स्थितप्रज्ञस्य का भाषा...

स्थितप्रज्ञस्य का भाषा ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः प्रप्रथमं प्रश्नं भगवन्तं श्रीकृष्णं पृच्छति । एतावता भगवान् श्रीकृष्णः मुख्यतः कर्मयोगस्य, साङ्ख्ययोगस्य च चर्चां कृत्वा पूर्वस्मिन् श्लोके उपसंहारम् अकरोत् । प्रथमे चरणे कर्मयोगस्य, विवेकजन्यवैराग्यस्य उल्लेखः कृतः । द्वितीये चरणे साङ्ख्ययोगस्य उल्लेखश्च कृतः । उपसंहारोत्तरं सारत्वेन यत्किमपि अर्जुनेन ज्ञातं, तत्र भगवता उक्तम् अतः अविचिन्त्य स्वीकरणीयम् इति अर्जुनस्य भावना नासीत् । सः प्रत्येकस्य विषयस्य चिन्तनं कुर्वन् आसीत् । यत्र यत्किमपि तेन न ज्ञातम् उत स्पष्टतायाः आवश्यकता आसीत्, तत्र अर्जुनः प्रश्नं करोति । अत्र अर्जुनः स्थितप्रज्ञस्य लक्षणं ज्ञातुं भगवते चतुरः प्रश्नान् पृच्छति ।

स्थितप्रज्ञस्य का भाषा...


स्थितप्रज्ञस्य लक्षणं ज्ञातुं प्रश्नाः
स्थितप्रज्ञस्य का भाषा...
श्लोकसङ्ख्या २/५४
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः श्रुतिविप्रतिपन्ना ते
अग्रिमश्लोकः प्रजहाति यदा कामान्

श्लोकः

स्थितप्रज्ञस्य का भाषा... 
गीतोपदेशः

अर्जुन उवाच

    स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
    स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥

पदच्छेदः

स्थितप्रज्ञस्य, का, भाषा, समाधिस्थस्य, केशव । स्थितधीः, किम्, प्रभाषेत, किम्, आसीत, व्रजेत, किम् ॥

अन्वयः

केशव ! समाधिस्थस्य स्थितप्रज्ञस्य का भाषा ? स्थितधीः किं प्रभाषेत ? किम् आसीत ? किं व्रजेत ?

शब्दार्थः

    अन्वयः विवरणम् सरलसंस्कृतम्
    केशव अ.पुं.स्मबो.एक. कृष्ण !
    समाधिस्थस्य अ.पुं.ष.एक. योगनिष्ठस्य
    स्थितप्रज्ञस्य अ.पुं.ष.एक. दृढबुद्धेः
    का किम्-म.सर्व.स्त्री.प्र.एक. किं
    भाषा आ.स्त्री.प्र.एक. लक्षणम्
    स्थितधीः ई.पुं.प्र.एक. दृढबुद्धिः
    किम् किम्-म.सर्व.नपुं.प्र.एक. किम्
    प्रभाषेत प्र+√भाष् व्यक्तायां वाचि-आत्म.वि.लिङ्.प्रपु.एक. वदेत्
    किम् किम्-म.सर्व.नपुं.प्र.एक. कथम्
    आसीत √आस् उपवेशने-आत्म.वि.लिङ्.प्रपु.एक. उपविशेत्
    किम् किम्-म.सर्व.नपुं.प्र.एक. कुत्र
    व्रजेत √व्रज् गतौ-आत्म.वि.लिङ्.प्रपु.एक. गच्छेत् ।

व्याकरणम्

समासः

स्थितप्रज्ञस्य = स्थिता प्रज्ञा यस्य सः, तस्य - बहुव्रीहिः ।

समाधिस्थस्य = समाधौ स्थितः, तस्य - सप्तमीतत्पुरुषः ।

स्थिधीः = स्थिता धीः यस्य सः - बहुव्रीहिः ।

अर्थः

केशव ! यः एकाग्रतावान् भवति, तस्य व्यवहारः कीदृशः भवति ? सोऽयं स्थितप्रज्ञः यदा बहिर्मुखः भवति, तदा कथं भाषणं करोति ? कथं सः उपविशति ? कथं गच्छति ? स्थितप्रज्ञस्य लक्षणानि कानि ?

