नैनं छिन्दन्ति शस्त्राणि...

नैनं छिन्दन्ति शस्त्राणि ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनः निर्विकारित्वं बोधयति । पूर्वस्मिन् श्लोके भगवान् शरीरिणः निर्विकारितायाः वर्णनं वस्त्रपरिवर्तनस्य दृष्टान्तत्वेन अकरोत्, अत्र तमेव विषयं प्रकारान्तरेण बोधयन् अग्रे वर्णयति । सः कथयति यत्, शस्त्राणि एनं शरीरिणं छेत्तुं, अग्निः दाहयितुं, जलं क्लिन्दितुं, वायुः शोषयितुञ्च न शक्नुवन्ति इति ।

नैनं छिन्दन्ति शस्त्राणि...


आत्मनः निर्विकारित्वम्
नैनं छिन्दन्ति शस्त्राणि...
श्लोकसङ्ख्या २/२३
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः वासांसि जीर्णानि यथा...
अग्रिमश्लोकः अच्छेद्योऽयमदाह्योऽयम्...

श्लोकः

नैनं छिन्दन्ति शस्त्राणि... 
गीतोपदेशः
    नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
    न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥

पदच्छेदः

न एनम्, छिन्दन्ति, शस्त्राणि, न, एनम्, दहति, पावकः । न, च, एनम्, क्लेदयन्ति, आपः, न, शोषयति, मारुतः ॥

अन्वयः

शस्त्राणि एनं न छिन्दन्ति । पावकः एनं न दहति । आपः एनं न क्लेदयन्ति । मारुतः च न शोषयति ।

शब्दार्थः

    अन्वयः विवरणम् सरलसंस्कृतम्
    शस्त्राणि अ.नपुं.प्र.बहु. आयुधानि
    एनम् एतद्.द.सर्व.पुं.द्वि.एक. इमम् आत्मानम्
    अव्ययम्
    छिन्दन्ति √छिदिर् द्वैधीकरणे-पर.कर्तरि, लट्.प्रपु.बहु. खण्डयन्ति
    पावकः अ.पुं.प्र.एक. अग्निः
    एनम् एतद्.द.सर्व.पुं.द्वि.एक. अमुम्
    अव्ययम्
    दहति √दह दहने-पर.कर्तरि, लट्.प्रपु.एक. भस्मीकरोति
    आपः अप्-प.स्त्री.प्र.बहु. उदकानि
    एनम् एतद्.द.सर्व.पुं.द्वि.एक. अमुम्
    अव्ययम्
    मारुतः अ.पुं.प्र.एक. वायुः
    क्लेदयन्ति √क्लिद्(णिच्)-पर.कर्तरि, लट्.प्रपु.बहु. आर्द्रीकुर्वन्ति
    अव्ययम् अपि
    अव्ययम्
    शोषयति शुष्(णिच्)-पर.कर्तरि, लट्.प्रपु.एक. शुष्कं करोति ।

व्याकरणम्

सन्धिः

  1. नैनम् = न + एनम् - वृद्धिसन्धिः
  2. क्लेदयन्त्यापः = क्लेदयन्ति + आपः - यण्सन्धिः
  3. आपो न = आपः + न – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः

अर्थः

एनम् आत्मानं शस्त्राणि छेत्तुं न प्रभवन्ति । अग्निः एनं दग्धुं न प्रभवति । जलम् एनं नैव आर्द्रीकर्तुं शक्नोति । वायु: अपि एनं शोषयितुं न प्रभवति ।

भावार्थः

'नैनं छिन्दन्ति शस्त्राणि', 'नैनं दहति पावकः', 'न चैनं क्लेदयन्त्यापः', 'न शोषयति मारुतः' – एनं शरीरं शस्त्राणि भेदयितुं न शक्नुवन्ति । अग्निः शरीरिणमेनं दाहयितुं न शक्नोति । जलं क्लिन्दितुं न शक्नोति । वायुः शोषयितुं न शक्नोति । यतो हि एते प्राकृतिकपदार्थाः तत्र आत्मात्त्वं यावद् गन्तुं न शक्नुवन्ति । ये पदार्थाः सन्ति, ते जडाः सन्ति । ते पदार्थाः शरीरिणि कमपि विकारं जनयितुं न शक्नुवन्ति । एवञ्च ते पदार्थाः शरीरिणः समीपे प्राप्तुमेव न शक्नुवन्ति अतः विकृतिः तु असम्भवा एव ।

