लूयी पास्तग्

(कालः – २७.१२.१८२२ तः २८.०९.१८९५)

लूयी पास्तग्
लूयी पास्तग्
नाडरेण कल्पितम्
जननम् (१८२२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२७)२७, १८२२
Dole, France
मरणम् २८, १८९५(१८९५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-२८) (आयुः ७२)
Marnes-la-Coquette, France
देशीयता French
कार्यक्षेत्राणि Chemistry
Microbiology
संस्थाः University of Strasbourg
Lille University of Science and Technology
École Normale Supérieure
Pasteur Institute
मातृसंस्थाः École Normale Supérieure
Notable students Charles Friedel
प्रमुखाः प्रशस्तयः Rumford Medal (1856, 1892)
Copley Medal (1874)
Albert Medal (1882)
Leeuwenhoek Medal (1895)
हस्ताक्षरम्
लूयी पास्तग्


लूयी पास्तग्

अयं लूयी पास्तग् रोगनिरोधकक्रमस्य अन्वेषकः । अयं फ्रान्स्-देशस्य डूल् इति ग्रामे १८२२तमे वर्षे डिसेम्बरमासस्य २७तमे दिनाङ्के जन्म प्राप्नोत् । अस्य पिता चर्मकारः आसीत् । अत्यन्तं निर्धनः चेत् अपि लूयी पास्तग् अत्यन्तं कष्टेन विद्याभ्यासं कृत्वा रसायनशास्त्रे पाण्डित्यं सम्पादितवान् । पुत्रः कस्याञ्चित् प्रौढशालायाम् अध्यापकः भवेत् इति तस्य पितुः इच्छा आसीत् । लूयी पास्तग् पञ्चविंशतितमे वयसि डाक्टरेट् प्राप्य डैजान् इत्यत्र शिक्षकपदं प्राप्नोत् । तस्य कार्यनिष्ठतायाः, संशोधनस्य फलरूपेण बहुशीघ्रं स्ट्रास्बरोविश्वविद्यालये उद्योगं प्राप्नोत् । तदनन्तरं ३० वर्षाणि यावत् बहूनि अत्यद्भुतानि संशोधनानि अकरोत् । लघु वयसि एव लूयी पास्तग् बहूनि संशोधनानि यशस्वितया कृत्वा सर्वकारस्य दृष्ट्या अपि आदरं प्राप्नोत् ।

लूयी पास्तग्
"डूल्"ग्रामे विद्यमानं लूयी पास्तग् यत्र जन्म प्राप्नोत् तत् गृहम्

अयं लूयी पास्तग् रसायनविज्ञानसम्बद्धं स्फटिकस्य ध्रुवणं परीक्ष्य तत्र द्विविधं स्फटिकं संशोधितवान् । तस्मात् कारणात् सावयवानां रासायनिकानां संरचनायाः अध्ययनस्य साहाय्यम् अभवत् । बीट्रूट्शर्करया निर्मीयमाणं मद्यं तदा तदा नष्टं भवति स्म । अयं लूयी पास्तग् तत् परीक्ष्य तस्य नाशार्थम् “ईस्ट्” इत्याख्याः सूक्ष्माणुजीविनः एव कारणम् इति सूक्ष्मदर्शकस्य साहाय्येन संशोधितवान् । १२० डिग्रि फ्यारन् हीट् इत्याख्ये औष्ण्ये मन्दं मद्यम् उष्णीकृतं चेत् तस्य नाशकाः ईस्ट्सूक्ष्मजीविनः मरणं प्राप्नुवन्ति इत्यपि संशोधनेन ज्ञातवान् । तथा उष्णीकरस्य क्रमस्य “पास्तगैसेषन्” इति नामकरणम् अपि अकरोत् लूयी पास्तग् । तम् एव क्रमम् इदानीं क्षीरस्य उष्णीकरणे अनुसरन्ति ।

एतं लूयी पास्तग् इत्यनेन संशोधितं “पास्तगैसेषन्” क्रमं जोसेफ् लिस्टर् नामकः आङ्लविज्ञानी वैद्यविज्ञाने उपयुक्तवान् । कार्बालिका-आम्लसदृशैः पूतिनाशकैः क्षालनेन वातावरणे विद्यमानाः क्रिमयः व्रणं यत् प्रविशन्ति तत् निवारयितुं शक्यते इत्यपि सः अदर्शयत् । ईस्ट्-सूक्ष्माणुजीविनां परीक्षणानन्तरं लूयी पास्तग् ब्याक्टीरियासदृशाणां सूक्ष्मजीविनां विषये विस्तृतरूपेण अध्ययनम् अकरोत् । लूयी पास्तग् १८६५तमे वर्षे फ्रान्स् गत्वा रोगकारणां ब्याक्टीरियाणां मारणपद्धतिं पाठितवान् । आरोग्यकरेभ्यः अण्डेभ्यः अनारोग्यकराणि अण्डानि पृथक् करणक्रमं बोधयित्वा कौशेयस्य उद्यमं रक्षितवान् । तदनन्तरं तस्य अभिरुचिः साङ्क्रामिकरोगाणां विषये उत्पन्ना । सः १८८०तमे वर्षे कुक्कुटानां कालरारोगस्य कारणीभूतान् ब्याक्टीरियान् संशोधितवान् । दुर्बलान् रोगाणून् आरोग्यमतेषु कक्कुटेषु प्रवाह्य तेषां कुक्कुटानां रोगनिरोधकशक्तेः जागरणम् अकरोत् । तस्मात् कुक्कुटाः तस्मात् कालरारोगात् रक्षिताः अभवन् । एतम् एव क्रमम् अजान्, गोवृषभान् च अन्थ्राक्स्-रोगात् रक्षणाय अनुसृतवान् ।

