उत्तराखण्डराज्यम्

उत्तराखण्डराज्यं ( ( शृणु) /ˈʊttərɑːkhəndərɑːdʒjəm/) (हिन्दी: उत्तराखण्ड राज्य, आङ्ग्ल: Uttarakhand State) भारतीय राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य २००० तमे वर्षे 'नवम्बर'-मासस्य नवमे दिनाङ्के रचना जाता । उत्तरप्रदेशराज्यस्य रचनार्थं हिमालयपर्वतप्रान्तस्य, उत्तराखण्डराज्यस्य च विभागः कृतः । राज्यस्यास्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशः अस्ति । अस्य राज्यस्य नाम २००७ तमे संवत्सरे 'जनवरी'-मासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम् ।

उत्तराखण्डराज्यम्
उत्तराखण्ड
—  राज्यम्  —
उत्तराखण्डराज्यम्
उत्तराखण्डराज्यस्य चित्रदीर्घा
उत्तराखण्डराज्यस्य चित्रदीर्घा
उत्तराखण्डराज्यम्
भारते उत्तराखण्डराज्यम् राज्यस्य स्थानम्
भारते उत्तराखण्डराज्यम्
उत्तराखण्डराज्यम्
उत्तराखण्डराज्यस्य भूपटःराज्यस्य स्थानम्
उत्तराखण्डराज्यस्य भूपटः
Coordinates (देहरादून्): ३०°२०′उत्तरदिक् ७८°०४′पूर्वदिक् / 30.33°उत्तरदिक् 78.06°पूर्वदिक् / ३०.३३; ७८.०६
देश भारतम्
स्तम्भित ९ नवेम्बर् २०००
राजधानी देहरादून्
महिष्ठ नगर देहरादून
मण्डलानि १३
सर्वकारः
 • शासक अझीझ् खुरेशि
 • मुख्यमन्त्री त्रिवेन्द्रसिंहरावत:
 • विधानमण्डलम् ७० धर्मपीठानि
 • सांसद प्रतिनिहित मण्डल
 • उच्च न्यायालय उत्तराखण्ड उच्च न्यायालय
विस्तीर्णता
 • संहतिः ५१,१२५ km
क्षेत्रविस्तारः १८
जनसङ्ख्या (2011)
 • संहतिः १,०१,१६,७५२
 • रैङ्क् १९
भारतीयमनकसमयः (भा॰मा॰स॰) (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-UT
मानवविकाससूचिका ०.५१५
मानवविकाससूचकाङ्कः (HDI rank) सप्तमः (२०११)
साक्षरता ७९.६३
लिङ्गानुपातः ९६३
भाषाः हिन्दीभाषा, गर्वाली, कुमोनि
राजभाषा हिन्दीभाषा, संस्कृतम्
जालस्थानम् uk.gov.in
चतुर्धाम
उत्तराखण्डराज्यम् उत्तराखण्डराज्यम्
केदारनाथः बदरीनाथः
उत्तराखण्डराज्यम् उत्तराखण्डराज्यम्
गङ्गोत्री यमुनोत्री

विभागः

उत्तराखण्डराज्यम् 
मण्डलानि

अस्मिन् राज्ये विभागद्वयं भवति गढवाल तथा कुमाऊं इति । अस्मिन् राज्ये १३ मण्डलानि सन्ति । गढवालविभागे चमोलीमण्डलं, देहरादूनमण्डलं, हरिद्वारमण्डलं, पौडीगढवालमण्डलं, रुद्रप्रयागमण्डलं, टिहरीगढवालमण्डलं, उत्तरकाशीमण्डलं चास्ति । कुमाऊंविभागे अल्मोडामण्डलं, बागेश्वरमण्डलम्, नैनितालमण्डलं, पिथौरागढमण्डलं, चम्पावतमण्डलम्, उधमसिंहनगरमण्डलं चास्ति । राज्यस्य मुख्यराजभाषा हिन्दी, उपराजभाषा संस्कृतभाषा चास्ति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः । उत्तराखण्डस्य विस्तारः ५१,१२५ वर्ग सहस्रमान अस्ति । जनसंख्या ८५ लक्षमस्ति । देहरादून-हरिद्वार-नैनिताल-नगराणि अस्य राज्यस्य प्रमुखनगराणि सन्ति । राज्यस्य ९२.५७% भागः पर्वतीयः अस्ति । ६३% भागः अरण्यप्रदेशः अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः नन्दादेवी (७८१६ m), बदरीनाथः(७१४० m), चौखम्बा(७१३८ m) तथा त्रिशूल्(७१२० m) सन्ति ।