भावार्थः

'स्थितप्रज्ञस्य' – एतद् पदं साधकस्य, सिद्धेः च बोधकम् अस्ति । यस्य विचारः दृढः अस्ति, यः साधनाच्च कदापि विचलितः न भवति, सोऽपि स्थितप्रज्ञः उच्यते । एवं हि परमात्मतत्त्वानुभवे सति यस्य बुद्धिः स्थिरा अभवत्, तादृशः सिद्धः अपि स्थितप्रज्ञः उच्यते ।

'का भाषा' – परमात्मनि स्थितः स्थिरबुद्धिः मनुष्यः कैः शब्दैः वर्णनीयः ? अर्थात् तस्य लक्षणानि कीदृशानि भवन्ति ? इति । एतस्य प्रश्नस्योत्तरमेव भगवान् श्रीकृष्णः अग्रिमे श्लोके ददाति ।

'किमासीत' – सः कथं तिष्ठति ? अर्थात् सः उपरतः कथं भवति ? इत्यर्थः । अर्जुनस्य एतस्य प्रश्नस्योत्तरं भगवान् श्रीकृष्णः अष्टपञ्चाशत्तमात् त्रिषष्टितमं श्लोकं यावत् ददाति ।

'व्रजेत किम्' – सः कथं चलति ? अर्थात् तस्य व्यवहारः कीदृशः भवति ? इत्यर्थः । अर्जुनस्य एतस्याः शङ्कायाः समाधानं भगवान् श्रीकृष्णः चतुःषष्टितमात् श्लोकात् एकसप्ततितमं श्लोकं यावत् करोति ।

मर्मः

पूर्वश्लोकद्वये यदा भगवान् मोहकलिलात्, श्रुतिविप्रतिपत्तेः च बुद्धिमुक्तेः चर्चाम् अकरोत्, तदा अर्जुनस्य मनसि तादृशस्य मुक्तस्य पुरुषस्य विषये ज्ञातुं जिज्ञासा अभवत् । भगवान् तं तथा मुक्तिं प्राप्तुं प्रेरयन् आसीत् । अतः यदि अहं तथा मुक्तः भविष्यामि, तर्हि अहं कीदृशैः लक्षणैः युक्तः भविष्यामि इत्यपि अर्जुनस्य प्रश्नः आसीत् । अतः स्वजिज्ञासायाः, शङ्कायाः च शमनार्थम् अर्जुनः भगवन्तं श्रीकृष्णं प्रश्नं पृच्छति ।

केषाञ्चन मतम् अस्ति यत्, अर्जुनस्य मनसि द्वे शङ्के आस्ताम् । प्रथमा तु बुद्धिसिद्धान्तसम्बद्धा, अपरा स्थितप्रज्ञस्य लक्षणसम्बद्धा च । यदि अर्जुनः पूर्वं बुद्धिसिद्धान्तसम्बद्धं प्रश्नम् अकरिष्यत्, तर्हि स्थितप्रज्ञस्य लक्षणं ज्ञातुम् अवसरः विलम्बेन प्राप्स्यत् । अतः सः प्रथमं स्थितप्रज्ञस्य लक्षणं पृष्ट्वा पश्चात् बुद्धिसिद्धान्तस्य प्रश्नं करोति ।

'समाधिस्थस्य' – यः साधकः प्राप्तपरमात्मा अस्ति, तस्य कृते अत्र 'समाधिस्थ' इति शब्दस्य प्रयोगः कृतः । अत्र शङ्का अस्ति यत्, अर्जुनः एतेन पदेन केवलं स्थितप्रज्ञस्य लक्षणं पृच्छति । तथापि भगवान् साधनानां चर्चां किमर्थं करोति ? इति । अतः समाधानम् अस्ति यत्, ज्ञानयोगिसाधकः साधनावस्थायाम् एव कर्मभिः उपरतिं प्राप्नोति । सिद्धावस्थायां तु कर्मभिः विशेषतया उपरामः भवति । भक्तियोगिसाधकस्य साधनावस्थायां जपः, ध्यानं, सत्सङ्गः, स्वाध्यायः इत्यादिषु भगवत्सम्बन्धिषु कर्मसु रुचिः भवति । सिद्धावस्थायां विशेषतया तानि कर्माणि भवन्ति । एवं ज्ञानयोगिनां, भक्तियोगिनां च साधनावस्थायां, सिद्धावस्थायां च अन्तरं भवति । परन्तु कर्मयोगिनां साधनावस्था, सिद्धावस्था च समाना भवति । यतो हि साधनावस्थायां कर्म एव मुख्यं भवति, सिद्धावस्थायाञ्चापि कर्म एव प्राधान्यं वहति । अतः भगवान् सिद्धानां लक्षणैः सह साधनानाम् अपि उल्लेखम् अकरोत् इति ।

शाङ्करभाष्यम्

प्रश्नबीजं प्रतिलभ्य अर्जुन उवाच लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सया ।  अर्जुन उवाच -