लूयी पास्तग् यदा बालकः आसीत् तदा तस्य ग्रामे अष्टाधिकाः जनाः उन्मत्तस्य शुनकस्य दशनेन प्राणवियुक्ताः आसन् । तान् समीपात् दृष्टवतः लूयी पास्तग् इत्यस्य मनसि तदर्थं किमपि औषधं संशोधनीयम् इति इच्छा प्रबलरूपेण उत्पन्ना आसीत् । तदर्थं सः सहस्रशः प्रयोगान् अकरोत् । केचन प्रयोगाः तु अपायकराः आसन् । दुर्बलीकृतं विषं (वैरस्) अरोगवतां शुनकानां शरीरे प्रवेश्य तेषां रोगनिरोधशक्तेः वर्धनं दृष्टवान् आसीत् । तम् एव प्रयोगं प्रथमवारं मानवानां विषये कृतवान् । सः कस्यचित् बालकस्य शरीरे तत् दुर्बलीकृतं विषं प्रावेशयत् । दश दिनानि यावत् क्रमशः दुर्बलतः किञ्चित् किञ्चित् प्रबलं विषं बालकस्य शरीरे प्रावेशयत् । आश्चर्यं नाम बालकः मरणं न प्राप्तवान् । अनेन प्रयोगेण उन्मत्तानां शुनकानां दशनस्य निमित्तम् औषधस्य संशोधनम् अकरोत् । एतत् एव तस्य लूयी पास्तग् इत्यस्य प्रमुखं संशोधनम् इति मन्यते ।

अनेन लूयी पास्तग् इत्यनेन प्राणिनां मानवानां च विषये ये प्रयोगाः कृताः ते सर्वे अपि अस्मासु आश्चर्यं जनयन्ति । यतः सः यद्यपि वैद्यः नासीत् तथापि तेन आविष्कृतानि तत्त्वानि अग्रे वैद्यकीये क्षेत्रे महतीं क्रान्तिम् एव अजनयन् । पार्श्ववायुरोगेण अङ्गविकलः चेदपि, ज्येष्ठः पुत्रः मृतः चेदपि सः लूयी पास्तग् स्वकार्यात् विमुखः नाभवत् । ७३ वर्षाणि यावत् जीवितवान् एषः लूयी पास्तग् १८९५तमे वर्षे सप्टेम्बर्-मासस्य २८तमे दिनाङ्के निद्रावसरे एव इहकोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अष्टाङ्गयोगःसंयुक्तराज्यानिउपवेदःमनुष्यःपञ्चमहायज्ञाःशूद्रःआस्ट्रियास्त्रीआर्मीनियाकुष्ठरोगःईराननैगमकाण्डम्भारतीयजनतापक्षःईथ्योपियादशरूपकम् (ग्रन्थः)सुभाषितरत्नभाण्डागारम्कोरियालिभाषाकर्मण्येवाधिकारस्ते...सायणःगुरुमुखीलिपिः१७७४द्विचक्रिकाडा जे जे चिनायभूटानलातूरमनः१० अप्रैलकेन्द्रीयविद्यालयसङ्घटनम् (KVS)१२५५तेलुगुभाषाशृङ्गाररसःमोहम्मद रफीसाहित्यदर्पणःमय्यावेश्य मनो ये मां...स्वराः (सङ्गीतम्)त्वमेव माता च पिता त्वमेव इतिफारसीभाषाअध्यापकःमुण्डकोपनिषत्राहुल गान्धीधारणास्त्रीपर्वअङ्गोलाधूमलःदैवतकाण्डम्पुरुषःझांसी लक्ष्मीबाईशीतकम्नैघण्टुककाण्डम्मानवपेशी१२४५अश्वमेधपर्वमोनाकोब्राह्मीलिपिःद्वन्द्वसमासःकालिफोर्नियाप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)२२ अगस्तवराङ्गम्नैषधीयचरितम्मार्टिन स्कोर्सेसेस्प्रिंग्फील्ड्पाकिस्थानम्नोकियाविष्णुपुराणम्पिकःतरुःचैतन्यः महाप्रभुःनमीबियाद्रौपदी मुर्मूकालिदासस्य उपमाप्रसक्तिःसचिन तेण्डुलकरसऊदी अरब🡆 More