या निशा सर्वभूतानाम् ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः युक्तायुक्तयोः पुरुषयोः को वा भेदः ? इति प्रदर्शयति । पूर्वस्मिन् श्लोके युक्तस्य मनुष्यस्य स्थिरबुद्धेः, सप्तषष्टे श्लोके अयुक्तस्य बुद्धिहरणस्य च उपस्थापनोत्तरम् अत्र तयोः उभयोः भेदं निरूपयति ।
या निशा सर्वभूतानां... युक्तायुक्तयोः भेदः | |
---|---|
श्लोकसङ्ख्या | २/६९ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | तस्माद्यस्य महाबाहो... |
अग्रिमश्लोकः | आपूर्यमाणमचलप्रतिष्ठं... |
या, निशा, सर्वभूतानाम्, तस्याम्, जागर्ति, संयमी । यस्याम्, जाग्रति, भूतानि, सा, निशा, पश्यतः, मुनेः ॥
सर्वभूतानां या निशा तस्यां संयमी जागर्ति, यस्यां भूतानि जाग्रति सा पश्यतः मुनेः निशा ।
अन्वयः | विवरणम् | सरलसंस्कृतम् |
सर्वभूतानाम् | अ.नपुं.ष.बहु | समस्तप्राणिनाम् |
या | यत्-त.सर्व.स्त्री.प्र.एक. | या |
निशा | आ.स्त्री.प्र.एक. | रात्रिः (अप्रवृत्तिभूमिः) |
तस्याम् | तद्-द.सर्व.स्त्री.स.एक. | तस्यां रात्रौ |
संयमी | संयमिन्-न.पुं.प्र.एक. | योगी |
जागर्ति | √जागृ निद्राक्षये-पर.कर्तरि, लट्.प्रपु.एक. | जागरूकः भवति (प्रवर्तते) |
भूतानि | अ.नपुं.प्र.बहु | प्राणिनः |
यस्याम् | यद्-द.सर्व.स्त्री.स.एक. | यस्यां रात्रौ (विषयराशौ) |
जाग्रति | √जागृ निद्राक्षये-पर.कर्तरि, लट्.प्रपु.बहु. | जागरूकानि भवन्ति |
सा | तद्-द.सर्व.स्त्री.प्र.एक. | सा |
पश्यतः | पश्यत्-त.पुं.ष.एक. | विचारवतः |
मुनेः | इ.पुं.ष.एक. | संयमिनः |
निशा | आ.स्त्री.प्र.एक. | रात्रिः (अप्रवृत्तिभूमिः) । |
यस्मिन् सर्वे प्राणिनः न प्रवर्तन्ते तादृशे ब्रह्मणि योगी सर्वदा प्रवृत्तिशीलः भवति । यस्मिन् पुनः सर्वे प्राणिनः प्रवर्तन्ते तादृशे विषयप्रपञ्चे विचारवतः योगिनः प्रवृत्तिः न भवति ।
सर्वेषां मनुष्याणां या रात्रिः (परमात्मविमुखता) अस्ति, तस्यां संयमी मनुष्यः जागृतः भवति । तथा च यदा साधारणमनुष्यः जागृतः भवति (भोगसङ्ग्रहणरूपिण्यां रात्र्यां), तदा तत्त्वज्ञानिनः मुनेः कृते रात्रिः भवति । 'या निशा सर्वभूतानाम्' – यस्य इन्द्रियाणि, मनश्च वशे न सन्ति, ये भोगेषु आसक्ताः सन्ति, ते सर्वे परमात्मतत्त्वदृष्ट्या सुप्ताः सन्ति । परमात्मा कः ? किं तत्त्वज्ञानं ? वयं किमर्थं दुःखिनः स्मः ? सन्तापादयः किमर्थं सन्ति ? वयं यत्किमपि कुर्मः, तस्य कः परिणामः भविष्यति ? इत्यादीनां विषयाणाम् अचिन्तनम् एव तेषां रात्रिः अस्ति । यतो हि एतेभ्यः विषयेभ्यः अज्ञानमेव तेभ्यः मनुष्येभ्यः अन्धकारः अस्ति ।
'तस्यां जागर्ति संयमी' – मनुष्यस्य या रात्रिः अस्ति अर्थात् परमात्मानं, स्वकल्याणं च प्रति अध्यानम् अस्ति, तस्यां रात्रौ संयमी मनुष्यः जागर्ति । येन इन्द्रियाणि, मनश्च वशीकृतानि सन्ति, येन भोगसङ्ग्रहयोः आसक्तिः त्यक्ता, येन परमात्मप्राप्तिः इति लक्ष्यं कल्पितं, सः संयमी मनुष्यः अस्ति । परमात्मतत्त्वस्य, स्वरूपस्य, संसारस्य च यथार्थज्ञानम् एव तेषां सिद्धानां मनुष्याणां जागृतिः उच्यते ।