इतिहासः

प्राचीनहिन्दूग्रन्थेषु केदार-मानसखण्डयोः मिलित्वा उत्तराखण्ड इति उल्लेखः दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः, पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति । अतः “देवभूमिः” इति अस्य नामान्तरमस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन् । वेदकाले आर्यसन्ततेः “रावत्” नामकाः जनाः आसन् । तस्मिन् काले ॠषीणां, साधूनाञ्च इष्टतमं स्थानम् आसीदेतत् । व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतकाव्यं रचितवान् इति प्रतीतिः अस्ति । अस्मात् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा पाण्डवैः इति जनानां विश्वासः । एतत् स्थलम् अशोककाले बौद्धधर्मप्रभावितम् आसीत् । आदिशङ्कराचार्यस्य प्रभावेण पुनः वैदिकसम्प्रदायावृतं जातं स्थलम् । मध्यकाले गढवाल,कुमाऊं च द्वे संस्थाने उत्तराखण्डे आस्ताम् । कुमाऊंसंस्थाने ’चन्द्रवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । गढवालसंस्थाने ’परमारवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । नेपालदेशस्य ’गूर्खा’ शासकाः १७९१ तमे संवत्सरे कुमाऊंराज्यं, १८०३ तमे संवत्सरे गढवालराज्यञ्च आक्रान्तवन्तः । १८१६ तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत् । अनन्तरं गढवाल-कुमाऊंप्रदेशौ आङ्ग्लशासने आस्ताम् । भारतस्य स्वातन्त्र्यानन्तरं टिहरिसंस्थानम् उत्तरप्रदेशराज्ये शासनमकरोत् ।

राज्यजनसमुदायः

उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति । सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति । पञ्जाबराज्यात् आगताः जनाः हिमालयस्य ’तेराय्ट्रदेशे’ वसन्ति । एतान् विहाय नेपालीजनाः, टिबेट्जनाः, गुज्जर्जनाश्च अत्रैव वसन्ति । राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति ।

पुष्पकन्दरः

उत्तराखण्डराज्यं पूर्वम् उत्तरप्रदेशस्य भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं राज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एषः प्रपातः १० km दीर्घः २ km विस्तृतः च अस्ति । विश्वे एव एतादृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः ३३५२ पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च तत्र गच्छन्ति । जून-मासतः सप्तम्बर-मासाभ्यान्तरं तत्र गन्तुं योग्यः कालः अस्ति । शीतकाले अतीव शैत्यं भवति ।

पिण्डारी

उत्तराखण्डराज्यम् 
पिण्डारी हिमसंहतिः

एतत् हिमालयप्रदेशस्य अत्यन्तं सुन्दरं स्थलम् । अत्र हिमनद्यः पर्वतशिखरेभ्यः अवतरन्ति । एषा हिमनदी ३ km दीर्घा , अर्धसहस्रमान विस्तृता अस्ति । एषा ३३५३ मीटर् उन्नतप्रदेशे अस्ति । समीपे सुन्दरतृणभूमिः अस्ति । अत्र पर्वतारोहणं कर्तुं अवकाशः अस्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वैः जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् ।

जिम् कार्बेट् राष्ट्रियोद्यानम्

उत्तराखण्डराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव ५२३ वर्ग सहस्रमान अस्ति । कुमाऊं-पर्वतप्रदेशे रामगङ्गानदी प्रवहति । एतत् सा.श.१९३५ तमे वर्षे रक्षितारण्यं घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः 'जिम् कार्बेट्' कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अत एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः, व्याघ्राः, गजाः, भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति ।

देहरादून्

प्रवासिजनाः एतं प्रदेशं द्रष्टुम् इतः मस्सूरीप्रदेशं गन्तुं तत्र गच्छन्ति । तत्र अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । तस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं एव विश्वे तस्य स्थानं प्रप्रथमम् अस्ति । तत्र भारतीयसर्वेक्षणविभागस्य केन्द्रम् (सर्वे आफ् इण्डिया) अस्ति । ततः ८ km दूरे चोरगुहा (राबर्सकेव्) इति स्थलम् अपूर्वमस्ति । भव्यानि अरण्यानि, पर्वतप्रदेशाः, नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । अत्र जलं किञ्चिद्दूरं गुप्तगामीनी भूत्वा पश्चात् दूरे फेनरूपेण बहिरागच्छति । समीपे १४ km दूरे उष्णजलनिर्झरिण्यः सहस्रधारा इति स्थले सन्ति । मृगवनम् आकर्षकम् अस्ति ।

