जलमालिन्यं (water pollution) प्रमुखेषु परिसरमालिन्येषु अन्यतमं विद्यते । सरोवराः, नद्यः, समुद्राः इत्यादिषु अनपेक्षितानां वस्तूनां संयोगेन जलमालिन्यं भविष्यति ।
अस्मिन् दशके अस्माकं भूमण्डलस्य परिसरस्य प्रदूषणं विषयीकृत्य सर्वेषु राष्ट्रेषु बहुभिः नेतृभिः प्राज्ञैः वैज्ञानिकैः पौरजनैः विशेषेण चर्चा प्रचालिता । परिसरस्य प्रदूषणं विविच्य विविधया दृष्ट्या एते प्रविभागाः प्रवृत्ताः - जलमालिन्यं, वायुमालिन्यं, शब्दमालिन्यं, भूमालिन्यम्, आम्लवर्षणम् इत्यादयः । सर्वस्यापि भूमण्डलस्य परिसरस्तावत् एक एव । सः पुनः निर्मातुं न शक्यते । अतः परिसररक्षणे एव यत्नः सर्वैः विधेयः ।
वैज्ञानिकानाम् अभिप्रायेण जलम् इति द्रवरूपः पदार्थः आम्लजनक-जलजनकयोः संयोगेन सम्भवति ।
भूतलस्य प्रायः प्रतिशतं सप्ततिभागः जलेनैव आवृतः । भूतले विद्यमानस्य जलस्य प्रतिशतं नवतिभागः समुद्रेषु एव दृश्यते । मानवशरीरेऽपि प्रतिशतं षष्टिभागः जलेनैव पूरितः । जलेन विना मानवानां जीवनम् अतीव दुष्करं भवति ।
पृथिव्यां विद्यमानस्य जलस्य मूलानि वर्षा, हिमः, नद्यः, सरितः, पल्वलानि, भूमावन्तर्गतं जलम् इत्येतानि भवन्ति ।
पृथिव्यामुपलभ्यमानस्य जलस्य द्विप्रतिशतभागस्य अपेक्षया न्यूनमेव प्राणिनां मनुष्याणां च जीवनोपयोगाय योग्यं भवति ।
जले यदा अनपेक्षितानि हानिकारकाणि विषयुक्तानि रासायनिकवस्तूनि, आम्लानि, तैलादीनि विलीयन्ते, तदा तादृशं जलं जीविनां प्राणधारणाय योग्यं न भवति । इदं जलमालिन्यम् इत्युच्यते ।
जलमालिन्यस्य एतानि प्रमुखानि कारणानि -पेट्रोलियम् तैलम्, डि.डि.टि इत्यादयः कीटनाशकाः, पि.सि.बि (पालि क्लोरिनेटड् बैफीनैल्) रासायनिकाः कीटनाशकाः, पारदः, क्याङ्मियम् आर्सैनिक् इत्यादिलोहाः, अणुशक्तिकारागारेभ्यः निसृतानि अनुपयोगीनि वस्तूनि नगरेभ्यः बहिः निष्कासितानि फेनकानि, तत्र प्रमुखानि । एवं विविधानि रासायनिकानि जलमालिन्यं कुर्वन्ति । जलजन्तूनां प्राणधरणाय जले वीलीनः आम्लजनकः अत्यावश्यकः । एतानि लवणानि जले विलीनं भूय आम्लजनकानिलं दुर्बलं कुर्वन्ति । एवं तस्मिन् मलिने जले जलजन्तवः जीवितुम् अशक्ताः भवन्ति म्रियन्ते च ।
जलं बहूनां लवणानां द्रावकम् । यदा जले विषयुक्तानि लवणानि विलीनानि, ताद्दशं जलं मनुष्यैः उपयुज्यते, तदा एते विषाः मनुष्याणां शरीरं प्रविशन्ति तेन च अश्रुता अज्ञातपूर्वाः रोगाः भवन्ति ।
भारतदेशे पूज्यायां गङ्गानद्यां यमुनायां च नगरीयैः कार्यागारैः निःसृतेभ्यः दूषणेभ्यः प्रतिदिनं जलमालिन्यं प्रभूतं सञ्जायते । अनेन नदीजलम् उपयोगाय अनर्हं भवति ।
