प्लूटो-ग्रहः

प्लूटो (चिह्नम्: च) कश्चन ग्रहः। प्लूटो नामकः अयं ग्रहः हिन्दूचिन्तने यमः इति निर्दिश्यते । अयं ग्रहः १९३० तमे वर्षे क्लैड् टाम्बाग् अन्विष्टवान् । सौरकुटुम्बे नवमः ग्रहः इति निर्दिश्यते। अस्य ग्रहस्य विस्तारः १८०० मैल्-परिमितः । अस्य ग्रहस्य खारोन्नामकः उपग्रहः अस्ति । स्वस्य परिभ्रमणाय अयं ग्रहः ९ घण्टाधिक ६ दिनानि स्वीकरोति । सूर्यं परितः भ्रमणाय २४७.७ वर्षाणि स्वीकरोति । लोवेल्ल १९१५ तमे संवत्सरे नूतनग्रहाणाम् अन्वेषणाय अपेक्षितं गणितं कृतवान्। क्लिष्टानि नूतनसूत्राणि अनेन अर्पितानि। अज्ञातग्रहाय एक्स्(x)इति नामस्थापनमकरोत्। अस्य अन्वेषणे मग्नाः इति। एतदर्थमेव एकं दूरदर्शकं निर्मितवन्तः। लोवेल्ल वीक्षणालयस्थाः अस्य आशयं पूरितवन्तः। १९३० तमे संवत्सरे जनेवरि मासस्य २१,२३,२९ तथा फेब्बर्वरि मासस्य १९ तमे दिनेषु पूरितवन्तः। अस्यैव वीक्षणालयस्थाः स्वीकृतेषु छायाचित्रेषु नूतनं ग्रहमेकं दृष्टवन्तः। एते यदा अस्य पथस्य अनुसरणं कृतवन्तः,तदा अयं ग्रहः पर्सिपेल् लोवेल्लेन सूचितेन मार्गेण एव परिक्रमति इति ज्ञातवन्तः। अस्मै एव यमः(प्लोटो)इति नामकरणमकरोत् । अस्य संशोधनानन्तरं पूर्वतनछायाचित्राणां परिशीलनेन एवम् अस्यैव ग्रहस्य बिम्बः तत्रापि अस्ति इति हेतोः, अस्य पथस्य निष्कर्षस्य कार्यं सुलभतरं जातम्। आकाशे प्रत्येकस्मिन् अङ्गुले विद्यमानानां प्रकाशसहितानां नक्षत्राणां शोधनम् उत नामकरणकार्यं असाध्यकरकार्ये भवतः। तेषां छायाचित्राणि भवन्ति चेत्, ईदृश संशोधनकार्याणि सूलभकार्याणि भवन्ति इति अस्याः घटनायाः अनन्तरं ज्ञातं भवति। लोवेल् १९१६ तमे संवत्सरे दिवङ्गतः। किन्तु अस्य मरणकालात् एकसंवत्सरात् पूर्वमेव अस्यैव शिष्यः क्लैव टाम्बागाय प्रथमवारं दृष्टिगोचरः सञ्जातः यमग्रहः(प्लोटो) इति। लोवेलेन सूचितस्थलास्य ६ डिग्रि समीपे दृष्टिगोचरः सञ्जातः। एरिजोनायां विद्यमानाः लोवेल् वीक्षणालयस्थाः १९३० तमे संवत्सरीय मार्च मासस्य १३ दिनाङ्के अमुं विषयं लोकाय दर्शितवन्तः। शैत्यकाले अयं ग्रहः मिथुनराशौ नक्षत्रपरिमाणे दृश्यते। क्रमशः सम्भूयमानस्य प्रकाशस्य व्यत्यासान् परिशील्य एवम् अतिसूक्ष्म छायाचित्राणि परिशील्य च १९७८ तमे संवत्सरे अमेरिकादेशस्य जेम्स् क्रिस्ट्मि (प्लोटो)यमस्य विद्यमान एकैक शारण्नामकम् उपग्रहं संशोधितवान्।

प्लूटो-ग्रहः
प्लूटोग्रहः (यमः) प्लूटो-ग्रहः

पथः, गात्राम्

भूमेरर्धं अस्य व्यासोऽस्ति। सूर्याय एकवारं परिक्रमणार्थम् अस्मै २४८ वर्षाणि अपेक्षन्ते । सूर्यात् बहुदूरे अयमस्तीति एतावान् कालः अपेक्षते । एवं दीर्घपथस्यापि कारणत्वम् अस्त्यत्र। अस्य वेगः प्रतिक्षणं ३ कि.मि. भवति। अस्य विदूरं ४,६५० मिलीय मैलुपरिमितम्। अदूरं ३,५०० कि.मि. परिमितम् अस्ति। पथस्य अग्रभागः वरुणस्य पथे प्रविश्य सरति। अस्य पथः वरुणपथाय १७ डिग्रि अभिनतः अस्ति । यमग्रहः(प्लोटो) भूमेः इव घनगोलः भवति। सूर्यात् बहुदूरे अस्तीति अस्मै प्राप्तिप्रकाशः प्रायः अस्माकं मासानां प्रकाशपरिमितः दुर्बलप्रकाशः स्यात्। अत्र शाखप्रकाशौ न्यूनौ भवतः। भूम्यै प्राप्तिसूर्यरश्मेः १\१५०० भागः अस्मै लभ्येत। यमस्यापेक्षया बहिः अन्यग्रहाः सन्ति वा? इति चेत्, प्रो.पिकरिङ्ग् (१८४६-१९१९) सदृशाः खगोलज्ञाः अन्यग्रहाः सन्ति बहिः इति ऊहितवन्तः।

बाह्यानुबन्धाः

Tags:

उत्तर-अमेरिकाखण्डःनक्षत्रम्मार्चयमःसूर्यः

🔥 Trending searches on Wiki संस्कृतम्:

जिनीवाशशि तरूर्कालिदासःसिलवासाकवकम्नवग्रहाःदिसम्बररास्याबौद्धधर्मः१२५९संयुक्ताधिराज्यम्१२२०नवम्बरजार्जिया (देशः)अधिवर्षम्पक्षिणःनवम्बर १६द्विचक्रिकाजैमिनिः१२१९आब्रह्मभुवनाल्लोकाः...यास्कःमहाकाव्यम्१८७३सिंहः पशुःमोक्षसंन्यासयोगःसाङ्ख्यदर्शनम्कुण्डलिनी (मुद्रा)संस्काराः८५९पुष्पाणिभारतस्य इतिहासःआस्ट्रियाइराक्किलोग्राम्भीष्मःथाईभाषाअनुसन्धानस्य प्रकाराःभीमराव रामजी आंबेडकरप्रकरणम् (रूपकम्)मध्यमव्यायोगःउत्तररामचरितसुबन्धुःफरवरी १२अगस्त २०राजविद्या राजगुह्यं...मिकी माउसगीतगोविन्दम्अधर्मं धर्ममिति या...मातापरित्राणाय साधूनां...अनुबन्धचतुष्टयम्सर्वपल्ली राधाकृष्णन्फ्रान्सदेशःसुन्दरसीकाव्यभेदाःअथ योगानुशासनम् (योगसूत्रम्)उत्तररामचरितम्नवम्बर १७२६ जुलाईसितम्बर ५बेट्मिन्टन्-क्रीडाकजाखस्थानम्संस्कृतभारतीजहाङ्गीरदर्शनानिबुद्धजयन्तीमानवसञ्चारतन्त्रम्मुख्यपृष्ठम्संयुक्तराज्यानिचिन्तासंस्कृतसाहित्यशास्त्रम्🡆 More