कैटरीना कैफ

कैटरीना कैफ ( ( शृणु) /ˈkɛɪtəriːnɑː kɛɪph/) (हिन्दी: कैटरीना कैफ , आङ्ग्ल: Katrina Kaif) इतीयं ब्रिटन्-देशीया अभिनेत्री, प्रतिरूपिणी (Model) च अस्ति । सा मुख्यतः भारतीयचलच्चित्रक्षेत्रे अभिनयति । अनया तेलुगू-चलच्चित्रक्षेत्रे, मलयालम-चलच्चित्रक्षेत्रे च अभिनीतम् । भारतदेशे याः अभिनेत्र्यः अधिकं पारिश्रमिकं प्राप्नुवन्ति, तासु अभिनेत्रीषु इयम् अन्यतमा । गूगल-अन्वेषणगवेषिकायां सर्वाधिकान्विष्टेषु भारतीयेषु कैटरीना इत्यस्याः चतुर्थं स्थानं वर्तते । ।

कैटरीना कैफ
Katrina Kaif
कैटरीना कैफ
कमनीयतमा कैटरीना कैफ
जन्म कैटरीना तुरकोट्टे
(१९८४-२-२) १६ १९८४ (आयुः ३९)
ब्रितानी हाङ्गकाङ्ग
देशीयता ब्रितानी
जातिः काश्मीरप्रदेशीया, आङ्ग्ल
वृत्तिः अभिनेत्री, मॉडल्
सक्रियतायाः वर्षाणि २००३ तः सामप्रतम्
भार्या(ः) विक्की कौशल Edit this on Wikidata
सम्बन्धिनः इसाबेल कैफ (भगिनी)

सा प्रतिरूपण-वृत्त्याः (Model) अनन्तरं २००३ तमे वर्षे बूम-इत्याख्ये भारतीयचलच्चित्रे अभिनयम् अकरोत् । परन्तु तत् चलच्चित्रम् असफलम् अभवत् । हिन्दीचलच्चित्रे असफलतायां सत्यां सा तेलुगू-चलच्चित्रे कार्यं प्रारभत । तेलुगू-चलच्चित्रे 'मल्लीस्वारी'-इत्याख्ये चलच्चित्रे अनया सफलता प्राप्ता । तस्मिन् चलच्चित्रे तया कृतः अभिनयः सर्वैः प्रोत्साहितः तथा च तत् चलच्चित्रम् अपि सफलम् अभवत् । ततः तया पुनः हिन्दीचलच्चित्रे पदार्पणं कृतम् । 'मैंने प्यार क्यूँ किया', 'नमस्ते लन्दन्' इत्याख्ययोः चलच्चित्रयोः तया अभिनीतम् । ते चलच्चित्रे अतिसफले आस्ताम् । एवं बॉलीवुड्-मध्येऽपि तया व्यावसायिकसफलता अर्जिता । 'नमस्ते लन्दन्'-चलच्चित्राय कैटरिना इत्यस्याः अभिनयस्य अतिप्रशंसा अपि अभवत् । ततः तस्याः कानिचन अन्यानि सफलानि चलच्चित्राणि बॉलीवुड-मध्ये तस्याः स्थानं स्थिरम् अकुर्वन् । यथा - पार्टनर (२००७), वेलकम (२००७), सिंह इझ् किंग इत्यादीनि ।

२००९ तमे वर्षे 'न्यू यॉर्क'-इत्याख्याय चलच्चित्राय फिल्मफेयर-पुरस्कारेषु सर्वोतमाऽभिनेत्रीत्वेन तस्याः नामाङ्कनम् अभवत् । ततः तस्याः वृत्तौ विधेयात्मकं परिवर्तनम् अभवत् । राजनीति, जिन्दगी न मिलेगी दोबारा, मेरे ब्रदर की दुल्हन, एक था टाइगर इत्यादिषु चलच्चित्रेषु तया अभिनयं कृतम् । एतानि सर्वाणि चलच्चित्राणि सफलानि अभूवन् । यद्यपि सा धूम-३ चलच्चित्रे अल्पकालं यावत् अभिनयम् अकरोत, तथापि तस्याः अभिनयस्य सर्वैः प्रशंसा कृता । हिन्दीचलच्चित्रजगति सर्वाधिकधनार्जनं कृतवत् तत् चलच्चित्रम् ।

प्रारम्भिकं जीवनं, पृष्ठभूमिश्च

कैटरीना कैफ 
एकस्मिन् पुरस्कारसमारम्भे (२०१२) स्वस्याः मात्रा सह स्थिता कैटरीना कैफ ।

कैटरीना इत्यस्याः जन्म १९८४ तमस्य वर्षस्य जुलाई-मासस्य षोडशे (१६/०७/१९८४) दिनाङ्के चीन-देशस्य हॉङ्ग कॉङ्ग-महानगरे अभवत् । तस्याः कुलस्य नाम तुरकोट्टे अस्ति । कैटरीना एकस्मिन् साक्षात्कारे अवदत्, मम पिता मौहम्मद कैफ 'ब्रितानी' व्यापारी आसीत् । तस्य पूर्वजाः काश्मीर-राज्यात् तत्र स्थानान्तरणम् अकुर्वन् । मम माता सुझेन ब्रिटिश-वाक्कीलत्वेन कार्यं करोति ।

कैटरीना इत्यस्याः सप्त सहोदराः सन्ति । तस्याः एकः अग्रजः, तिस्रः आग्रजाः, तिस्रः अनुजाः च सन्ति । अग्रजानां नामानि क्रमेण स्टेफनी, क्रिस्टीन, नताशा च । अनुजानां नामानि क्रमेण मेलिस्सा, सोनिया, इसाबेल च । अग्रजस्य नाम माइकल अस्ति । कैटरीना यदा शैशवे आसीत्, तदैव तस्याः पित्रोः विवाहविच्छेदः अभवत् । कैटरीना इत्यनया सह तस्याः सहोदराणां पालनं तस्याः माता एव अकरोत् ।

