वराहमिहिरः

वराहमिहिरः कश्चित् भारतीय: ज्योतिषी गणितशास्त्रज्ञ: च आसीत्। एषः उज्जयिनीनगरे राज्ञ: विक्रमादित्यस्य अस्थाने आसीत् । सिद्धान्तः संहिता होरा चेति ज्योतिश्शास्त्रस्य त्रयः विभागाः । वराहमिहिरः एतान् त्रीन् भागान् अपि अधिकृत्य ग्रन्थान् विलिख्य ख्यातः अस्ति । एषः क्रि.श.

६ शतके आसीत् इति परिगण्यते । विक्रमादित्यस्य आस्थाने स्थितेषु नवसु रत्नेषु अन्यतमः आसीत् एषः इत्यपि प्रतिपादयन्ति केचन । एषः अवन्तिनिवासी आसीत् , आदित्यदासः एतस्य पिता आसीत् इति च ज्ञायते । पञ्चसिद्धान्तिका, लघुसंहिता, वाराहीसंहिता, बृहज्जातकम् इत्येते ग्रन्थाः एतेन रचिताः सन्ति । होराशास्त्रे जातकशास्त्रे वा बृहज्जातकं ग्रन्थं सुप्रसिद्धं अस्ति । बृहज्जातके जातकस्य जन्मकालिकस्थ ग्रहवशात् तस्य जीवनस्य शुभाशुभं फलं वक्तुं सक्यते । बराहमिहिर पश्चात् य: विद्वांस: होराशास्त्रं रचितवान्, तेन प्रायेण वराहमिहिर ग्रन्थं दृष्ट्वा अहं ग्रन्थं रचयामिति उल्लेखं प्राप्यते, इत्यनेन होराशास्त्रे बृहज्जातकस्य वैशिष्ट्यं सिद्धयति । संहिताग्रन्थे बृहत्संहिता सुप्रसिद्धम् । बृहत्संहितायां ४००० श्लोकाः, १०० अध्यायाः च सन्ति । ज्योतिषिकलक्षणम्, नक्षत्रव्यूहः, वृष्टिः, वास्तुविद्या, अश्वलक्षणं, वज्रपरीक्षा, पाकाध्यायः इत्यादयः, बहवः विषयाः निरुपिताः सन्ति अत्र । अतः एषः ग्रन्थः ‘लघुविश्वकोषः’ इत्येव परिगण्यते । पूर्वकृतीनाम् आधारेण ग्रन्थं रचितवान् एषः तत्र तत्र आधारग्रन्थान् अपि उल्लिखति ।

पञ्चसिद्धान्तिकाग्रन्थे एतस्मात् पूर्वकालिकस्य भारतीयज्यौतिषस्य विषयाः सङ्गृहीताः । अत्र ग्रहाणां चलनस्य, अक्षांश- रेखांशयोः विषयस्य च निरुपणं विद्यते । ग्रन्थेऽस्मिन् रोमन्खगोलविज्ञानसम्बद्धः रोमकसिद्धान्तः, अलेग्साण्ड्रियादेशस्थपाल्महोदयेन निरुपितः पौलिशसिद्धान्तश्च अस्ति । जर्मनपण्डितः डा. थीबोमहोदयः ऐदम्प्राथम्येन ग्रन्थस्यास्य सम्पादनं कृत्वा क्रि.श. १८५७ (सप्तपञ्चाशदधिक- अष्टादशशततमे) वर्षे प्राकटयत् ।

वराहमिहिरस्य असाधारणं बुद्धिकौशलं भारतीयैः पाश्चात्त्यैश्च सर्वदा स्मर्यते । एतेन प्रतिपादिताः विषयाः अद्यापि विज्ञानक्षेत्रे बहूपकारकाः संशोधनयोग्याश्च सन्ति ।

Tags:

गणितम्ज्योतिषशास्त्रम्बृहत्संहिताभारतम्वास्तुशास्त्रम्विक्रमादित्यःसंहिता(ज्योतिषम्)सिद्धान्तःहोरा

🔥 Trending searches on Wiki संस्कृतम्:

वेणीसंहारम्दृष्ट्वा तु पाण्डवानीकं...कवकम्चङ्गेझ खानअव्ययीभावसमासःहल्द्वानीभारतीयदार्शनिकाःअर्थःसायणः२६ अप्रैलवेदाङ्गम्वस्तुसेवयोः करः (भारतम्)द्राक्षाफलम्वायुमण्डलम्नाहं वेदैर्न तपसा...भारतीयसंस्कृतिःचातुर्वर्ण्यं मया सृष्टं...जून ८स्मन्दाक्रान्ताछन्दः१२५९२४८हर्षवर्धनःछन्दःअण्टार्क्टिकापितारास्यामैक्रोनीशियाअर्थशास्त्रम् (ग्रन्थः)ट्इण्डोनेशियासितम्बर १३उत्तराभाद्राडचभाषासंस्कृतम्१२१९विकिपीडियाज्यायसी चेत्कर्मणस्ते...मलागाजेम्स ७ (स्काटलैंड)वर्षःमालविकाग्निमित्रम्जया किशोरीसितम्बर ५चतुर्थी विभक्तिः४५३मगधःराजविद्या राजगुह्यं...८८६मुन्नार्मानसिकस्वास्थ्यम्शेख् हसीनासिलिकनकैवल्य-उपनिषत्नारिकेलम्चेदीसंस्कृतवर्णमालाअदेशकाले यद्दानम्...द्यावापृथिव्योरिदम् - 11.20मल्लक्रीडाजातीप्रातिशाख्यम्प्रथम कुमारगुप्तःनरेन्द्र सिंह नेगीजलमालिन्यम्श्रीहर्षःकदलीफलम्🡆 More