समुद्रजलस्य मालिन्यात् मीनाः अन्ये समुद्रजीविनः नितरां क्लिश्यन्ति, म्रियन्ते च । अन्तर्जलस्य प्रदूषणात् भूमेः उष्णतायाः जलस्थित्याः व्यत्ययः भवति येन वर्षाचक्रे व्यत्ययाः भवन्ति ।
जलमालिन्यं रोद्धुं बहवः प्रयत्नाः प्रशासनेन विद्येयकद्वारा योजिताः । ‘जलमालिन्यनियन्त्रणार्थं, तत्कृते प्रशासनस्यैकः विभागः तत्परः अपि च वर्तते ।
मलिनजलस्य स्रावेन नानाविधाः रोगाः जायन्ते । ताम्रम्, क्याड्मियम्, कोबाल्ट् लवणैः दूषितस्य जलस्य उपयोगेन क्यान्सर्, नररोगाः हृदयरोगाः जायन्ते । प्रदूषितजले स्नानकरणात् चर्मरोगाः प्रजायन्ते । पारद-लोहेन तत्संयुक्तलवणैश्च प्रदूषितस्य जलस्य सेवनात् "मिनिमा" इति नूतनः रोगः जायते । पारदेन प्रदूषितस्य जलस्य सेवनेन जपान् देशे क्रिस्ताब्दे १९५६ वर्षे मिनिमाट इति ग्रामे केचन जनाः नेत्रहीनाः बभूवुः । केचन उन्मत्ताः जाताः । केचन शरीरभागानां निश्चेष्टतां प्रापुः । एताद्दशरोगस्य हेतुपरिशीलनात्-पारदप्रदूषितस्य जलस्य सेवनेन एवं भवतीति ज्ञातम् । तदारभ्य एतादृशरोगस्य मिनिमाट -इत्येव निर्देशः कृतः ।
सर्वे स्वास्थ्यहेतोः शुद्धं जलमेव पिबेयुः । जलमालिन्यस्य नियन्त्रणाय सततं प्रयत्नः करणीयः।
संस्कृतभाषायां जल्स्य जीवनमिति पर्यायपदं भवति । एवं जलमालिन्यं नाम जीवनमालिन्यमित्येव ।
जल-प्रदूषणस्य बहूनि कारणानि भवन्ति, परं मुख्यतया मानवाः एवास्य कारणीभूतः अस्ति । जनाः अस्योपयोगः समुचितरुपेण न कुर्वन्ति, अप्राकृतिकं कृत्यं कुर्वन्ति, जनसंख्या- वृध्दयाऽपि, प्रदूषणं भवति, औद्योगिकविस्तारेणापि प्रदूषणं भवति । सम्प्रति क्रमशः अस्य कारणानि प्रस्तूयन्ते ।
एतदतिरिक्तमपि बहूनि कारणानि सन्ति येन जलं प्रदूषितं भवति । येषां कारणानामुल्लेखः अत्र न क्रियते । यतोहि दिनानुदिनं नूतनं कारणं विकसति । सम्प्रति विचार्यते यत् कानि तत्वानि जले तिलन्ति येन जलं प्रदूषितं भवतीति ।
मुख्यरुपेण जलशुद्धीकरणस्य त्रयः वैज्ञानिक विधयः संक्रियादृष्ट्या अङ्गीक्रियन्ते । ते सन्ति भौतिकविधयः, रसायनिकविधयः, यान्त्रिकविधयश्च । परम् एतत् सर्वं तु प्रदूषणात्परं भवति । सर्वश्रेष्ठं तु भवति प्रदूषणनियन्त्रणम् । अर्थात् प्रदूषणस्य एव यदि नियन्त्रणं भवेत्, तर्हि इयं समस्या नागमिष्यति । अतोऽत्र केचन जलप्रदूषणस्य नियन्त्रोपायाः प्रसूयन्ते । यस्मिन् क्रमे प्रदूषणस्य कारणानि उल्लिखितानि वर्तन्ते अध्यायेस्मिन् तस्मिन्नेव क्रमेण नियन्त्रणोपायाः अपि लिख्यन्ते ।
Analytical Tools and Other Specialized Resources
This article uses material from the Wikipedia संस्कृतम् article जलमालिन्यम्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.