यदा कैटरीना अष्टवर्षीया आसीत्, तदा सा फ्रांस-देशे निवसति स्म । कैटरीना इत्यस्याः माता समाजकल्याणस्य कार्ये सँल्लग्ना अस्ति । अतः सा विभिन्नेषु देशेषु निवासं कृतवती । कैटरीना इत्यस्याः जन्मानन्तरं तस्याः परिवारः कानिचन दिनानि चीन-देशे आसीत् । परन्तु ततः सः परिवारः क्रमेण जापान, फ्रांस, स्विट्जरलैंड, पोलैंड, बेल्जियम इत्यादिषु देशेषु न्यवसत् । ततः सः परिवारः भारते न्यवसत् । सा व्यापारि-आज्ञापत्रानुसारं भारते कार्यं करोति, सा ब्रिटिश-नागरिकत्वं धरते ।

वृत्तिः

प्रतिरूपणस्य, चलच्चित्रस्य च वृत्तिः

कैटरीना यदा चतुर्दशवर्षीया आसीत्, तदा सा हवाई-महानगरे सौन्दर्यप्रतियोगितायां विजेत्री आसीत् । तदारभ्य सा प्रतिरूपणं (modelling) करोति स्म । ततः एकस्मिन् आभूषणविक्रतुः सङ्घटने (Company) सा प्रतिरूपणत्वेन वृत्तिम् आरभत । ततः सा व्यवसायत्वेन लन्दन-महानगरे प्रतिरूपणम् आरब्धवती । तत्र सा विभिन्नैः सङ्घटनैः सह मिलित्वा स्वतन्त्ररूपेण प्रतिरूपणं कृतवती । लन्दन-महानगरे यदा सा प्रतिरूपणत्वेन कार्यं कुर्वती आसीत्, तदा तया एकस्य भारतीयचलच्चित्रनिर्मातुः ध्यानम् आकर्षितम् । सः निर्माता कश्चन कैजाद गुस्ताद आसीत् । सः कैटरीना इत्यनया सह मिलित्वा बूम-इत्याख्यं चलच्चित्रं निर्मितवान् । परन्तु तत् चलच्चित्रम् असफलम् अभवत् । भारते यदा सा कार्यान्विता आसीत्, तदा अन्येभ्यः चलच्चित्रेभ्यः अपि सा प्रस्तावान् प्राप्तवती । अतः तया भारते एव निवासाय निर्णयः कृतः । सा स्वल्पे काले एव भारतीय-प्रतिरूपण-सङ्घटनेषु प्रसिद्धा अभवत् । सा अनेकेषु विज्ञापनेषु कार्यम् अकरोत् । यथा - कोका कोला, एलजी, फेवीकोल, सैमसङ्ग । ततः तया हिन्दीभाषायाः अध्ययनं प्रारब्धम् । शनैः शनैः तया हिन्दीभाषायाः अवबोधनं कृतम् । ।

आरम्भकाले सफलता (२००४-२००६)

स्वस्य प्रथमचलच्चित्रस्य असफलतायाः अनन्तरं सा मल्लीस्वारी-नामके तेलुगू-चलच्चित्रे अभिनयं कृतवती । तस्य चलच्चित्रस्य कृते सा ७५ लक्षरूप्यकाणि प्राप्तवती । तावता एकयापि दक्षिणभारतीयाभिनेत्रीणा एतावत् धनं न प्राप्तम् । चलच्चित्रोद्योगक्षेत्रस्य अभिनेत्रीषु सा अधिकतमं पारिश्रमिकं प्राप्तवती । परन्तु तस्याः अभिनयस्य प्रशंसा तु नैवाभवत् । तस्याः सा सफलता केवलम् आर्थिकसफला आसीत् ।

ततः सा राम गोपाल वर्मा-इत्याख्यस्य सरकार-नामके चलच्चित्रे अभिषेक बच्चन इत्यस्य प्रेमिकायाः अभिनयम् अकरोत् । तस्मिन् चलच्चित्रे तस्याः भूमिका स्वल्पकालीना आसीत् । ततः हिन्दीचलच्चित्रक्षेत्रे मुख्याभिनेत्रीत्वेन सा प्रप्रथमे 'मैंने प्यार क्यूँ किया'-नामके चलच्चित्रे कार्यम् अकरोत् । डेविड धवन इत्याख्येन निर्मितं तत् चलच्चित्रं सफलम् अभवत् । तस्मिन् चलच्चित्रे तया सह सलमान खान, सोहेल खान, सुष्मिता सेन च प्रमुखभूमिकायाम् आसन् । चलच्चित्रे सफले सति कैटरीना इत्यस्याः प्रशंसा अभवत् । ततः सा एकस्मिन् तेलुगू-चलच्चित्रे कार्यं कृतवती । तस्य चलच्चित्रस्य नाम 'अल्लरी पिदुगू' आसीत् । तस्मिन् चलच्चित्रे तस्याः भूमिका स्वल्पकालीना आसीत् ।

२००६ तमे वर्षे अक्षय कुमार इत्यनेन सह कैटरीना 'हमको दीवाना कर गये'-इत्याख्ये चलच्चित्रे कार्यम् अकरोत् । तयोः बहुप्रशंसा अपि अभवत् । चलच्चित्रस्य स्थितिः मध्यमा आसीत्, परन्तु कैटरीना इत्यस्याः अभिनयस्य सर्वैः प्रशंसा कृता । ततः 'बलराम बनाम तारादास'-नामके मलयालम-चलच्चित्रे सा अभिनयम् अकरोत् । तस्य कृते अपि तस्याः अतिप्रशंसाः अभूवन् ।

नमस्ते लन्दन-चलच्चित्रं, व्यावसायिकसफलता च

कैटरीना कैफ 
नमस्ते लन्दन-चलच्चित्रे अभिनयकार्ये व्यस्तौ कैटरीना, अक्षयश्च

२००७ तमं वर्षं कैटरीना इत्यस्याः कृते शुभवर्षम् आसीत् । तस्याः चत्वारि चलच्चित्राणि प्रकाशितानि, यानि सर्वाणि सफलानि अभूवन् ।

२००७ तमे वर्षे प्रप्रथमं विपुल शाह-नामकेन निर्देशकेन निर्मितं 'नमस्ते लंदन' इत्याख्यं चलच्चित्रं चलच्चित्रगृहेषु प्रसिद्धम् अभवत् । तत् चलच्चित्रम् अतिसफलम् अभवत् । तथा च कैटरिना इत्यस्याः अभिनयस्यापि अतिप्रशंसाः अभूवन् । तदनन्तरं जनाः कैटरिना इत्येनाम्, अक्षयं च युगलत्वेन पश्यन्ति स्म ।