'यस्यां जाग्रति भूतानि' – उपभोगे, सङ्ग्रहणे च सावधानता एव तेषां मनुष्याणां जागृतिः उच्यते । यथा – स्वाधिकारे अधिकाधिकं धनं भवेत् (भवतु, तद्धनम् अन्यायपूर्णरीत्यापि आगच्छेत्), एतावत्तु मे अधिकारे अस्ति, अतः एतावान् लाभः तु मया निश्चयेन प्राप्तः इत्यादिषु संसारस्य क्षणभङ्गुरवस्तुषु सङ्ग्रहभावः मनुष्यस्य सावधानता अस्ति । मनुष्यः सत्कारं, प्रशंसां च प्रति अति संलग्नः भवति, सा तत्परता तस्य सावधानतायाः प्रमाणम् अस्ति । सा सावधानता एव तेषां जागृतिः उच्यते ।
'सा निशा पश्यतो मुनेः' – ये सांसारिकपदार्थानां भोगे, सङ्ग्रहे च स्वचातुर्यं योजयन्ति, पश्चात् तस्य चातुर्यस्य उपयोगत्वात् प्रसन्नाः भवन्ति, ते मनुष्याः संयमिभ्यः मनुष्येभ्यः सुप्ताः सन्ति । तेषां सर्वेऽपि क्रियाकलापाः परमात्मत्त्वज्ञातुः कृते रात्रिसमानाः सन्ति । बालकाः क्रीडाकाले प्रस्तरेभ्यः, काचस्य वर्णमयखण्डेभ्यः सङ्घर्षं कुर्वन्ति । तस्मिन् सङ्घर्षे येन अधिकं प्राप्तं सः लाभं प्राप्तवान् इति विचिन्त्य हर्षितः भवति, तथा च यः तस्मिन् सङ्घर्षे किमपि न प्राप्तवान् सः हानिः अभवत् इति विचिन्त्य दुःखी भवति । परन्तु यस्य मनसि प्रस्तराणां, काचखण्डानां च किञ्चिदपि महत्त्वं नास्ति, सः बुद्धिशाली पुरुषः चिन्तयति यत्, "सङ्घर्षोत्तरं पाषाणप्राप्त्या कः लाभः, पाशाणाप्राप्त्या च का हानिः अभवत् ?" इति । ते बालकाः पाषाणादिकं प्राप्स्यन्ति चेदपि कियान् समयं यावत् ते स्वस्य पार्श्वे तत्सर्वं स्थापयिष्यन्ति ? तथैव भोगसङ्ग्रहादिषु मग्नाः मनुष्याः भोगादिभ्यः कलहं, कपटम्, असत्यं, विश्वासघातं च कृत्वा भोग्यवस्तूनि प्राप्य अहं लाभं प्राप्तवान् इति विचिन्त्य हर्षिताः भवन्ति । परन्तु संसारस्य, परमात्मतत्त्वस्य ज्ञाता मननशीलः संयमी पुरुषः स्पष्टतया पश्यति यत्, भोगे, माने च प्राप्ते, शृङ्गारे कृते, भोजने प्राप्ते मनुष्येण किं प्राप्तम् ? तेषु किं तेन सह गमिष्यति ? ते कियन्तं समयं यावत् तानि उपभोगवस्तूनि स्थापयितुं शक्ष्यन्ति ? भोगेभ्यः उद्भूता तृप्तिः कदा पर्यन्तं स्थास्यति ? एवं तस्य ज्ञानिनः पुरुषस्य कृते भोगिमनुष्यस्य जागर्या रात्रिवत् अस्ति । सः मननशीलपुरुषः परमात्मानं, स्वं, संसारं च जानाति, ततोधिकं कः पदार्थः कस्य कृते उपयोगी अस्ति इत्यपि जानाति । अतः सः पदार्थानां योग्यस्थाने उपयोगं कर्तुम् अपि सम्भवति । एवं सः अन्येषां सेवां करोति । नेत्रयोः दोषे सति आकाशे जालिकाः दरीदृश्यन्ते, परन्तु नेत्रयोः निमीलितयोः सतोः अपि ताः जालिकाः मयूरपिच्छवत् प्रत्यक्षाः भवन्ति । तत् सर्वं दृष्टे सत्यपि अस्माकं बुद्धिः अचला, विश्वस्ता च भवति यत्, आकाशे न काश्चन जालिकाः । तथैव इन्द्रियैः, अन्तःकरणेन च संसारे द्रष्टे सत्यपि मननशीलस्य संयमिपुरुषस्य बुद्धौ निश्चयः भवति यत्, वास्तव्येन संसारः नास्ति, केवलं प्रतीतिरेवास्ति इति ।
