हिन्दुमहासागरः: सागरः

हिन्दुमहासागरः भूमेः पञ्च महासागरेषु तृतीयः महान् महासागरः (प्रशान्तसागर-अट्लाण्टिक्-महासागरयोः पश्चात्), यस्मिन् भूमेः २०% जलं विद्यते । भारतस्य कन्याकुमारीतः दक्षिणध्रुवे स्थितम् अण्टार्क्टिक्प्रदेशपर्यन्तम् अयं सागरः व्याप्तः विद्यते । अस्य चत्वारः प्रमुखाः जलमार्गाः - सूयझ्-केनाल् (ईजिप्ट्देशः), बेब् एल् मेण्डेब् (जिबौटि-येमेन्), स्ट्रैट् आफ् हार्मझ् (इरान्-ओमन्), स्ट्रैट् आफ् मलक्क (इण्डोनेशिया-मलेशिया) च ।

समग्रस्य भूप्रदेशस्य १४.६५ % भागम् अवृतवतः अस्य महासागरस्य गरिष्ठतमा गभीरता ७,७२५ मीटर्मिता ।

अस्य पूर्वदिशि इण्डोचीना, सुन्दद्वीपाः आस्ट्रेलिया च वर्तते । पश्चिमदिशि आफ्रिका, उत्तरदिशि अरेबियन्-पेनिन्सुला, भारतीयोपखण्डश्च विद्यते । दक्षिणे दक्षिणमहासागरेण आवृत्तः । भारतीयोपखण्डस्य कारणतः अस्य नाम हिन्दुमहासागरः (इण्डियन् ओषन् इति वा) इति जातम् । विश्वसागरस्य घटकरूपः अयम् अट्लाण्टिक्-महासागरात् ९०पूर्वे, मेरिडीयन्-पेसिफिक्-महासागरात् १४६ ५५’, पूर्वमेरिडियन्-द्वारा पृथक्कृतः अस्ति । हिन्दुमहासागरस्य उत्तरविस्तारः पर्षियन्-गल्फ्तः ३० उत्तरदिशि विद्यते । आफ्रिका-आस्ट्रेलिया-दक्षिणान्तयोः मध्ये अस्य सागरस्य विस्तारः १०,०० कि मीटर्मितः । अस्य विस्तारः ७२,५५६,००० चतुरस्रकिलोमीटर्मितः (२८.३५ दशलक्षचतुरस्रमैल्मितः) । अस्य सागरस्य घनफलं २९२,१२१,००० घनकिलोमीटर्मितम् (७०,०८६,००० चतुरस्रमैल्स्मितम्) ।

सागरस्य अन्तः विद्यमानाः द्वीपराष्ट्राः - मडगास्कर् (विश्वस्य चतुर्थः महान् द्वीपः), रियूनियन्-द्वीपः, कोमोरोस्, सीशेल्स्, माल्डीव्स्, मारिषस्, श्रीलङ्का च ।

भूगोलम्

  • स्थानम् - आफ्रिका, दक्षिणध्रुवीयसागरः, एशिया, आस्ट्रेलिया - इत्येतेषां मध्ये विद्यमानः जलराशिः
  • भौगोलिकमापनबिन्दवः - २० ०० दक्षिणम्, ८० ०० पूर्वम्
  • विस्तारः - ६८.५५६ मिलियन् चतुरस्रकिलोमीटर्मितम् (सामान्यतः अमेरिकादेशस्य ५.५ गुणितः विस्तारः)
  • अन्तर्निहिताः - अण्डमान्-समुद्रः, अरेबियन्-समुद्रः, बे आफ् बेङ्गाल्, फ्लोर्स्-समुद्रः, ग्रेट् आस्ट्रेलियन् बैट्, गल्फ् आफ् आडेन्, गल्फ् आफ् ओमन्, जावा-समुद्रः, मोझम्बिक्-चेनेल्, पर्शियन् गल्फ्, रेड्-सी, सवु-सी, स्ट्रैट् आफ् मलक्क, टैमर्-सी
  • समुद्रतीरप्रदेशः - ६६, ५२६ किलोमीटर्मितम्
  • निम्नोन्नतबिन्धौ - निम्नबिन्दुः - जावा ट्रेञ्च् - ७,२५८ मी, उन्नतबिन्दुः - समुद्रस्तरः ० मीटर्मितम्
  • प्राकृतिकसम्पत्तिः - तैलानिलक्षेत्राणि, मत्स्यः, जलजन्तवः, सिकताः, शिलाखण्डराशिः, प्रस्तारधातुसञ्चयः, मिश्रधात्वंशाः च ।

बाह्यसम्पर्कतन्तवः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

चेदी२०१२कृष्णःजार्जिया (देशः)१४४७विन्ध्यपर्वतश्रेणीबुधवासरःनीतिशतकम्देशाःएन९४२कर्मण्येवाधिकारस्ते...जार्ज डबल्यु बुशब्रह्मदेशःजम्बुद्वीपःलोकसभामगधःडचभाषापण्डिततारानाथः१९०३अनन्वयालङ्कारः८५९कारकम्जावा१६ अगस्तजनकःमन्थरासन्धिप्रकरणम्टुनिशियाजून १९स्थितप्रज्ञस्य का भाषा...विकिमीडियाबुधःदौलतसिंह कोठारीजून ८फलानिउपपदपञ्चमीसमय रैनातैत्तिरीयोपनिषत्काशिकाक्मत्त (तालः)पर्वताःदशरूपकम् (ग्रन्थः)अद्वैतसिद्धिःअधिवर्षम्बदरीफलम्१०८२अशोक गहलोतसर् अलेक्साण्डर् प्लेमिङ्ग्०७. ज्ञानविज्ञानयोगःविश्वनाथः (आलङ्कारिकः)कालिदासस्य उपमाप्रसक्तिःनासतो विद्यते भावो...रोम-नगरम्सेवफलम्नवग्रहाःअशोकःप्राचीनभारतीया शिल्पकलावेदः३६दिसम्बरपतञ्जलिः🡆 More