मसूरी गिरिधाम

अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । हिमालयशिखराणि अत्र गोचरी भवन्ति । इतः ११ km दूरे 'केम्प्रीफालस्', 'भट्टफाल्स्, स्तः । अत्युन्नतं स्थानं 'लालतिल'-नामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागर-स्तरतः २००० मीटर् उन्नतप्रदेशोऽयं 'क्यामल्स् बाक्स्'-'गन् हिल्'-स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । 'लाक् मण्ड्ल्' (३५ km) स्थले शिवदेवालयः अस्ति । अत्रैव कौरवाः पाण्डवान् लाक्षागेहे मारयितुं प्रयत्नं कृतवन्तः इति महाभारते उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः ।

हिमालयः

हिमालयः उत्तराखण्डप्रदेशस्य सुन्दरं स्थलम् । उत्तराखण्डराज्यमेव पर्वतानाम् स्थानमस्ति । अत्र पर्वतेषु सदा तुषारावृतं दृश्यं द्रष्टुं शक्यते । प्रपातेषु सदा शीतलं जलं प्रवहति । तृणावृतानि समतलानि आकर्षकानि भवन्ति । गढवालप्रदेशस्य विस्तारः ५००० वर्ग सहस्रमान अस्ति । अत्रैव चमोली, पौरीगढवाल, टिहरीगढवाल, देहरादूनमण्डलानि सन्ति । गढवाल प्रवासिजनानां स्वर्गमिति कथयन्ति । अत्र यात्रा साहसिकानामेव साध्या । पर्वतारोहिणाम् उत्साहः भवति । जलक्रीडासु जनाः मग्नाः भवन्ति । "रिवर् राप्टिङ्ग्" , "मौण्टन् बैकिङ्ग्" इत्यादीनि जनानां प्रियाणि भवन्ति । पर्वतशिखरेषु त्रिशूल्, कामेट्, धुनगिरि इत्यादीनि अतीव प्रसिद्धानि सन्ति । नन्दादेवी अत्युन्नतः पर्वतः अस्ति । अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति । तुषारावृतप्रदेशे धावनमपि अत्र साहसप्रियाणाम् इष्टं भवति। मसूरी इवात्रापि अतीव शैत्यं भवति । हृषीकेशः, अल्मोरा, राणिखेत्, मसूरी, यमुनोत्री, केदारनाथः, बदरीनाथः च अत्रैव समीपे विद्यमानानि क्षेत्राणि । प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति ।

बदरीनाथः

नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति । अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । वेदव्यासमहर्षिः अत्र स्थितवान् । श्रीशङ्कराचार्यः अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मद्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री वेदव्यासः महाभारतम् अत्रैव रचितवान् गणपतिः अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः ८ km दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । हृषीकेशतः रुद्रप्रयागपर्यन्तम् आगत्य अग्रे केदारनथक्षेत्रं गन्तुं शक्यते । एतत् हृषीकेशतः २४० km दूरेऽस्ति ।

केदारनाथः

सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । केदारनाथप्रदेशं रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । केदारनाथक्षेत्रं द्वादशज्योतिलिङ्गक्षेत्रेषु अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया शिवः अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति शिवपुराणे अस्ति । एतत् हिन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उगमस्थानमस्ति । केदारनाथस्य क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थलम् अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। गौरीकुण्डः इति पवित्रजलवापी अस्ति । श्रीशङ्कराचार्यः केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्तानां यात्रास्थलं , प्रकृतिप्रियाणां साहसप्रियाणां एतत् प्रियं स्थानम् ।

अल्मोडा

हिमालयपर्वतश्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः (रामगङ्गा, कोशी) सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अल्मोरातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामी विवेकानन्दः इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। उत्तराखण्दराज्यतः कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं शक्यते ।