अत्र 'भूतानाम्' इत्यस्य तात्पर्यम् अस्ति यत्, यथा पशुपक्षीत्यादयः सर्वदा भोजनादिषु एव संलग्नाः भवन्ति, तथैव ये मनुष्याः धनसञ्चयाय, भोगसङ्ग्रहाय च सम्पूर्णं समयं यापयन्ति, ते पुशुतुल्याः सन्ति । किञ्च परमात्मतत्त्वात् विमुखे सति पशुपक्षीत्यादिषु, मनुष्येषु च किमपि अन्तरं नावशिष्यते । ते सर्वे परमात्मतत्त्वस्य दृष्ट्या तु सुप्ताः एव सन्ति । तयोः तावदेव अन्तरम् अस्ति यत्, पशुपक्षीत्यादिषु विवेकशक्तिः जागृता नास्ति, अतः ते भोजनादिषु विषयेषु संलग्नाः भवन्ति । तथा च मनुष्ये ईश्वरकृपया विवेकशक्तिः जागृता अस्ति, सः स्वकल्याणेन सह अन्येषाम् अपि कल्याणं कर्तुं समर्थः अस्ति, परन्तु सः विवेकशक्तेः दुरुपयोगं कृत्वा पदार्थसङ्ग्रहे रतः सन् भोगमग्नः भवति । तेन संसाराय तादृशाः मनुष्याः पशुपक्षीत्यादिभ्यः अपि अधिकाः दुःखदायिनः भवन्ति । यतो हि पशुपक्षीत्यादयः तु यावती बुभुक्षा अस्ति, तावदेव भोजनं कुर्वन्ति, ते सङ्ग्रहं न कुर्वन्ति । परन्तु मनुष्याः कदापि पदार्थादीनां सङ्ग्रहस्य अवसरं न त्यजन्ति । मनुष्याः आवश्यकानावश्यकानां वस्तूनां सङ्ग्रहणं कुर्वन्ति, ततोऽधिकं ते अन्येभ्यः उपयुक्तं वस्तु अपि दुष्प्राप्यं कुर्वन्ति ।
योऽयं लौकिको वैदिकश्च व्यवहारः स उत्पन्नविवेकज्ञानस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निवर्तते अविद्यायाश्च विद्याविरोधात् निवृत्तिः इत्येतमर्थं स्फुटीकुर्वन् आह -
या निशा रात्रिः सर्वपदार्थानामविवेककरी तमःस्वभावत्वात् सर्वभूतानां सर्वेषां भूतानाम्। किं तत् परमार्थतत्त्वं स्थितप्रज्ञस्य विषयः। यथा नक्तञ्चराणाम् अहरेव सदन्येषां निशा भवति तद्वत् नक्तञ्चरस्थानीयानामज्ञानां सर्वभूतानां निशेव निशा परमार्थतत्त्वम् अगोचरत्वादतद्बुद्धीनाम्। तस्यां परमार्थतत्त्वलक्षणायामज्ञाननिद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान् जितेन्द्रियो योगीत्यर्थः। यस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां प्रसुप्तान्येव भूतानि जाग्रति इति उच्यन्ते यस्यां निशायां प्रसुप्ता इव स्वप्नदृशः सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो मुनेः।।
अतः कर्माणि अविद्यावस्थायामेव चोद्यन्ते न विद्यावस्थायाम्। विद्यायां हि सत्याम् उदिते सवितरि शार्वरमिव तमः प्रणाशमुपगच्छति अविद्या। प्राक् विद्योत्पत्तेः अविद्या प्रमाणबुद्ध्या गृह्यमाणा क्रियाकारकफलभेदरूपा सती सर्वकर्महेतुत्वं प्रतिपद्यते। न अप्रमाणबुद्ध्या गृह्यमाणायाः कर्महेतुत्वोपपत्तिः प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं कर्म इति हि कर्मणि कर्ता प्रवर्तते न अविद्यामात्रमिदं सर्वं निशेव इति। यस्य पुनः निशेव अविद्यामात्रमिदं सर्वं भेदजातम् इति ज्ञानं तस्य आत्मज्ञस्य सर्वकर्मसंन्यासे एव अधिकारो न प्रवृत्तौ। तथा च दर्शयिष्यति तद्बुद्धयस्तदात्मानः इत्यादिना ज्ञाननिष्ठायामेव तस्य अधिकारम्।।
तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिः इति चेत् न स्वात्मविषयत्वादात्मविज्ञानस्य। न हि आत्मनः स्वात्मनि प्रवर्तकप्रमाणापेक्षता आत्मत्वादेव। तदन्तत्वाच्च सर्वप्रमाणानां प्रमाणत्वस्य। न हि आत्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारः संभवति। प्रमातृत्वं हि आत्मनः निवर्तयति अन्त्यं प्रमाणम् निवर्तयदेव च अप्रमाणीभवति स्वप्नकालप्रमाणमिव प्रबोधे। लोके च वस्त्वधिगमे प्रवृत्तिहेतुत्वादर्शनात् प्रमाणस्य। तस्मात् न आत्मविदः कर्मण्यधिकार इति सिद्धम् ।।
सर्वेऽपि लौकिकव्यवहाराः अविद्यायाः कार्यम् अस्ति । अतः विवेकज्ञानप्राप्ताय स्थितप्रज्ञाय अविद्यानिवृत्त्या सह ते व्यवहाराः अपि निवृत्ताः भवन्ति । तथा च अविद्यायाः विद्यया सह विरोधात् तस्याः अपि निवृत्तिः भवति । एनम् अभिप्रायं स्पष्टयितुं वदति यत् –
तामसस्वभावत्वात् पदार्थान् प्रति अविवेकोत्पादिकायाः रात्र्याः नाम निशा इति । सर्वेषां भूतानां या निशा अर्थात् रात्रिः अस्ति । सा निशा का ? इत्यस्य उत्तरत्वेन "परमार्थतत्त्वम्" इति कथयति । तत् परमार्थतत्त्वं स्थिप्रज्ञस्य विषयः भवति । अर्थात् स्थितप्रज्ञेन ज्ञेयम् इति परमार्थतत्त्वम् । यथा उलूकादिभ्यः निशाचरेभ्यः अन्येषां दिनं रात्रिः भवति, तथैव निशाचरस्थानीयाः सम्पूर्णतया अज्ञानिनः ये मनुष्याः सन्ति, तेषु परमार्थतत्त्वविषयिणी बुद्धिः नास्ति । इदं परमार्थतत्त्वं सर्वेभ्यः भूतेभ्यः अज्ञातत्वात् निशावत् निशा अस्ति । तस्यां निशायां अज्ञाननिद्रायाः जागृतः संयमी जितेन्द्रियः योगी जागर्ति इत्यर्थः ।
ग्राह्यग्राहकभेदत्वेन यस्यां अविद्यारूपिण्यां रात्र्यां सर्वे प्राणिनः स्वपन्तः अपि जाग्रति, अर्थात् यस्यां निशायां सर्वे प्राणिनः स्वप्नद्रष्टृत्वेन जाग्रति, तस्याः निशायाः तत् सम्पूर्णं दृश्यम् (सा रात्रिः) अविद्यारूपत्वात् परमार्थतत्त्वज्ञात्रे मुनये रात्रिः अस्ति । अतः सिद्ध्यति यत्, अविद्यावस्थायाम् एव मनुष्येभ्यः कर्मणः विधानानि भवन्ति, न तु विद्यावस्थायाम् । किञ्च सूर्योदयोत्तरं रात्र्याः अन्धकारः यथा स्वतः नश्यति, तथैव ज्ञानोदयोत्तरम् अज्ञानं स्वत एव नश्यति । ज्ञानोत्पत्तेः प्राक् प्रमाणबुद्ध्या ग्रहीता अविद्या एव क्रिया, कारणं, फलम् इत्यादिषु भेदेषु परिणमय्य सर्वेषां कर्मणां हेतुः भवितुम् अर्हति । सा अप्रमाणबुद्ध्या ग्रहीता अविद्या कर्मणः कारणं न भवितुम् अर्हति । यतः "प्रमास्वरूपः वेदः मह्यम् अमुकानां कर्तव्यकर्मणां विधानानि अकरोत्" इति मत्त्वैव कर्ता कर्मसु प्रवृत्तः भवति । "तत् सर्वं रात्रिवत् अविद्यामात्रम् अस्ति" इति मत्वा न भवति ।