स्थिता प्रतिष्ठिता अहमस्मि परं ब्रह्म इति प्रज्ञा यस्य सः स्थितप्रज्ञः तस्य  स्थितप्रज्ञस्य का भाषा  किं भाषणं वचनं कथमसौ परैर्भाष्यते समाधिस्थस्य  समाधौ स्थितस्य हे  केशव। स्थितधीः  स्थितप्रज्ञः स्वयं वा  किं प्रभाषेत।   किम् आसीत व्रजेत किम्  आसनं व्रजनं वा तस्य कथमित्यर्थः। स्थितप्रज्ञस्य लक्षणमनेन श्लोकेन पृच्छ्यते।।

भाष्यार्थः

प्रश्नं कर्तुं कारणं दृष्ट्वा, प्राप्तसमाधिप्रज्ञस्य पुरुषस्य लक्षणानि ज्ञातुम् अर्जुनः अवदत् –

"अहं परब्रह्म" इत्यस्यां स्थितौ यस्य बुद्धिः प्रतिष्ठिता अस्ति, सः स्थितप्रज्ञः अस्ति । हे केशव ! तादृशस्य समाधौ स्थितस्य पुरुषस्य भाषा कीदृशी भवति ? अर्थात् सः स्थितप्रज्ञः अन्यपुरुषैः कथं वर्णितः भवति ? तथा च सः स्थितप्रज्ञः पुरुषः स्वयं कथं वदति, तिष्ठति, चलति ? अर्थात् तस्य व्यवहारः कीदृशः भवति ? एवं श्लोकेऽस्मिन् अर्जुनः स्थितप्रज्ञस्य लक्षणानि पृच्छति ।। ५४ ।।

रामानुजभाष्यम्

एवम् उक्तः पार्थो निःसङ्गकर्मानुष्ठानरूपकर्मयोगसाध्यस्थितप्रज्ञतया योगसाधनभूतायाः स्वरूपं स्थितप्रज्ञस्यानुष्ठानप्रकारं च पृच्छति -

अर्जुन उवाच  समाधिस्थस्य स्थितप्रज्ञस्य का भाषा  को वाचकः शब्दः तस्य स्वरूपं कीदृशम् इत्यर्थः। स्थितप्रज्ञः किं च भाषणादिकं करोति।

भाष्यार्थः

अर्जुनः भगवतः एतादृशानि वचनानि श्रुत्वा आसक्तिरहितस्य कर्मानुष्ठानरूपस्य कर्मयोगस्य माध्यमेन जानमानायाः, आत्मसाक्षात्कारूपिण्याः योगसाधनरूपायाः च स्थितप्रज्ञतायाः स्वरूपं, स्थितप्रज्ञपुरुषस्य कर्मानुष्ठानस्य रीतिं च पृच्छति –

समाधिस्थः इत्युक्ते स्थितप्रज्ञपुरुषस्य भाषा का ? स्थितप्रज्ञस्य ज्ञानाय किं लक्षणम् अस्ति ? अभिप्रायः अस्ति यद्, तस्य स्वरूपं कीदृशं भवति ? तथा च सः स्थितप्रज्ञः पुरुषः स्वयं किं भाषणादि करोति ? इति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
स्थितप्रज्ञस्य का भाषा...  पूर्वतनः
श्रुतिविप्रतिपन्ना ते
स्थितप्रज्ञस्य का भाषा... अग्रिमः
प्रजहाति यदा कामान्
स्थितप्रज्ञस्य का भाषा... 
साङ्ख्ययोगः

