वास्तुशास्त्रम्

हिन्दुधर्मः • इतिहासः

वास्तुशास्त्रम्हिन्दुधर्मः

वास्तुशास्त्रम्Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

वास्तुविज्ञानं सर्वकालोपयोगि

सहस्रसहस्रवर्षेभ्यः प्राक्तनाः देवालयाः राजमन्दिराणि गृहाणि चास्मिन् भारते देशे बहोः कालादविनष्टा एव विलसन्तीत्यानुभविकम् । न चैतद् यादृच्छिकं भवतुमर्हति । अत्र वास्तुतत्त्वशास्त्रानुसारेण निबध्दानि गृहाणि देवालयाश्च भूकम्पादावप्रणष्टाः वास्तुविज्ञानस्य सार्वकालिकतामावेदयन्ति । वास्तुशास्त्रमवश्याध्येयं, विज्ञेयं च सर्वैरपि । वास्तुशास्त्रग्रन्थाः सन्त्यनेकेऽस्मिन् देशे । अत्र तु प्राधान्येन सनत्कुमारप्रणीतगृहवास्तुग्रन्थमवलम्ब्य विशयवैमर्शः कृतः ।

गृहनिर्माणप्रशस्ताः मासाः

चैत्रमासे गृहनिर्माणे द्रव्यनाशः भयं च । वैशाखे शुभम् । ज्येष्ठे मृतिः । आषाढे पशुनाशः । श्रावणे पुत्रर्ध्दिः । भाद्रपदे पुत्रादीनां रोगभीः । आश्वयुजे कलहः । कार्तिके द्रव्यलाभः । मार्गशीर्षे भयम् । पुष्ये अग्निदाहः । माघे सन्ततिवृध्दिः । फाल्गुने रत्नलाभः । तदुक्तम् –

गृहसंस्थापनं चैत्रे धनहानिर्महाभयम् ।

वैशाखे शुभदं विद्यात् ज्येष्ठे तु मरणं ध्रुवम् ॥

आषाढे गोकुलं हन्ति श्रावणे पुत्रवर्धनम् ।

प्रजारोगं भाद्रपदे कलहो अश्चयुजे तथा ॥

कार्तिके धनलाभः स्यात् मार्गशीर्षे महाभयम् ।

पुष्ये चाग्निभयं विद्यात् माघे तु बहुपुत्रवान् ।

फाल्गुने रत्नलाभः स्यात् मासानां च शुभाशुभम् ॥

गृहनिर्माणं शुभवासरे कार्यम्

न यस्मिन् कस्मिन् वासरे गृहनिर्माणं कर्तव्यम्, अपि तु प्रशस्त एव । तथा हि- भानुवासरे गृहारम्भे अह्निदाहः शुक्लपक्षे सोमवासरे गृहारम्भे वृध्दिः । कृष्णपक्षे सोमवासरे कलहः नाशश्च । कुजवासरे तदंशे, तल्लग्ने स्तम्भप्रतिष्ठादिकरणे गृहदाहः यजमानस्य मृतिश्च । बुधवासरे ऎश्वर्यवृध्दिः । गुरुवासरे सवार्थसिध्दिः । शुक्रे बहुसुखम् । मन्दवासरे चोरभयम् । तस्मात् विहितदिने विहितवासर एव गृहारम्भः कार्यः । तदुक्तम् –

भानुवारे कृतं वेश्म वह्निना दह्यते चिरात् ।

चान्द्रे च वर्धते शुक्ले क्षीयते कृष्णपक्षके ॥

भौमवासरे तदंशे वा तल्लग्ने सप्तमेऽपि वा ।

दह्यते (तद् गृहं) शून्यं कर्तुर्मरणमेव च ॥

बुधवारे धनैश्वर्यं सुखपुत्रसमन्वितम् ।

भृत्यवाहनधान्यानि धनान्याङ्गिरसे दिने ॥

भृगुवारे चिरं तिष्ठेत् कर्ता च सुखसम्पदा ।

चिरं तिष्ठेन्मन्दवारे तस्कराणां भयावहः ॥

योग्यनक्षत्राणि

मृगशीर्षक- हस्ता –रेवती-चित्ता अनुराधा –उत्तराषाढा – उत्तराभाद्रा –श्रवण पुनर्वसु –शतभिषा- धनिष्ठा –अश्विनीनक्षत्राणि गृहारम्भाय सुखदानि च । तदुक्तम्