गौमुखम्

उत्तरकाशीमण्डलस्य एतत् प्रमुखस्थलमस्ति । सागरस्तरतः ४२५५ मीटर् उन्नतप्रदेशे एतदस्ति । अत्र पञ्चदश हिमनदीभिः एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया अस्ति । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानानि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति ।

हिमालययात्रा

उत्तराखण्डतः हिमालययात्रा आरब्धा भवति । तदर्थम् अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रहणीयानि भवन्ति । यात्राकर्तुम् पूर्वमेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्तं यात्रा समाप्ता न भवति तावत् पर्यन्तम् अतीव जागरूकतया भवितव्यं भवति । विशेषतः भारतीयानां हिमालययात्रा अतीव इष्टा अस्ति ।

हरिद्वारं हृषीकेशः

गङ्गानद्याः अपूर्वसौन्दर्यं द्रष्टुं शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पत्तनमेतत् हरेः पादौ अत्र स्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौ स्तः अमृतकुण्डं हरि की पायरि इत्यपि कथयन्ति । गङ्गातीरे गङ्गामातुः मन्दिरमस्ति । लक्ष्मीमन्दिरं श्रीराममन्दिरं नीलधारा, पावनधाम, दक्षप्रजापतिमन्दिरम् इत्यादिदर्शनीयानि सन्ति । गङ्गातीरे अनेक गुरुकुलानि सन्ति । अत्रानेकधर्मशालाः सन्ति । गङ्गास्नानम् अत्र पवित्रकार्यमस्ति । हरिद्वारतः १४ km दूरे हृषीषिकेशक्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः, ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा गङ्गायाः पारं कर्तुं शक्यते । इतः हिमालययात्रायाः आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं गङ्गा प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपार्श्वयो: स्नानघट्टाः निर्मिताः सन्ति ।

बाह्यानुबन्धः

    Government
    Other


.

Tags:

उत्तराखण्डराज्यम् विभागःउत्तराखण्डराज्यम् इतिहासःउत्तराखण्डराज्यम् राज्यजनसमुदायःउत्तराखण्डराज्यम् अल्मोडाउत्तराखण्डराज्यम् गौमुखम्उत्तराखण्डराज्यम् हिमालययात्राउत्तराखण्डराज्यम् हरिद्वारं हृषीकेशः चउत्तराखण्डराज्यम् बाह्यानुबन्धःउत्तराखण्डराज्यम्आङ्ग्लभाषाउत्तरप्रदेशराज्यम्उत्तराखण्डराज्यम्.wavनेपालदेशःभारतम्सञ्चिका:उत्तराखण्डराज्यम्.wavहिन्दी languageहिमालयः

🔥 Trending searches on Wiki संस्कृतम्:

उपनिषद्वासांसि जीर्णानि यथा विहाय...भट्टिकाव्यम्कात्यायनीशनिःहरेणुःउत्तर कोरियासंस्कृतविकिपीडियानिरुक्तम्ब्रह्मसूत्राणिपञ्चतन्त्रम्आवर्तनम् (Frequency)नामकरणसंस्कारःकेसरम्१२०४शर्मण्यदेशःक्रैस्ताःअधिवर्षम्वितली गिन्जबर्गअधिगमः६२अल्बेनियामीराबाईजातीफलम्वराङ्गम्उपसर्गाः१८४१साहित्यदर्पणःगौतमबुद्धःवेदान्तः९२७जीवनीवार्तकीजैनधर्मःबास्केट्बाल्-क्रीडाअकिमेनिड्-साम्राज्यम्१६ अप्रैलभर्तृहरिःलखनौवाचस्पत्यम्द्वाविमौ पुरुषौ लोके...जयपुरम्संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्वर्मांटपाकिस्थानम्आजाद हिन्द फौज्द्वन्द्वसमासःमहाभाष्यम्रजनीकान्तःसन्तमेरीद्वीपस्य स्तम्भरचनाःबुर्गोसदशरूपकम् (ग्रन्थः)केनडा२२ जनवरीसाहित्यकारःऋग्वेदः१०१लोथाल्यदा तदाकाफीपेयम्मुख्यपृष्ठम्अन्नप्राशनसंस्कारःजिबूटीमेघदूतम्३१ दिसम्बरमंगोलियाराहुल गान्धीतुर्कमेनिस्थानम्कलियुगम्सुभाषितरत्नभाण्डागारम्भास्कराचार्यःपी टी उषायवाग्रजः२८कादम्बरीमाओ त्से-तुंग🡆 More