अस्य मन्वन्तरस्य सप्तर्षिषु अन्यतमः अयम् ऋषिः । अयं ब्रह्ममानसपुत्रः । कर्दमस्य पुत्री अनसूया अस्य पत्नी । अनयोः पुत्राः दत्तात्रेयः, दुर्वासमुनिः, चन्द्रः च । (आधारः - महाभारतम् - आदि ६६, सभा ११, मत्स्य १४४) । अस्य चन्द्रः आर्यमः इति उभौ पुत्रौ (शान्ति २०७) । अस्य नेत्रेण एव चन्द्रः अजायत । (भागवतम् ९ १४) । अस्य शत्रुञ्जयः विपाठः इत्यादयः पुत्राः । असुराः अत्रिं शतद्वारयुक्ते तुषाग्नौ अस्थापयन् । तदा अत्रिः अश्विनीदेवताः संस्तुतवान् । ताः प्रत्यक्षीभूय जलेन अग्निम् उपशम्य अत्रिम् अरक्षन् । ध्रुवस्य पितरम् उत्तानपादम् अत्रिः दत्तकरूपेण स्व्यकरोत् । बुधः अत्रिगोत्रीयः ।
अत्रिः | |
---|---|
भार्या(ः)/भर्ता | अनसूया |
परम्पराः |
तत्त्वज्ञानिनः |
अन्यविषयाः |
प्रवेशद्वारम्:सनातनधर्मः |
This article uses material from the Wikipedia संस्कृतम् article अत्रिः, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.