कैटरीना कैफ 
कैटरीना वैलकम-चलच्चित्रस्य मञ्चे अक्षय कुमार इत्यनेन सह

२००७ तमे वर्षे तस्याः द्वितीयं चलच्चित्रं 'अपने'-इत्याख्यं चलच्चित्रगृहेषु प्रकाशितम् अभवत् । तस्मिन् चलच्चित्रे सा सहायकभूमिकायाम् आसीत् । तस्मिन् चलच्चित्रे तया धर्मेन्द्र, सन्नी देओल, बॉबी देओल, किरन खेर, शिल्पा शेट्टी इत्यादिभिः सह कार्यं कृतम् । ततः डेविड धवन इत्यनेन निर्देशितं पार्टनर-इत्याख्यं चलच्चित्रं चलच्चित्रगृहेषु प्रकाशितम् अभवत् । तस्मिन् चलच्चित्रे तया सह सलमान खान, गोविन्दा, लारा दत्ता च आसन् । १०० कोटिः रूप्यकाणि अर्जयित्वा तेन चलच्चित्रेण । एवं तेन चलच्चित्रेण इतिहासः रचितः ।

२००७ तमस्य वर्षस्य अन्तिमे बहुचर्चितं चलच्चित्रं वैलकम-चलच्चित्रं चलच्चित्रगृहेषु प्रसिद्धम् अभवत् । तस्मिन् चलच्चित्रे सा अक्षयस्य प्रेमिकायाः भूमकाम् अभजत । तस्मिन् चलच्चित्रे नाना पाटेकर, मल्लिका शेरावत, अनिल कपूर, परेश रावल इत्येषाम् अपि प्रमुखभूमिका आसीत् । तत् चलच्चित्रम् अपि अतिसफलम् अभवत् । सततं द्वितीयवारं कैटरिना इत्यनया अभिनीतं चलच्चित्रं अतिसफलम् अभवत् । तेन चलच्चित्रेण आविश्वं ११६ कोटिरूप्यकाणि अर्जितानि । एतेषु चलच्चित्रेषु उत्तमे प्रदर्शने कृते सत्यपि कैटरीना-द्वारा अभिनीतानि पात्राणि समीक्षकैः अवगणितानि । यतो हि समीक्षकाणां धारणा आसीत् यत्, एतेषु चलच्चित्रेषु "महिलाभ्यः कर्तुं किमपि उत्तमं कार्यं नासीत्" इति । तेषु चलच्चित्रेषु कैटरीना-इत्यनया केवलं सुन्दराणि वस्त्राणि धृतानि, तया किमपि विशेषं कार्यं न कृतम् अस्ति इति ।

२००८ तमे वर्षे तस्याः प्रप्रथमं चलच्चित्रं 'रेस' चलच्चित्रगृहेषु प्रकाशितम् अभवत् । तस्मिन् चलच्चित्रे सैफ अली खान, अक्षय खन्ना, बिपाशा बसु, अनिल कपूर, समीरा रेड्डी च आसन् । 'रेस'-चलच्चित्रं सफलम् अभवत् । यद्यपि तत् तस्याः सततं तृतीयं सफलं चलच्चित्रम् आसीत्, तथापि तस्याः अभिनयस्य विषेय समीक्षकाणां मिश्रितानि मतानि आसन् ।

ततः सिंह इज् किङ्-इत्याख्यं चलच्चित्रं चलच्चित्रगृहेषु प्रकाशितम् । तस्मिन् चलच्चित्रे पुनः तया अक्षय्येन सह अभिनयं कृतम् । आविश्वं 125 कोटिरूप्यकाणि अर्जितानि तेन चलच्चित्रेण । चलच्चित्रम् अतिसफलम् अभवत् । एवं कैटरीना इत्यस्याः तत् सततं षष्ठमं सफलं चलच्चित्रम् आसीत् ।

२००८ तमस्य वर्षस्य अन्तिमसमये चलच्चित्रगृहेषु प्रकाशितं युवराज-इत्याख्यं चलच्चित्रम् अतिविफलं चलच्चित्रम् आसीत् , तथा च तस्याः अभिनयस्यापि बहुकिमपि प्रशंसा नाभवत् । तत् चलच्चित्रम् अधिकं सफलं नाभवत् । केचन प्रशंसां कृतवन्तः केचन निन्दां च कृतवन्तः । यद्यपि जनानां प्रतिस्पन्दः मिश्रितः आसीत्, तथापि पटकथायाः कलात्मकयोग्यतात्वात् तत् चलच्चित्रम् अकादमी ऑफ मोशन पिक्चर आर्ट्स एण्ड साइन्सेज इत्यस्मिन् पुस्तकालयेन सह योजितम् ।

उक्तेषु सर्वेषु चलच्चित्रेषु कैटरीना इत्यस्याः स्वरः अन्यमहिलया पूर्तिकरः (Dubbing) भवति स्म । यतो हि सा हिन्दी-भाषाम्, अन्याः भाषाः च न जानाति स्म । बहुषु चलच्चित्रेषु कैटरीना इत्यस्याः मुख्यभूमिकाः आसन्, तथा च अनेकानि चलच्चित्राणि सफलानि अपि आसन् । यद्यपि तस्याः चलच्चित्राणि सफलानि आसन्, तथापि तस्याः अभिनयस्य उत तस्याः उपस्थितेः कृते चलच्चित्रसमीक्षकाणाम् अधिकः ध्यानं नासीत् । समीक्षकाणाम् अनुमानम् आसीत् यत्, यानि चलच्चित्राणि कैटरीना इत्यनया कृतानि, तेषु चलच्चित्रेषु पुरुषाणाम् एव महत्त्वपूर्णभूमिका आसीत् । एवं तस्याः अभिनयस्य कृते सर्वदा सा नैराश्यवतः अभिप्रायान् एव प्राप्तवती ।

न्यू यॉर्क-चलच्चित्रम्, अन्यानि चलच्चित्राणि (२००९-२०११)