वास्तुपुरुषपूजा

शैववैष्णवतन्त्रागमग्रन्थेषु वास्तुपुरुषकथा भिन्नैव श्रूयते । वैष्णवतन्त्ररीत्या वास्तुर्वराहरुपिणो हरेः सुतः । देवतैः भूमौ पातितः । चतुरस्राकृतिः स्थितश्च । तदुपरि ब्रह्मादयः देवाः सन्निहिताः । तान् यथाविधि सम्पूज्य गृहादि निर्मेयम् । तदुक्तम् –

पूजयेद् वास्तुपुरुषस्योपरिस्थांस्तु सर्वदा ।

देवान् ब्रह्मादिकान् वास्तुर्वराहस्य हरेः सुतः ।

पातितो देवतैर्भूमौ चतुरस्राकृतिः स्थितः ॥

शैवग्रन्थेष्वन्यैव कथा श्रूयते – अन्धकासुरसंहारे क्रुध्दस्य शूलिनः स्वेदबिन्दुः भूमौ पतितः । स्वेदबिन्दुरेव द्यावापृथिवीमभिव्याप्य वास्तुपुरुषरुपेणोदतिष्ठत् सर्वभयङ्करः । ततश्च देवतैर्भूमौ पातितः । मन्दिरादिनिर्माणकाले तत्पूजनाय वरश्च देवैः प्रदत्तः । तदुक्तम् –

सङ्ग्रामेऽन्धकरुद्रयोश्च पतितः स्वेदो महेशात् क्षितौ

तस्माद् भूटमभूच्च भीतिजननं द्यावापृथिव्योर्महत् ।

तद्देवैः सहसा निगृह्य भूमावधोवक्तृकं

देवानां वचनाच्च वास्तुपुरुषस्तेनैव पूज्यो बुधैः ॥ इति

गृहनिर्माणक्रमः

भूपरीक्षां कृत्वा सार्धपुंमानतस्त्वधः भुवं संशोध्य लोष्टाश्मास्थिविवर्जिते देशे गृहं निर्मेयम् । पूर्वस्यां दिशि स्नानगृहं कार्यम् । आग्नेये पाकशाला विधेया । दक्षिणस्यां दिशि स्वापशाला । नैऋत्यां दिशि आयुधशाला । पश्चिमे भोजनशाला । वायव्ये पशुशाला । उत्तरस्यां दिशि द्रव्यनिक्षेपगृहं कार्यम् । ईशान्ये देवमन्दिरम् । तदुक्तम् –

स्नानागारं दिशि प्राच्याम् आग्नेय्यां पचनालयम् ।

दक्षिणे शयनागारं नैऋत्यां शस्त्रमन्दिरम् ॥

पश्चिमे भोजनागारं वायव्ये पशुमन्दिरम् ।

भण्डारं चोत्तरस्यां तु ईशान्यां देवमन्दिरम् ॥

उक्तं चान्यत्र –

स्नाताम्मि पाकशयनास्रभुजेश्च

धान्यभाण्डारदैवतगृहाणि च पूर्वतः स्युः ।

तन्मध्यतोऽथ मथनाज्यपुरीष-

विद्याभ्यासाख्यरोदनरतौषधसर्वधाम ॥

वापीकूपतटाकनिर्माणम्

कूपादिनिर्माणं उत्तरस्यां पूर्वपश्चिमदिशि च प्रशस्तम् । द्वारहीनो जलाशयः कूपशब्देन व्यपदिश्यते । द्वारेणैकेन भूषितः वापिसंज्ञकः । अनेकद्वारविशिष्टा पुष्कलजलाधारा पुष्करिणीत्युच्यते । तदुक्तम् –

