लवणम्

एतत् लवणं जगतः सर्वेषु भागेषु उपयुज्यते । एतत् लवणम् आङ्ग्लभाषायां Salt इति उच्यते । आयुर्वेदे तु लवणं नाम सैन्धवं लवणम् एव । इदानीं जगति सर्वत्र उपयुज्यमानं सामुद्रं लवणम् । तन्नाम समुद्रात् प्राप्तं लवणम् । सामुद्रं लवणं केवलम् आहारत्वेन उपयुज्यते । किन्तु सैन्धवं लवणम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । एतत् लवणं सर्वेषाम् आहारपदार्थानां निर्माणे उपयुज्तते । मधुराणां भक्ष्याणां निर्माणे केवलं कदाचित् उपयुज्यते लवणम् ।

लवणम्
लवणनिर्माणम्

आयुर्वेदस्य अनुसारम् अस्य लवणस्य स्वभावः

लवणम् 
लवणराशिः

एतत् सैन्धवं लवणं पचनार्थं लघु । एतत् लवणं जीर्णानन्तरं स्वादुविपाकः भवति । एतत् लवणम् अनुष्णशीतवीर्ययुक्तम् । सामुद्रं लवणं पचनार्थं गुरु । एतत् लवणं लवणरसयुक्तम् । एतत् लवणं जीर्णानन्तरं मधुरविपाकः भवति ।

    १. सैन्धवं लवणं त्रिदोषहरम्, अवुदाहि, अग्निदीपकं चापि ।
    २. एतत् लवणम् आहारस्य रुचिं वर्धयति ।
    लवणम् 
    समुद्रात् लवणसङ्ग्रहः
    ३. सामुद्रं लवणं कफं पित्तं च वर्धयति ।
    ४. सैन्धवलवणस्य उपयोगम् आयुर्वेदस्य आचार्याः बहुधा विवृतवन्तः सन्ति ।
    ५. एतत् सैन्धवं लवणं जीर्णाङ्गव्यूहं समीकरोति ।
    ६. एतत् सैन्धवं लवणं कोष्ठगतं वायुं निवारयति ।
    ७. एतत् सैन्धवं लवणं श्वासम् (अस्तमा), कासं च शमयति ।
    ८. एतत् सैन्धवं लवणं वातरोगं, मलस्य अवरोधं च निवारयति ।
    ९. एतत् सैन्धवं लवणम् अभ्यङ्गार्थं विभिन्नैः तैलैः सह उपयुज्यते । मलावरोधे सति मूत्रसङ्गे एरण्डतैलेन सह सैन्धवं लवणं योजयित्वा उदरस्य अधोभागे, पृष्ठभागे, कटिप्रदेशे च लेपयित्वा अभ्यङ्गं कुर्वन्ति ।
    १०. एतत् सैन्धवं लवणं श्वासरोगे सति कर्पूरादितैलेन सह अभ्यङ्गार्थम् उपयुज्यते ।
    ११. एतत् सैन्धवं लवणं सर्वेषु अपि आस्थापनबस्तिषु उपयुज्यते ।
    १२. एतत् सैन्धवं लवणं विभिन्नैः कषायैः सह, चूर्णैः सह, घृतैः सह च वमनार्थम् अपि उपयुज्यते ।
    १३. वमनार्थम् एतत् सैन्धवं लवणं २ – ४ ग्रां यावत् केवलम् उपयुज्यते ।
    १४. लवणभास्करचूर्णम् अपि औषधत्वेन उपयुज्यते ।
    १५. एतत् सैन्धवं लवणं पित्तं वर्धयति । तस्मात् कारणात् पित्तप्रकृतियुक्तानां, पित्तजन्यैः रोगैः पीडितानां, पित्तदेशे काले एतत् वर्ज्यम् ।

Tags:

आयुर्वेदःआहारः

🔥 Trending searches on Wiki संस्कृतम्:

साक्रामेन्टोवॉशिंगटन, डी॰ सी॰१२७८अलङ्कारग्रन्थाःउर्वारुकम्१०६९भौतिकशास्त्रम्जम्बूवृक्षःवार्त्तापत्रम्d21obमध्यप्रदेशराज्यम्१२७०कठोपनिषत्ऋतुःद सिम्प्सन्स्कोबाल्ट९१९१३९४२१३तत्त्वशास्त्रम्विकिःबार्सेलोनारिपब्लिकन् पक्षःआर्षसाहित्यम्कटानियाधर्मःवेदः८०५१ मैक्रोकन्ट्रोलर्अथर्वशिरोपनिषत्गर्भधारणम्करीना कपूर४५२सामवेदः१७७५नार्थ केरोलैना४५९८२०१२३१फ्रान्सदेशःए आर् राजराजवर्मा११२७११०७जग्गी वासुदेव४२१५७७खैबर्पख्तूङ्ख्वाप्रदेशःइन्द्रियाणां हि चरतां...७५२न्‍यू मेक्‍सिको१०४४हेनरी ४१७१८१०७७यामिमां पुष्पितां वाचं…१४. गुणत्रयविभागयोगःदाण्डीयात्रारास्या१४४५वसन्तः२३३एल-साल्वाडोर७६१जन्तुः२६०अलेक्ज़ांडर २केतुःबुद्धजयन्तीसमन्वितसार्वत्रिकसमयःओडिशीभाषाविज्ञानम्समयवलयः🡆 More