समीक्षकाणां मतानुसारम् उक्तेषु सर्वेषु चलच्चित्रेषु कैटरीना अभिनेत्रीत्वेन स्वीकृता, यतो हि सा अतिसुन्दरी अस्ति । परन्तु सा अभिनयं जानाति इत्यनेन आधारेण तस्याः चयनं चलच्चित्रेषु न भवति इति । ततः 'न्यू यॉर्क'-नामके चलच्चित्रे तया यः अभिनयः कृतः, तेन अभिनयस्तरेऽपि तस्याः आवश्यकता समुद्भूता । तस्मिन् चलच्चित्रे जॉन अब्राहम, नील नितिन मुकेश, इरफान खान च सहाभिनेतृत्वेन आसन् । कैटरीना इत्यस्याः अभिनयस्य, चलच्चित्रस्य च समीक्षकैः भूरिशः प्रशंसा कृता । चलच्चित्रम् अपि व्यावसायिकरूपेण सफलम् अभवत् । 'न्यू यॉर्क'-चलच्चित्रस्य अभिनयार्थं कैटरीना इत्यस्याः नामाङ्कनं 'फिल्मफेयर'-मध्ये अभवत् । सा 'ब्लू'-नामके चलच्चित्रे 'कैमियो'-त्वेन अभिनयम् अकरोत् ।

राजकुमार सन्तोषी इत्यस्य 'अजब प्रेम की गजब कहानी'-चलच्चित्रे सा रणबीर कपूर इत्यनेन सह अभिनयम् अकरोत् । चलच्चित्रं सफलम् अभवत्, तथा च कैटरीना इत्यस्याः अभिनयस्यापि भूरिशः प्रशंसाः अभूवन् । ततः तया प्रियदर्शन-इत्याख्यस्य चलच्चित्रनिर्मातुः 'दे दना दन'-चलच्चित्रे कार्यं कृतम् । तस्मिन् चलच्चित्रे अक्षय कुमार, सुनील शेट्टी, परेश रावल, समीरा रेड्डी, नेहा धूपिया इतीमे अभिनेतारः च आसन् ।

२०१० तमे वर्षे प्रकाश झा इत्यनेन निर्मिते 'राजनीति'-नामके चलच्चित्रे कैटरीना इतीयम् अभिनयम् अकरोत् । चलच्चित्रे तया सह रणबीर कपूर, अजय देवगन, अर्जुन रामपाल, नाना पाटेकर, मनोज बाजपेयी च सहाभिनेतारः आसन् । तस्य चलच्चित्रस्य पटकथा महाभारतमहाकाव्याधारिता आसीत् । चलच्चित्रस्य, कैटरीना इत्यस्याः अभिनयस्य च अतिप्रशंसा अभवत् । १४० कोटिरूप्यकाणि अर्जितानि राजनीति-चलच्चित्रेण । कैटरीना अक्षय कुमार इत्यस्य प्रेमिकात्वेन 'तीसमार खां'-चलच्चित्रे अपि अभिनयम् अकरोत् । चलच्चित्रस्य अतिनिन्दा अभवत् । यद्यपि समीक्षकाणां, पत्रकाराणां च नैराश्यवत्प्रतिस्पन्दः आसीत्, तथापि चलच्चित्रस्य धनलाभः अभवत् । 'तीस मार खाँ' इत्यस्मिन् चलच्चित्रे कैटरीना इत्यस्याः प्रदर्शनस्य प्रशंसा नाभवत्, परन्तु तया एकस्मिन् 'शीला की जवानी'-नामके आइटम्-गीते यः अभिनयः कृतः, तेन तस्याः प्रशंसा अभवत् ।


२०११ तमे वर्षे सा ऋत्विक् रोशन, फरहान अख्तर, अभय देयोल, कल्की केकलां इत्यादिभिः सह जोया अख्तर इत्यनया निर्मिते 'जिन्दगी न मिलेगी दोबारा'-नामके चलच्चित्रे अभनयम् अकरोत् । चलच्चित्रम् अतिसफलम् अभवत् । तेन चलच्चित्रेण आविश्वं १५३ कोटिरूप्यकाणि अर्जितानि । समीक्षकैः चलच्चित्रस्य भूरिशः प्रशंसाः कृताः । कैटरीना इत्यस्याः अभिनयस्य सर्वैः प्रशंसा कृता । 'जिंदगी न मिलेगी दोबारा'-चलच्चित्रं तस्य वर्षस्य सफलतमेषु चलच्चित्रेषु अन्यतमम् आसीत् । प्रमुखैः भारतीयपुरस्कारैः तत् चलच्चित्रं सम्माननं प्रापत् । बहुत्र तु श्रेष्ठचलच्चित्रस्य श्रेण्याम् अपि तस्य चलच्चित्रस्य सम्मानः अभवत् ।

ततः सा 'यश राज फिल्म्स' इत्यस्याः संस्थायाः 'मेरे ब्रदर की दुल्हन'-चलच्चित्रे इमरान खान इत्यनेन सह अभनयम् अकरोत् । तस्मिन् चलच्चित्रे अली जफर-नामकः पाकिस्थानदेशीयः अभिनेता अपि कार्यम् अकरोत् । कैटरीना इत्यस्याः अभिनयस्य, चलच्चित्रस्य च भूरिशः प्रशंसाः अभूवन् । कैटरीना तस्मिन् चलच्चित्रे मुख्यनायिकात्वेन अभिनयम् अकरोत् । तस्याः पात्रं परितः एव सम्पूर्णस्य चलच्चित्रस्य पटकथा निर्मिता आसीत् । तस्य चलच्चित्रस्य व्यापारिकसफलतायै, चलच्चित्रस्य सफलतायै च विश्लेषकाः कैटरीना इत्यस्यै श्रेयाः अयच्छन् । स्वाभिनयस्य कृते 'फिल्मफेयर'-पुरस्काराय द्वितीयप्रत्याशिनित्वेन तस्याः नामाङ्कनम् अभवत् ।

२०१२ तः २०१५ पर्यन्तम्

कैटरीना कैफ 
एक था टाइगर इत्यस्य चलच्चित्रस्य प्रप्रथमस्य 'माशाल्लाह'-नामकस्य गीतस्य मञ्चनकार्यक्रमे कैटरीना, २०१२

