चमोलीमण्डलम्

चमोलीमण्डलम् ( ( शृणु) /ˈtʃəmoʊlɪməndələm/) (हिन्दी: चमोली जिला, आङ्ग्ल: Chamoli District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति गोपेश्वर इति नगरम् । चमोलीमण्डलं वन्यजीवन-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । अस्य land of forts इति नामान्तरमस्ति ।

चमोलीमण्डलम्

Chamoli District

land of forts
चमोली जिला
चमोलीमण्डलम्
चमोलीमण्डले स्थितं बदरीविशालमन्दिरम्
देशः चमोलीमण्डलम् India
राज्यम् उत्तराखण्डः
उपमण्डलानि चमोली, पोखरी, कर्णप्रयाग, थराली, गैरसैंण
विस्तारः ७,६१३ च.कि.मी.
जनसङ्ख्या(२०११) ३,९१,६०५
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८२.६५%
भाषाः गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://chamoli.nic.in/

भौगोलिकम्

चमोलीमण्डलस्य विस्तारः ७,६१३ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य मध्यभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, चीनदेशः च, दक्षिणदिशि बागेश्वरमण्डलम्, अल्मोडामण्डलं च, पूर्वदिशि पिथौरागढमण्डलं, पश्चिमदिशि रुद्रप्रयागमण्डलम् अस्ति ।

जनसङ्ख्या

चमोलीमण्डलम् 

चमोलीमण्डलस्य जनसङ्ख्या(२०११) ३,९१,६०५ अस्ति । अत्र १,९३,९९१ पुरुषाः, १,९७,६१४ स्त्रियः, ५२,१६१ बालकाः (२७,६०९ बालकाः, २४,५५२ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.७४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१९ अस्ति । अत्र साक्षरता ८२.६५% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ चमोली २ पोखरी ३ कर्णप्रयाग ४ थराली ५ गैरसैंण ।

वीक्षणीयस्थलानि

बदरीनाथः

भारतस्य प्रसिद्धेषु चतुर्धामसु अन्यतमः बदरीनाथः चमोलीमण्डले राराजते । नर-नारयणयोः सङ्गमस्थलमेतत् प्रतिवर्षं लक्षशः भक्तान् आकर्षयति । धर्मशास्त्रानुसारम् अस्य प्रदेशस्य नाम विशालपुरी इत्यपि अस्ति । अतः अस्य नामान्तरं बदरीविशालः इति । बदरीनाथमन्दिरं स्थापत्यकलायाः अद्भुतोदाहरणमस्ति । मन्दिरस्य मुख्यद्वारस्य नाम सिंहद्वारम् इति । पौराणिककथानुसारमस्य मन्दिरस्य स्थापना सत्ययुगे अभूत् । अत एव अस्य धाम्नः उल्लेखः बहुषु प्रमुखेषु धर्मग्रन्थेषु प्राप्यते । मन्दिरे चतुर्भुजस्य विष्णोः कृष्णवर्णीया लघ्वी मूर्तिरस्ति । भगवतः विष्णोः पूजा भवति अत्र । अत्र भगवान् बदरीविशालः पद्मासनस्थः अस्ति । भगवतः मूर्तेः सुवर्णमुकुटः वज्रेण शोशुभ्यते (be very splendid) । अत्र अन्यानां देवी-देवतानामपि मूर्तयः सन्ति । नारायणः, उद्धवः, कुबेरः, नारदः, लक्ष्मीः चात्र विराजन्ते ।

'हेमकुण्ड साहिब' गुरुद्वारम्

सिक्खसम्प्रदायस्य पवित्रं हेमकुण्डसाहिब-गुरुद्वारं हिमालयस्य उन्नते पर्वते स्थितमस्ति । दुष्प्राप्यं हेमकुण्डगुरुद्वारं १५,००० पादः उद्यते शिखरे स्थितमस्ति । ग्रीष्मकाले तत्र लक्षशः भक्ताः गच्छन्ति ।

