन्थेषु। प्रतिपादनशैलीगतभेद एव भावगतस्यैकत्वस्य विभेदकः प्रतीतोभवति। किञ्च यथार्थतः वेदपुराणयोर्मध्ये केनाऽपि प्रकारेण सैद्धान्तिकः विरोधः परिलक्षितो न भवति। यदि वेदेषु रूपकस्य प्रचुरप्रयोगः परिलक्षितो भवति, तर्ह्यतिशयोक्तेः बहुलविधानं पुराणेषु परिलक्ष्यते।
ऋग्वेदस्याऽनेकमण्डलेषु इन्द्रस्तुतौ वृत्रेण सह तस्य युद्धस्योल्लेखो लभते। कोऽयं वृत्रः? येन सह तस्य युद्धोऽभवत्। यास्कमहोदयस्तु निजनिरुक्ते वृत्रविषये कतिपयानां प्राचीनानां मतस्योल्लेखं कृतवान्। यथा -
‘तत्को वृत्रः ? मेघ इति नैरुक्ताः ॥ त्वाष्ट्रो सुर इति ऐतिहासिकाः अपरञ्च ज्योतिषश्च मिश्रीभावकर्मणः वर्षकर्म जायते। तत्र उपमार्थेन युद्धवर्णा भवन्ति। अहिवत् तु खलु मन्त्रवर्णाः ब्राह्मणवादाश्च। विवृद्ध्या शरीरस्य स्रोतांसि निवारयाञ्चकार। तस्मिन् हते प्रसस्यन्दिरे आापः। तदभिवादिनी एषा ऋग्भवति।
अत्र नैरुक्तानां मतमेव मान्यो भवति। अनया व्याख्यया ऋग्वेदस्थस्य इन्द्रवृत्रयुद्धस्य भौतिकाधारस्वरूपं सुलभेन बोधगम्यो भवति। आकाशं परितः परिवेष्टको मेघ एव वृत्रोऽस्ति। तं वृत्रं स्ववज्रेण हत्वा सांसारिकजीवधारिणः वृष्ट्या तृप्तकर्त्ता सप्तरश्मिः वृषभः इन्द्र एव वृष्टेः देवता अस्ति। प्रतिवर्षाऋतौ गगनमण्डले भाविनः सङ्ग्राम एव इन्द्र-वृत्र-युद्धस्य परिदृश्यमानो भौतिकदृश्यो भवति। रूपकेणास्यैव वर्णनम् ऋग्वेदे वर्त्तते। पुराणेष्विन्द्रः देवानामधिपतिरस्ति, वृत्रस्तु दानवानामसुराणां वा राजा वर्तते। द्वावपि प्रबलप्रतापिनौ स्तः। उभावपि स्वस्ववाहने समारुह्य रणाङ्गणे समागच्छतः। उभयोर्मध्ये रोमाञ्चकः सङ्ग्रामो भवति, युद्धान्ते वृत्रोपरि इन्द्रस्य विजयो भवति। अस्य सङ्ग्रामस्य विस्तृतवर्णनं पुराणेषु द्रष्टुं शक्यते। विशेषतः श्रीमद्रागवतपुराणस्य षष्ठस्कन्धस्य एकादश-द्वादशाध्याययोः वर्णनमिदम् अतीवातिशयोक्तिपूर्णमस्ति। किञ्च सत्यपि अतिशयोक्तिपूर्णभाषायां वर्णनेऽस्मिन् वेदात् सिद्धान्तभेदो न दृश्यते। एकैव घटना विभिन्नग्रन्थेषु भाषाभेदेन एवं शैलीगतभेदेन सह प्रतिपादिताऽस्ति। पौराणिकग्रन्थास्तु वेदार्थं वैदिकसिद्धान्तं च सरलशैल्या बोधगम्यभाषायां विशदीकुर्वन्ति। वेदार्थम् अवबोद्धुं पुराणादिस्मृतिग्रन्थानां प्रकृष्टतरं महत्त्वमस्ति। अनेनैव कारणेन प्राचीनग्रन्थकर्तारः वेदार्थावबोधने एतेषां पुराणादिग्रन्थानाम् अध्ययनस्यावश्यकतां वदन्ति -
'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।
बिभेत्यल्पश्रुताद् वेदो मामयं प्रहरेदिति ॥'
इतिहासपुराणस्मृत्यादिग्रन्थज्ञानहीनाज्जनाद् बिभेति वेदः सर्वदा। अनेन हेतुना इतिहासपुराणादिग्रन्थानामभिज्ञता वेदार्थानुशीलनाय परमावश्यकी अस्ति। अस्य कथनस्य सम्पुष्ट्यर्थं कानिचन उदाहरणानि उपलब्धानि सन्ति। शुक्लयजुर्वेदस्य ईशावास्योपनिषदि कर्मसिद्धान्तस्य प्रतिपादयिता रहस्यमयोऽयं मन्त्रः --
'कुर्वन्नेवेह कर्माण जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥'
अस्य मन्त्रस्य भावार्थोऽयमस्ति - अस्मिन् संसारे कर्म कुर्वन् शतायुर्भवितुमिच्छथ, एवं कुर्वन्नेव ते सिद्धिर्भविष्यति नान्यथेति। कर्म मानवेषु लिप्तं न भवति। अस्य मन्त्रस्य व्याख्या गीतायाः श्लोकेऽस्मिन् द्रष्टव्या -
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥
कामनायाः परित्यागविषये बृहदारण्यकस्य ( ४॥४॥७ ) तथा कठोपनिषदश्च (४/१४) मन्त्रः दर्शनीयोऽस्ति - 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते।।'
मनुष्याणां हृदि समुपस्थिताः सर्वे कामाः यदा प्रमुच्यन्ते, तदा मर्त्यः अमर्त्यो भवति, ब्रह्मस्वरूपो भवति च। मन्त्रस्यास्य व्याख्या गीतायाः श्लोकेऽस्मिन् द्रष्टव्येति -
‘विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥
उपनिषद्ग्रन्थानां गीता तु सार एवाऽस्ति। अतः गीतायामुपनिषदां व्याख्या नातिचित्रम्भवेत्, किञ्चान्यत्रैवं वर्णनं दुर्लभं भवेदिति। अतः एतेषु स्मृतिपुराणादिग्रन्थेषु वेदमन्त्राणां विकसितार्थः प्राप्यते। परम्परागतार्थस्य सर्वथोपलब्धिः एतेष्वेव ग्रन्थेषु भवितुं शक्यते नान्यत्र। अतः वेदार्थज्ञानाय एतेषां स्मृत्यादिग्रन्थानाम् अध्ययनम् अतीवावश्यकमिति।
शताधिकाः स्मृतयः उपलभ्यन्ते । तासु प्रमुखाः - मनु-याज्ञवल्क्य-अत्रि-विष्णु-हारीत-औशनस-आङ्गीरस-यम-आपस्तम्भ-संवर्त-कात्यायन-बृहस्पति-पराशर-व्यास-शङ्ख-लिखित-दक्ष-गौतम-शातातप-नारद-वशिष्ट-प्रजापति इत्यादयः । एतासु अपि मनुस्मृतियाज्ञवल्क्यस्मृती प्रसिद्धे स्तः । किन्तु कलियुगे पराशरस्मृतिः प्रामुख्यं भजते ।
This article uses material from the Wikipedia संस्कृतम् article स्मृतयः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.