२०१२ तमे वर्षे कैटरीना 'अग्निपथ'-नामके चलच्चित्रे अतिलोकप्रिये आइटम-गीते अभिनयम् अकरोत् । तस्य गीतस्य नाम 'चिकनी चमेली' इति । तस्य गीतस्य निर्माणकार्यं दशदिनानि अचलत् । तस्मिन् गीते सा महाराष्ट्रियलोकनृत्यम् अकरोत् । नृत्यस्य शैली लावणी आसीत् । तस्य गीतस्य मञ्चनानन्तरं कैटरीना अवदत्, "'चिकनी चमेली'-गीतस्य कृते सर्वे मम प्रशंसां कुर्वन्तः सन्ति । तस्य गीतस्य नृत्यं कर्तुं मह्यं बह्वरोचत् । गीतस्य अभिनये मया बहुः परिश्रमः कृतः । यतो हि अहं पुरा कदापि एतादृशं नृत्यं नाकरवम् । तत् गीतम् अतिशीघ्रगामि आसीत् । परन्तु तदेव मम कृते समाह्वानम् (challenge) आसीत्" इति । ततः, सा कबीर खान इत्यनेन निर्मते गुप्तचरविषयेन सँल्लग्ने 'एक था टाइगर'-नामके चलच्चित्रे कार्यम् अकरोत् । तस्मिन् चलच्चित्रे सा आईएसआई इत्यस्याः संस्थायाः सदस्यत्वेन अभिनयम् अकरोत् । तस्मिन् चलच्चित्रे सा रॉ इत्यस्याः भारतीयसंस्थायाः सदस्ये स्निह्यति । चलच्चित्रम् अतिसफलम् अभवत् । कैटरीना इत्यस्याः अभिनयस्य, तस्याः युद्धसम्बद्धानां दृश्यानाम् अपि अतिप्रशंसा अभवत् । सलमान खान इत्ययं कैटरीना इत्यस्याः पूर्वप्रेमी आसीत् । अतः तेन सह तस्याः चलच्चित्राभिनयेन अनेकाः प्रश्नाः, जिज्ञासाः च उत्पन्नाः । तेषां प्रश्नानां, जिज्ञासानां च बलेनैव आविश्वं ३११ कोटिरूप्यकाणि अर्जितानि तेन चलच्चित्रेण । 'एक था टाइगर' इतिचलच्चित्रं वर्षस्य सर्वाधिकं धनार्जनकं चलच्चित्रम् अभवत् ।

कैटरीना कैफ 
अनुष्का शर्मा, शाहरुख खान, कैटरीना कैफ च एकस्मिन् कार्यक्रमे

२०१२ तमे वर्षे कैटरीना इत्यनया यश चोपडा इत्यस्य प्रणयारम्ये (romantic) चलच्चित्रे कार्यं कृतम् । तस्मिन् प्रणयारम्ये (romantic) 'जब तक है जान'-चलच्चित्रे शाहरुख खान, अनुष्का शर्मा चापि आस्ताम् । चलच्चित्रे कैटरीना इत्यनया मीरा-नामिकायाः महिलायाः अभिनयः कृतः । सा मीरा भगवन्तम् एकदा याचते स्म यत्, यदि तस्याः प्रेमी मूर्छायाः प्रकोपात् मुक्तः भवति, तर्हि सा तस्य जीवनात् सुदूरे गमिष्यति इति । एतत् चलच्चित्रम् प्रशंसावतां समीक्षां प्राप्तत् । राजीव मसन्द-नामकः चलच्चित्रस्य समीक्षकः कुत्रचित् अलिखत्, "यद्यपि तस्य चलच्चित्रस्य पटकथायां बहव्यः क्षतयः सन्ति, तथापि एतत् चलच्चित्रं वीक्षणीयम् अस्ति । एतत् भवत्सु प्रेमपराकाष्टायाः अनुभूतिं जनयिष्यति" इति । चलच्चित्रस्य प्रशंसा तु अभवत्, परन्तु कैटरीना इत्यस्याः प्रदर्शनविषये समीक्षकैः मिश्रितप्रतिस्पन्दः प्रदत्तः । बीबीसी इत्यस्य चलच्चित्रसमीक्षकेण अर्णब बनर्जी इत्यनेन लिखितम्, "कैटरीना इत्यस्याः नृत्यं सौन्दर्यं, कार्यशैली इत्यादीनि बहूत्तमानि सन्ति, परन्तु भावप्राक्ट्यस्य दृश्येषु सा सम्यक् रीत्या कार्यं कर्तुं न पारयति" इति । एतत् चलच्चित्रं अतिसफलं चलच्चित्रम् आसीत् । आविश्वं २११ कोटिरूप्यकाणि अर्जितानि तेन चलच्चित्रेण ।

२०१३ तमे वर्षे कैटरीना विजय कृष्ण आचार्य-इत्याख्येन निर्देशिते 'धूम 3'-नामके चलच्चित्रे कार्यम् अकरोत् । तस्मिन् चलच्चित्रे सा आमिर खान, अभिषेक बच्चन, उदय चोपडा इत्येतैः सह अभिनयम् अकरोत् । सा क्रीडारङ्गस्य (Circus) नट्याः अभिनयम् अकरोत् । तत् चलच्चित्रं सङ्ग्रामपूर्णं (action), रोमाञ्चकं (thriller) च आसीत् । यद्यपि चलच्चित्रे कैटरीना इत्यस्याः अभिनयकालः अतिस्वल्पः आसीत्, तथापि सा आकर्षणस्य केन्द्रम् अभवत् । तस्याः अभिनयस्य कृते समीक्षकाणां मिश्रितः प्रतिस्पन्दः आसीत् । परन्तु नृत्याय, क्रीडारङ्गस्य क्रीडाभिनयाय च तस्याः प्रशंसा अभवत् । आविश्वं ५०० कोटिरूप्यकेभ्यः अधिकं धनार्जनम् अभवत् । एवं सर्वाधिकधनार्जनकं चलच्चित्रम् अभवत् ।

२०१४ तमे वर्षे तया सिद्धार्थ आनन्द इत्यनेन रचिते 'बैङ्ग बैङ्ग'-नामके चलच्चित्रे अभिनयः कृतः । तत् चलच्चित्रं हॉलीवुड-संस्थायाः 'नाइट एण्ड् डे'-नामकस्य चलच्चित्रस्य आधारेण निर्मितम् आसीत् । कैटरीना तस्मिन् चलच्चित्रे कोषागारस्य कर्मचारिण्याः भूमिकाम् अभजत् । सा कर्मचारिणी अपरिचिते पुरुषे (ऋत्विजि) स्निह्यति । ततः तयोः जीवनं विभिन्नाभिः समस्याभिः ग्रस्तं भवति । परन्तु ऋत्विक् सर्वदा कैटरीना इत्यस्याः रक्षणं करोति । चलच्चित्रम् अतिनैराश्यवन्तं प्रतिस्पन्दं प्रापत् । कैटरीना इत्यस्याः अभिनयस्यापि नैराश्यवान् प्रतिस्पन्दः आसीत् । तथापि चलच्चित्रं व्यावसायिकदृष्ट्या तु सफलम् एव आसीत् ।