१)तं तथा कृपयाविष्टम्... २)कुतस्त्वा कश्मलमिदं... ३)क्लैब्यं मा स्म गमः पार्थ... ४)कथं भीष्ममहं सङ्ख्ये... ५)गुरूनहत्वा हि महानुभावान्... ६)न चैतद्विद्मः कतरन्नो गरीयो... ७)कार्पण्यदोषोपहतस्वभावः... ८)नहि प्रपश्यामि ममापनुद्याद्... ९)एवमुक्त्वा हृषीकेशं... १०)तमुवाच हृषीकेशः... ११)अशोच्यानन्वशोचस्त्वं... १२)न त्वेवाहं जातु नासं... १३)देहिनोऽस्मिन्यथा देहे... १४)मात्रास्पर्शास्तु कौन्तेय... १५)यं हि न व्यथयन्त्येते... १६)नासतो विद्यते भावो... १७)अविनाशि तु तद्विद्धि... १८)अन्तवन्त इमे देहा... १९)य एनं वेत्ति हन्तारं... २०)न जायते म्रियते वा कदाचिन्... २१)वेदाविनाशिनं नित्यं... २२)वासांसि जीर्णानि यथा विहाय... २३)नैनं छिन्दन्ति शस्त्राणि... २४)अच्छेद्योऽयमदाह्योऽयम्... २५)अव्यक्तोऽयमचिन्त्योऽयम्... २६)अथ चैनं नित्यजातं... २७)जातस्य हि ध्रुवो मृत्युः... २८)अव्यक्तादीनि भूतानि... २९)आश्चर्यवत्पश्यति कश्चिदेनम्... ३०)देही नित्यमवध्योऽयं... ३१)स्वधर्ममपि चावेक्ष्य... ३२)यदृच्छया चोपपन्नं... ३३)अथ चेत्त्वमिमं धर्म्यं... ३४)अकीर्तिं चापि भूतानि... ३५)भयाद्रणादुपरतं... ३६)अवाच्यवादांश्च बहून्... ३७)हतो वा प्राप्स्यसि स्वर्गं... ३८)सुखदुःखे समे कृत्वा... ३९)एषा तेऽभिहिता साङ्ख्ये... ४०)नेहाभिक्रमनाशोऽस्ति... ४१)व्यवसायात्मिका बुद्धिः... ४२)यामिमां पुष्पितां वाचं… ४३)कामात्मानः स्वर्गपरा… ४४)भोगैश्वर्यप्रसक्तानां... ४५)त्रैगुण्यविषया वेदा... ४६)यावानर्थ उदपाने... ४७)कर्मण्येवाधिकारस्ते... ४८)योगस्थः कुरु कर्माणि... ४९)दूरेण ह्यवरं कर्म... ५०)बुद्धियुक्तो जहातीह... ५१)कर्मजं बुद्धियुक्ता हि... ५२)यदा ते मोहकलिलं... ५३)श्रुतिविप्रतिपन्ना ते... ५४)स्थितप्रज्ञस्य का भाषा... ५५)प्रजहाति यदा कामान्... ५६)दुःखेष्वनुद्विग्नमनाः... ५७)यः सर्वत्रानभिस्नेहः... ५८)यदा संहरते चायं... ५९)विषया विनिवर्तन्ते... ६०)यततो ह्यपि कौन्तेय... ६१)तानि सर्वाणि संयम्य... ६२)ध्यायतो विषयान्पुंसः... ६३)क्रोधाद्भवति सम्मोहः... ६४)रागद्वेषवियुक्तैस्तु... ६५)प्रसादे सर्वदुःखानां... ६६)नास्ति बुद्धिरयुक्तस्य... ६७)इन्द्रियाणां हि चरतां... ६८)तस्माद्यस्य महाबाहो... ६९)या निशा सर्वभूतानां... ७०)आपूर्यमाणमचल... ७१)विहाय कामान्यः सर्वान्... ७२)एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

स्थितप्रज्ञस्य का भाषा... श्लोकःस्थितप्रज्ञस्य का भाषा... पदच्छेदःस्थितप्रज्ञस्य का भाषा... अन्वयःस्थितप्रज्ञस्य का भाषा... शब्दार्थःस्थितप्रज्ञस्य का भाषा... व्याकरणम्स्थितप्रज्ञस्य का भाषा... अर्थःस्थितप्रज्ञस्य का भाषा... भावार्थः [१]स्थितप्रज्ञस्य का भाषा... मर्मःस्थितप्रज्ञस्य का भाषा... शाङ्करभाष्यम् [३]स्थितप्रज्ञस्य का भाषा... रामानुजभाष्यम् [४]स्थितप्रज्ञस्य का भाषा... सम्बद्धाः लेखाःस्थितप्रज्ञस्य का भाषा... बाह्यसम्पर्कतन्तुःस्थितप्रज्ञस्य का भाषा... उद्धरणम्स्थितप्रज्ञस्य का भाषा... अधिकवाचनायस्थितप्रज्ञस्य का भाषा...अर्जुनः (हैहयः)कर्मयोगकृष्णःसञ्चिका:स्थितप्रज्ञस्य का भाषा.wavसाङ्ख्ययोगस्थितप्रज्ञस्य का भाषा.wav

🔥 Trending searches on Wiki संस्कृतम्:

५१४११८५५७४१२९८१५००७२७१८१०१६१६४२४३४६८०आहारः१७३२३२६६३४३७१७५०५९४५६२६६३३८५२०१३४४१५७१३७८१६७३१२९७१४१६४५१७९६५३८९२९३५२१३७१६५१६८८३०११५८३९५१२९२१७८०५७७१२४८४७३३९२२६५१३९३५९०६१९१५१२६०७१४९७३६५४२६११५१२३९५४१२६०७५२१६५६४५३१८१२१२१९६५१४१९४८६५२७३९१३५१२५५४६११७४०६८५१७७३११०३७८९११६७🡆 More