द्वारहीनौ भवेत्कूपः द्वारेणैकैन वापिका ।

नैकद्वारा पुष्करिणी दीर्घाकारा तु दीर्धिका ।

कुल्या विधूततोयाश्च तटाकाः परिकीर्तिताः ॥

कूपादिनिर्माणम् आग्नेय नैऋत्य-वायव्यदिशि परित्याज्यम् । उत्तर –पूर्व –पश्चिमदिशि शस्तम् । तदुक्तं वराहमिहिरेण

आग्नेये यदि कोणे ग्रामस्य गृहस्य वा भवति कूपः ।

नित्यं करोति दाहं जलमपि तत्रैव चञ्चलप्रायम् ।

नैऋते कोणे बालक्षयं च वनिताक्षयं वायव्ये ।

दिक्त्रयमेतत्त्यक्त्वा शेषास्तु शुभावहाः प्रोक्ताः ॥ इति

एवं अन्यत्र च –

स्नानाग्निस्वपिवभोजनपशुद्रव्यामरोकस्थितिं

पूर्वादौ जलमीशितुर्दिशि परं वायोरपाङ्मूत्रकम् ।

आल्पे शक्तिभुवो यथारुचि परे गेहस्य दक्षे घट-

द्दाम्बूलूखलचुल्लिकापितृपदप्रक्षालनान्यूचिरे ॥

गृहलक्षणम्

भूपरीक्षां कृत्वा सार्धपुंमानतस्त्वधः भुवं संशोध्य शुचिप्रदेशे गृहादिकं निर्मेयम् । सनत्कुमारवास्तुशास्त्रोक्तदिशा वक्ष्यमाणक्रमानुरोधेन गृहं निर्मेयं भवति ।

बाह्यसम्पर्कतन्तुः

टिप्पणी

Tags:

वास्तुशास्त्रम् वास्तुविज्ञानं सर्वकालोपयोगिवास्तुशास्त्रम् गृहनिर्माणप्रशस्ताः मासाःवास्तुशास्त्रम् गृहनिर्माणं शुभवासरे कार्यम्वास्तुशास्त्रम् योग्यनक्षत्राणिवास्तुशास्त्रम् वास्तुपुरुषपूजावास्तुशास्त्रम् गृहनिर्माणक्रमःवास्तुशास्त्रम् वापीकूपतटाकनिर्माणम्वास्तुशास्त्रम् गृहलक्षणम्वास्तुशास्त्रम् बाह्यसम्पर्कतन्तुःवास्तुशास्त्रम् टिप्पणीवास्तुशास्त्रम्इतिहासःहिन्दुधर्मः

🔥 Trending searches on Wiki संस्कृतम्:

११३२९२३१३२९ दिसम्बर२८ जुलाई१४८४जुलाई १६तुर्कमेनिस्थानम्नवम्बर १३नवम्बर ११बाणभट्टःअमरकोशः२७ मार्च८५२२९ नवम्बरदिसम्बर १७१५९विद्याअक्तूबर २१२०८फरवरी १७नैजीरियादिसम्बर ११७०४मई २४१२०रवा१६४१देवनागरी६५८पुनर्नवाखलुरामःजून ३०अप्रैल २०१०९३व्लादिमीर पुतिन२ अप्रैल१७४५अक्तूबर ३१जून २५टंजानिया५७८मार्च २७निरुक्तम्सितम्बर २२मार्च २३३६४४७८मीराबाई१८ जनवरी६५४रामायणम्जून २३सङ्गीतम्९ अप्रैल२१ मईमारिषस्अक्तूबर १७जुलाई ६भट्टिःजुलाई ८स्वामी विवेकानन्दःअक्तूबर ५७६११३०जनवरी ६१०८अगस्त ३०१ जूनलातूरअक्तूबर ३०नवम्बर १८१२७१११७नवम्बर २६🡆 More