२०१५ तमे वर्षे सा द्वयोः चलच्चित्रयोः अभिनयं कुर्वती अस्ति । कबीर खान इत्यनेन निर्मिते 'फैण्टम'-इत्याख्ये चलच्चित्रे सा सैफ अली खान इत्यनेन सह अभिनयं करोति । तेन चलच्चित्रेण सह अनुराग बसु इत्यनेन रचिते 'जग्गा जासूस'-इत्याख्ये हास्यचलच्चित्रे रणबीर कपूर इत्यनेन सह कार्यं करोति ।

व्यक्तिगतं जीवनम्

कैटरीना कैफ 
रणबीर कपूर, कैटरीना कैफ च 'अजब प्रेम की गजब कहानी'-चलच्चित्रस्य सफलतायाः उत्सवे ।
कैटरीना कैफ 
२००९ तमे वर्षे रणबीर इत्यनेन सह कैटरीना कैफ

कैटरीना इत्यस्याः नैजजीवनं पत्रकारैः व्यापकरूपेण चर्चितम् अस्ति । सा स्वस्याः नैजजीवनस्य विषये चर्चां कर्तुम् अनिच्छुका एव भवति । तस्याः कथनम् अस्ति, "अहम् अतिभावुका महिला अस्मि । मम कृते मम सम्बन्धाः अतिनैजाः । अतः अहं तेषां विषये चर्चां कर्तुं नेच्छामि, तथा च मम नैजजीवने अन्येषां विक्षेपम् अपि नेच्छामि । मम नैजसम्बद्धैः संलग्नानां सुखानां दुःखानां च स्पष्टीकरणं मम कृते आवश्यकं नास्ति" इति । सलमान खान इत्यनेन सह तस्याः सम्बद्धानां चर्चा २००४ तमे वर्षे आसीत् । यद्यपि २०१० तमे वर्षे तयोः सम्बद्धविच्छेदः अभवत्, ततः कैटरीना तस्य सम्बन्धस्य विषये किमपि नावदत्, तथापि सा अङ्ग्यकरोत् यत्, सः सम्बन्धः तस्याः जीवनस्य प्रप्रथमः गभीरः सम्बन्धः आसीत् इति । सम्बन्धविच्छेदे सत्यपि उभयोः मित्रता आसीत् । कैटरीना वदति यत्, "सलमान इत्ययं मयि आत्मविश्वासं जनयति तथा च मम मार्गदर्शनम् अपि करोति ।

"सलमान सर्वदैव मम मार्गदर्शनं कर्तुम् उपस्थितः भवति । यतो हि अहं चलच्चित्रोद्योगस्य विषये किमपि न जानामि । आरम्भकालादेव सलमान वदति स्म यत्, त्वम् एकस्मिन् दिने सफला भविष्यसि इति । तस्य तत् कथनं मम मस्तिष्के पौनःपुन्येन भ्रमति स्म" ।

कैटरीना कैफ 
न्यू योर्क-स्पर्धाविजेतारैः सह कैटरीना

पत्रकारैः अनुमितं यत्, सलमान-कैटरीना इत्यनयोः सम्बन्धविच्छेदस्य कारणं रणबीर कपूर आसीत् । कैटरीना यदा 'अजब प्रेम की गजब कहानी'-इत्याख्ये चलच्चित्रे कार्यं करोति स्म, तदा रणबीर कपूर इत्यनेन सह तस्याः नैकट्यम् अवर्धत । तयोः नैकट्यविषये कैटरीना, रणबीर च इतीमौ किमपि नावदताम् । परन्तु तयोः सम्बन्धः पत्रकारैः बहुचर्चितः, संशोधितश्च । यतो हि तौ उभौ अन्यव्यक्तेः प्रेमपाशे बद्धौ आस्ताम् । २०१३ तमस्य वर्षस्य अगस्त-मासे इबीसा-मध्ये अवकाशदिनेषु प्रेमानन्दं कुर्वन्तौ कैटरिना-रणबीर इत्येतौ एकस्य पत्रकारस्य दृष्टिपथि आगतौ । सः पत्रकारः तयोः अन्तरङ्गचित्राणि अकर्षत् । तस्य पत्रकारस्य नाम स्टारडस्ट् इति आसीत् । तेन तानि चित्राणि एकस्यां मासिकपत्रिकायां प्रकाशितानि । तेन तयोः प्रेमसम्बन्धस्य पुष्टता अभवत् । तानि चित्राणि यदा सर्वेषां सम्मुखम् आगतानि, तदा कैटरीना प्रकाशसंस्थायै पत्रं प्रैषयत् । तस्मिन् पत्रे लिखितम् आसीत् यत्, तानि चित्राणि प्रकाशनविभागेन प्रकाशितानि अतः अहं रुष्टा अस्मि । यतो हि तानि चित्राणि मम अनुमतिं विना भवतां सम्पादकेन कर्षितानि ।

कार्यक्रमेषु कैटरीना

कैटरीना कैफ 
२००६ ग्लोबल् इण्डियन् फिल्म्-पुरसकारे प्रदर्शनं कुर्वती कैटरीना कैफ
कैटरीना कैफ 
एकस्मिन् पुरस्कारसम्मेलने प्रदर्शनं कुर्वती कैटरीना (चिकनी चमेली) ।