यः ज्ञातवान् अस्ति यत्, एतत् सर्वं दृश्यमानं सर्वं रात्रिवत् अविद्यामात्रम् अस्ति, तस्य आत्मज्ञानिनः सर्वेभ्यः कर्मभ्यः संन्यासे एव अधिकारः अस्ति अर्थात् प्रवृत्तौ अधिकारः नास्ति इति । एवं 'तद्बुद्धयस्तदात्मानः' इत्यादिभ्यः श्लोकेभ्यः तस्य ज्ञानिनः अधिकारः ज्ञाननिष्ठायाम् एव प्रदर्शयिष्यति ।
पूर्वपक्षः – तस्यां ज्ञाननिष्ठायां प्रवृत्तकप्रमाणानाम् (विधिवाक्यानाम्) अभावः अस्ति । अतः तस्यां ज्ञाननिष्ठायाम् अपि तत्त्ववेतॄणां प्रवृत्तिः न भवितुम् अर्हति ।
उत्तरपक्षः – एवं कथनम् अयोग्यम् । यतः आत्मज्ञानं स्वरूपं विषयीकरोति । अतः स्वरूपज्ञानस्य विषये प्रवृत्तकप्रमाणानाम् अपेक्षा एव नास्ति । तद् आत्मज्ञानं स्वयम् आत्मत्वात् स्वतःसिद्धम् अस्ति । तस्मिन् एव सर्वेषां प्रमाणानां प्रमाणत्वस्य अन्तः अस्ति । अर्थात् आत्मज्ञानप्राप्तिपर्यन्तम् एव प्रमाणानां प्रमाणत्वम् अस्ति, अतः आत्मस्वरूपस्य साक्षात्कारे सति प्रमाणानां, प्रमेयानां च व्यवहार एव न सम्भवति । आत्मज्ञानरूपम् अन्तिमप्रमाणम् आत्मानं प्रमातृत्वेन (अङ्कारकर्तृत्वेन) निवर्तते । प्रमातृनिवृत्त्युत्तरं जागृतः सः स्वयम् आत्मा अपि स्वप्नकालीनप्रमाणवत् अप्रमाणीभवति । अर्थात् लुप्तः भवति इति । यतः व्यवहारेऽपि वस्तुप्राप्त्युत्तरम् अपि प्रमाणाय (प्राप्तवस्तुनः प्राप्तेः कृते) प्रवृत्तेः हेतुः एव न अवशिष्यते । अतः एवं सिद्ध्यति यत्, आत्मज्ञानिनः कर्मसु अधिकारः नास्ति इति ।
एवं नियतेन्द्रियस्य प्रसन्नमनसः सिद्धिम् आह -
या आत्मविषया बुद्धिः सर्वभूतानां निशा निशा इव अप्रकाशिका। तस्याम् आत्मविषयायां बुद्धौ इन्द्रिय संयमी प्रसन्नमना जागर्ति आत्मानम् अवलोकयन् आस्ते इत्यर्थः। यस्यां शब्दादिविषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति सा शब्दादिविषया बुद्धिः आत्मानं पश्यतो मुनेः निशा इव अप्रकाशिका भवति।
एवं यस्य बुद्धिः वशीभूता अस्ति, मनश्च प्रसन्नं (निर्मलं) जातम् अस्ति, तस्य पुरुषस्य सिद्धेः वर्णनं करोति –
या आत्मविषयिणी बुद्धिः समस्तेभ्यः प्राणिभ्यः रात्रिवद् अस्ति अर्थाद् प्रकाशरहिता अस्ति, तस्यां रात्र्याम् आत्मविषयकबुद्ध्या प्रसन्नमनस्कः पुरुषः जागर्ति । अर्थात् आत्मसाक्षात्कारं करोति इति । शब्दादिविषयेषु संयुक्तायां यस्यां बुद्ध्यां समस्तप्राणिनः जाग्रति अर्थाद् सावधानाः भवन्ति, सा शब्दादिविषयेषु संयुक्ता बुद्धिः आत्मसाक्षात्काररताय मुनये रात्रिवद् प्रकाशरहिता अस्ति ।
|
विकिमीडिया कॉमन्स् मध्ये या निशा सर्वभूतानां... सम्बन्धिताः सञ्चिकाः सन्ति। |
This article uses material from the Wikipedia संस्कृतम् article या निशा सर्वभूतानां..., which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.