भविष्यबदरी

सुबैन-पत्तनात् सप्तदश (१७) कि.मी. दूरे जोषीमठे स्थितमस्ति भविष्यबदरीमन्दिरम् । धौलीगङ्गानद्याः तीरे स्थितमस्त्येतन्मन्दिरम् । धौलीगङ्गा इति नाम तु गङ्गायाः शुभ्रजलत्वादस्ति । धौली अर्थात् श्वेतः, अत्र गङ्गां श्वेतगङ्गा इत्यपि कथयन्ति जनाः ।

गोपीनाथमन्दिरम्

गोपेश्वर-नगरात् दश (१०) कि.मी. दूरे स्थितमस्ति गोपीनाथमन्दिरम् । मन्दिरस्योपरि बृहत् स्तूपः (dome) अस्ति । मन्दिरस्य चतुर्विंशतिः (२४) द्वाराणि सन्ति । द्वादशेऽब्देऽस्य मन्दिरस्य स्थापनाभूदिति इतिहासे उल्लेखः प्राप्यते ।

रूद्रनाथ:

सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । गोपेश्वर-नगरात् एकविंशतिः (२१) कि.मी. दूरे स्थितमस्ति रूद्रनाथमन्दिरम् । भगवतः शिवः पूजा भवति अत्र । अत्र भगवान् रुद्रावताररूपेण पद्मासनस्थः अस्ति ।

अस्मिन् मण्डले अन्यानि वीक्षणीयानि स्थलानि सन्ति । यथा – औली, त्रिसुल गिरी, नंदा: देवी राष्ट्रियोद्यानम्, नीलकंठ:।


सम्बद्धाः लेखाः

चमोली गोपेश्वरम्

बाह्यानुबन्धः

http://chamoli.nic.in/

http://www.euttaranchal.com/uttaranchal/chamoli.php

http://www.euttaranchal.com/tourism/chamoli.php

http://www.okuttarakhand.com/chamoli-district/

http://timesofindia.indiatimes.com/topic/Chamoli-District

Tags:

चमोलीमण्डलम् भौगोलिकम्चमोलीमण्डलम् जनसङ्ख्याचमोलीमण्डलम् उपमण्डलानिचमोलीमण्डलम् वीक्षणीयस्थलानिचमोलीमण्डलम् सम्बद्धाः लेखाःचमोलीमण्डलम् बाह्यानुबन्धःचमोलीमण्डलम्आङ्ग्लभाषाउत्तराखण्डगढवालविभागःचमोलीमण्डलम्.oggसञ्चिका:चमोलीमण्डलम्.oggहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

मत्स्यसाम्राज्यम्चन्द्रपुरम्मुखपृष्ठंभर्तृहरिःऊरुःसंस्काराःनव रसाःपोलोनियम१८४१नागेशभट्टःकोर्दोबाकेसरम्सुकर्णोलोहयुगम्सचिन तेण्डुलकरऐडहोरमा चौधुरीमार्टिन लूथरखानिजःपोर्ट ब्लेयर३३४देशभक्तिःमिशेल फूकोविकिःनिरुक्तम्माल्टाअर्थालङ्कारःढाकाकेनडाकौरवी उपभाषामेल्पुत्तूर् नारायणभट्टःशुक्लरास्यादेवनागरीकुमारसम्भवम्पी टी उषा२२ दिसम्बरमद्रिद्गद्यकाव्यम्कात्यायनीसमारियममुद्राराक्षसम्वेदः१७२०धात्रीझांसी लक्ष्मीबाईअलेक्ज़ांडर ३बेट्मिन्टन्-क्रीडारवीन्द्रप्रभातःपुर्तगालीभाषाएइड्स्भीष्मपर्वअधिगमःदैवतकाण्डम्२७ अगस्तगूगल् अर्त्वितली गिन्जबर्गबास्केट्बाल्-क्रीडाउल्लेखालङ्कारःकगलिआरीमयूरःद्वादशज्योतिर्लिङ्गानिस्त्रीपर्वआस्ट्रियाविष्णुःविविधसंस्थानां ध्येयवाक्यानिकुवैतप्रतिज्ञायौगन्धरायणम्२५ नवम्बरचक्रम् (योगशास्त्रम्)धर्मशास्त्रम्यदा यदा हि धर्मस्य...८०🡆 More