चलच्चित्रेषु अभिनयेन सह कैटरीना इत्यनया अनेकेषु रङ्गमञ्चकार्यक्रमेषु अपि भागः ऊढः । २००८ तमे वर्षे 'टेम्पटेशन् रीलोडेड २००८'-इत्याख्ये कार्यक्रमे सा भागम् अवहत् । तस्य कार्यक्रमस्य सङ्गीतश्रङ्खलायां सा विभिन्नेषु देशेषु प्रदर्शनम् अकरोत् । रॉटरडैम्, नीदरलैण्ड इत्यनयोः देशयोः आयोजितः सः कार्यक्रमः अनेकैः अभिनेतृभिः युक्तः आसीत् । तस्मिन् कार्यक्रमे अर्जुन रामपाल, करीना कपूर, शाहरुख खान, गणेश हेगडे, जावेद अली, अनुषा दाण्डेकर सदृशाः अभिनेतारः अपि भागम् अवहन् । केचन मासाः सा तस्मिन् कार्यक्रमे व्यस्ता आसीत् । ततः भारतं प्रत्यागत्य सा पुनः शाहरुख-करीना-अर्जुनेत्यादिभिः सह दुबई-महानगरम् अगच्छत् । तत्र दुबई-महानगरस्य एरीना-स्थले १५,००० दर्शकानाम् उपस्थितौ सा प्रदर्शनं कृतवती । कैटरीना इत्यनया पुरस्कारसम्मेलनेषु, आरक्षकसम्मानकार्यक्रमेषु, सङ्गीतसमारोहेषु च बहुधा प्रदर्शनानि कृतानि । मस्कट-महानगरे आयोजिते 'टेम्पटेशन् रीलोडेड २०१३' इत्यस्मिन् कार्यक्रमे सा शाहरुख खान, अली जफर, प्रीति जिण्टा इत्यादिभिः सह प्रदर्शनम् अकरोत् । कैटरीना २००९ तमे वर्षे जोहानसबर्ग-महानगरे वाण्डरर्स क्रिकेट स्टेडियम-मध्ये अन्ताराष्ट्रियकार्यक्रमे भागम् अवत् । ततः २०१३ तमे वर्षे अपि सा 'आई पी एल्'-क्रीडायाः उद्घाटनसमारोहे प्रदर्शनं कृतवती । कैटरीना स्वाभिनीतानां चलच्चित्राणां गीतेषु विभिन्नेषु पुरस्कारसमारोहेषु प्रदर्शनं करोति । २००६ तमे वर्षे कैटरीना 'ग्लोबल इण्डियन'-पुरस्कारे प्रदर्शनम् अकरोत् । ततः वर्षद्वयानन्तरं २००८ तमे वर्षे 'रेस'-चलच्चित्रस्य गीतेषु नवमे 'अन्ताराष्ट्रिय-भारतीय-चलच्चित्र-अकादमी'-पुरस्कारसमारोहे नृत्यम् अकरोत् । २००९ तमे वर्षे पञ्चपञ्चाशत्तमे 'फिल्मफेयर'-पुरस्कारसमारोहे तथा च २०१३ तमे वर्षे 'जी सिने'-पुरस्कारसमारोहे च सा प्रदर्शनम् अकरोत् । उभौ समारोहौ मुम्बई-महानगरे आस्ताम् ।

समाचारेषु कैटरीना

'दैनिक जागरण'-इत्याख्ये समाचारपत्रे कैटरीना इत्यस्याः विषये एकः लेखः प्रकाशितः अभवत् । तस्मिन् लेखे उल्लिखितम् आसीत् यत्, यद्पि कैटरीना हिन्दीभाषां न जानाति तथा च सा विदेशिमहिला अस्ति, तथापि भारतीयचलच्चित्रजगति सफलतायाः पर्यायत्वेन कैटरीना इत्यस्याः नाम देदीप्यमानम् अस्ति । कैटरीना कैफ इत्यस्याः समकालीनासु सर्वासु अभिनेत्रीषु सफला अभिनेत्री अस्ति । अभिनयसम्बद्धाः आलोचनाः कैटरीना-विरुद्धं भवन्ति, तथापि सततं सा सफलतमाऽभिनेत्रीत्वेन भारतीयचलच्चित्रजगति ख्यातिं प्राप्तवती । एकया मासिकपत्रिकया सफलतमायाः अभिनेत्र्याः विषये सर्वेक्षणं कृतम् आसीत् । तस्मिन् सर्वेक्षणे कैटरीना सफलतमाऽभिनेत्री अस्ति इति उद्घोषणा आसीत् । कैटरीना इत्यस्याः विषये पत्रकारेषु मान्यता अस्ति यत्, सा स्वकार्यं प्रति समर्पिता व्यक्तिः अस्ति । 'अजब प्रेम की गजब कहानी'-चलच्चित्रस्य निर्देशकः राजकुमार सन्तोषी कैटरीना इत्यस्याः कृते अवदत्, "सा प्रप्रथमक्रमाङ्कस्य अभिनेत्री अस्ति, परन्तु चलच्चित्रनिर्माणकाले सा तादृशं व्यवहारं कदापि न करोति । यद्यपि सा प्रख्याततमा अभिनेत्री अस्ति, तथापि निर्माणस्थले किमपि प्रभावितं न भवति" इति । कैटरीना इत्यनया स्वाभिनयस्य क्षमता वर्धिता, हिन्दीभाषायाः शिक्षणं प्राप्तं च अतः तस्याः प्रशंसा सर्वत्र अभवत् । तेन सह तया 'आइटम'-गीतेषु यः अभिनयः कृतः, तस्य कृते अपि तस्याः प्रशंसा अभवत् ।

भारते याः अभिनेत्र्यः सन्ति, तासु कैटरीना सर्वाधिकं पारिश्रमिकं प्राप्नोति इति मन्यते । जनानाम् अनुमानम् अस्ति यत्, सा एकस्य चलच्चित्रस्य कृते ५.५ वा ६ कोटिरूप्यकाणि स्वीकरोति । २०१३ तमे वर्षे प्राप्तसर्वाधिकपारिश्रमिकासु भारतीयाभिनेत्रीषु सा द्वितीये क्रमाङ्के आसीत् । फोर्ब्स-पत्रिकायाः अनुमानानुसारं कैटरीना इत्यनया २०१२ तमे वर्षे ६५ कोटिरूप्यकाणि अर्जितानि । तस्य फलस्वरूपं सा द्वादशे क्रमाङ्के आसीत् । २०१३ तमस्य वर्षस्य सूच्यां सा दशमे क्रमाङ्के आसीत् । दशजनेषु सा एकाकिनी महिला आसीत् । 'पीपल विथ मनी'-नामिकया पत्रिकया २०१४ तमे वर्षे आविश्वं सर्वाधिकधनार्जनं कृतवतीनां अभिनेत्रीणां नामानि उद्घोषितानि । तस्यां सूच्यां तस्याः प्रप्रथमः क्रमाङ्कः वर्तते ।

भारतदेशे याः अभिनेत्र्यः सन्ति, तासु कैटरीना सुन्दरतमा अस्ति इति मान्यता अस्ति । पत्रकारिताक्षेत्रे तस्याः त्वचः, केशानाम्, शरीराकृतेः च बहुधा प्रशंसा भवति । गूगल-गवेषणेन एका साङ्ख्यिकी प्रकाशिता अस्ति, तस्याः साङ्ख्यक्याः अनुसारं कैटरीना भारतदेशे सर्वाधिकलोकप्रियेषु बॉलीवुड-अभिनेतॄषु अन्यतमा अस्ति । 'ऍफ् एच् एम्'-पत्रिका २००८, २००९, २०११, २०१२, २०१३ वर्षेषु "आविश्वं कमनीयतममहिला"-त्वेन (sexiest) उदघोषयत् । 'इस्टर्न आई'-इत्याख्या ब्रितानी-पत्रिका २००८ तः २०१२ पर्यन्तं सततं चत्वारि वर्षाणि "आविश्वं कमनीयतमजम्बूद्वीपीयमहिला"-त्वेन कैटरीना इत्यस्याः नाम्नः उद्घोषणाम् अकरोत् । सा प्रप्रथमा महिला अस्ति, यस्याः प्रतिकृतित्वेन बार्बी-इत्याख्यायाः पाञ्चालिकायाः (Doll) निर्माणं जातम् अस्ति ।

चलच्चित्राणां सूची

चिह्नम्
कैटरीना कैफ  एतत् चिह्नं दर्शयति यत्, अमुकचलच्चित्रं प्रकाशितं नाभवत् ।
वर्षम् चलच्चित्रम् चरित्रम् टिप्पणी
२००३ बूम रीना कैफ
२००४ मल्लीस्वारी राजकुमारी मल्लीस्वारी तेलुगुचलच्चित्रम्
२००५ मैंने प्यार क्यूँ किया सोनिया
२००५ अल्लरी पिदुगू श्वेता तेलुगुचलच्चित्रम्
२००५ बलराम बनाम तारादास सुप्रिया मलयालमचलच्चित्रम्
२००५ सरकार पूजा
२००६ हमको दीवाना कर गये जिया यशवर्धन
२००७ नमस्ते लंदन जसमीत सिंह
२००७ पार्टनर प्रिया जयसिंह
२००७ वैलकम सञ्जना
२००७ अपने नन्दिनी साराभाई
२००८ रेस सोफिया कैमियो
२००८ सिंह इज किङ्ग सोनिया सिंह
२००८ हैलो कथावाचक
२००८ युवराज अनुष्का बेण्टन
२००९ न्यू यॉर्क माया शेख
२००९ ब्लू निक्की कैमियो
२००९ अजब प्रेम की गजब कहानी जेनिफर "जेन्नी" पिण्टो
२००९ दे दना दन अञ्जलि कक्कड
२०१० राजनीति इन्दु सेकसरिया / प्रताप
२०१० तीसमार खां अन्या खान
२०११ जिन्दगी न मिलेगी दोबारा लैला
२०११ बॉडीगार्ड ख़ुद गीत "बॉडीगार्ड" इत्यस्मिन् विशेषोपस्थितिः
२०११ मेरे ब्रदर की दुल्हन डिम्पल दीक्षित मनोनीत-फिल्मफेयर-पुरस्कारं प्रापत्, सर्वश्रेष्ठाभिनेत्री
२०१२ अग्निपथ चिकनी चमेली गीत "चिकनी चमेली"-गीते विशेषोपस्थितिः
२०१२ एक था टाइगर जोया
२०१२ जब तक है जान मीरा थापर
२०१३ मैं कृष्णा हूँ राधा कैमियो
२०१३ बॉम्बे टॉकीज खुद कैमियो
२०१३ धूम 3 आलिया
२०१४ बैङ्ग बैङ्ग हरलीन साहनी
२०१५ फैण्टम कैटरीना कैफ  घोषणा न जाता फिल्माङ्कनम्
२०१५ जग्गा जासूस कैटरीना कैफ  घोषणा न जाता फिल्माङ्कनम्

चित्रवीथिका

कैटरीना कैफ कैटरीना कैफ कैटरीना कैफ कैटरीना कैफ कैटरीना कैफ कैटरीना कैफ कैटरीना कैफ कैटरीना कैफ  कैटरीना कैफ  कैटरीना कैफ  कैटरीना कैफ 

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

Tags:

कैटरीना कैफ प्रारम्भिकं जीवनं, पृष्ठभूमिश्चकैटरीना कैफ वृत्तिःकैटरीना कैफ व्यक्तिगतं जीवनम्कैटरीना कैफ कार्यक्रमेषु कैटरीनाकैटरीना कैफ समाचारेषु कैटरीनाकैटरीना कैफ चलच्चित्राणां सूचीकैटरीना कैफ चित्रवीथिकाकैटरीना कैफ सम्बद्धाः लेखाःकैटरीना कैफ बाह्यसम्पर्कतन्तुःकैटरीना कैफ उद्धरणम्कैटरीना कैफआङ्ग्लभाषाकैटरीना कैफ.oggभारतम्सञ्चिका:कैटरीना कैफ.oggहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

मम्मटःविदुरःबुधवासरःभरुचमण्डलम्रक्तम्विकिमीडियासूर्यःशर्करामानसिकस्वास्थ्यम्१०१५तुर्कीप्याजार्ज १भारतीयदर्शनशास्त्रम्तेनालीमहापरीक्षारास्याभगवद्गीता१८७३भाषाविज्ञानम्भारतीयसंस्कृतिःविरजादेवी (जाजपुरम्)मातृदिवसःअदेशकाले यद्दानम्...सुबन्धुःनवम्बर १९हठप्रदीपिकाकदलीफलम्संस्काराःजार्ज २इतिहासःमलागादौलतसिंह कोठारी१३७२विजयादशमीनन्दवंशःस्वामी विवेकानन्दःदक्षिणभारतहिन्दीप्रचारसभावेदान्तःसेम पित्रोडाभोजपुरी सिनेमासूत्रलक्षणम्मार्जालः२०१२भरद्वाजमहर्षिःयुद्धम्एनवेतालपञ्चविंशतिकानीतिशतकम्रामनवमीदिसम्बर५९३१४४७हनुमान बेनीवालप्रतिमानाटकम्२६ अप्रैलशर्मण्यदेशःविश्वनाथः (आलङ्कारिकः)इण्डोनेशियाशतपथब्राह्मणम्ट्सर्वपल्ली राधाकृष्णन्सम्प्रदानकारकम्भगीरथःहरीतकीचार्ल्स २संयुक्तराज्यानिअश्वघोषःमाघःराधारौद्रम् रणम् रुधिरम्🡆 More