पृथ्वी-जल-तेजो-वायु-आकाशाः महाभूताः । भगवान् एतेषु केवलं चतुर्णाम् एव उल्लेखम् अकरोत् । अत्र आकाशस्य तु न कापि चर्चा अस्ति । अस्य कारणम् अस्ति यत्, आकाशे काऽपि क्रिया न सम्भवति । क्रियायाः (विकृतेः) शक्तिः तु आकाशं विहाय अन्येषु महाभूतेषु एव अस्ति । आकाशं तु तेभ्यः सर्वेभ्यः केवलम् आवकाशं यच्छति । आकाशादेव अन्ये चत्वारः महाभूताः समुत्पन्नाः । परन्तु ते स्वस्य कारणभूते आकाशे विकारं जनयितुं न पारयन्ति । अर्थात् पृथ्वी आकाशं भेत्तुं, जलम् आकाशं क्लिन्दितुम्, अग्निः आकाशं दाहयितुं, वायुः आकाशं शोषयितुं च न शक्नोति । यदि एते चत्वारः महाभूताः स्वकारणभूतम् आकाशम्, आकाशस्य कारणभूतं महत्तत्त्वं, महत्तत्त्वस्य कारणभूतं प्रकृतिं च प्रभावयितुं न शक्नुवन्ति, तर्हि प्रकृतेः अपि परस्य शरीरिणः उपरि प्रभावं जनयितुं तु कथं शक्येरन् ? एतैः गुणधर्मैः युक्तं निर्गुणतत्त्वपर्यन्तं प्राप्तिः तु कथं प्रभवेत् ? तन्न सम्भवम् ।

शरीरी नित्यः अस्ति । पृथ्व्यादयः चत्वारः पदार्थाः तस्माद् नित्यतत्त्वादेव सत्तास्फूर्तिं प्राप्नुवन्ति । एवं ये पदार्थाः यस्माद् तत्त्वाद् सत्तास्फूर्तिं प्राप्नुवन्ति, ते तं पदार्थं विकृतं कर्तुं कथं शक्नुवन्ति ? आत्मतत्त्वं सर्वव्यापकम् अस्ति, तथा च पृथ्व्यादयः चत्वारः पदार्थाः व्याप्याः अर्थात् शरीरिणः अन्तर्गततया एव ते पदार्थाः । एवं व्याप्यं वस्तु व्यापकं विकृतं कर्तुं कथं पारयति ? अर्थात् व्याप्यपदार्थेभ्यः व्यापके विकारः असम्भवः एव ।

युद्धप्रसङ्गे एव अर्जुनस्य मनसि आत्मजनानां मरणसम्बद्धः शोकः समुत्पन्नः । अतः भगवान् तं बोधयति यत्, अस्त्रशस्त्रादीनां क्रिया आत्मतत्त्वपर्यन्तं प्राप्तुमेव न शक्नोति, तर्हि तद् कथं मरिष्यति ? अर्थात्, शस्त्रैः शरीरस्योपरि आघातादयः शक्यन्ते, परन्तु शरीरिणि तु नैव । अग्न्यस्त्रद्वारा शरीरे दग्धे सति शरीरी न दह्यते । वरुणास्त्रद्वारा शरीरं तु क्लिन्नं भवति, परन्तु शरीरी न । वाय्वास्त्रद्वारा शरीरं शुष्कं भवति, न तु शरीरी । तात्पर्यम् अस्ति यत्, अस्त्रशस्त्रादिभिः शरीरं तु मरिष्यति, परन्तु शरीरी न । प्रत्युत शरीरी तु यथास्वभावं निर्विकारी एव तिष्ठति । अतः तस्य कृते शोकः मौढ्यम् अस्ति इति ।

शाङ्करभाष्यम्

कस्मात् अविक्रिय एवेति आह -

नैनं छिन्दन्तीति । एनं प्रकृतं देहिनं न च्छिन्दन्ति शस्त्राणि निरवयवत्वात् न अवयवविभागं कुर्वन्ति। शस्त्राणि अस्यादीनि। तथा न एनं दहति पावकः अग्निरपि न भस्मीकरोति। तथा न च एनं क्लेदयन्ति आपः। अपां हि सावयवस्य वस्तुनः आर्द्रीभावकरणेन अवयवविश्लेषापादने सामर्थ्यम्। तत् न निरवयवे आत्मनि संभवति। तथा स्नेहवत् द्रव्यं स्नेहशोषणेन नाशयति वायुः। एनं तु आत्मानं न शोषयति मारुतोऽपि।।

भाष्यार्थः

आत्मा सदा निर्विकारः कथम् ? चेद् कथयति –

तम् उपर्युक्तम् आत्मानं शस्त्राणि छेत्तुं न शक्नुवन्ति इत्यस्य अभिप्रायः अस्ति यद्, अवयवरहितत्वाद् अस्यादीनि शस्त्राणि तस्य आत्मनः अङ्गानां विभागं कर्तुं न शक्नुवन्ति । तथैव अग्निः तं न दहति अर्थात् अग्निः अपि तं भस्मीभूतं कर्तुं न प्रभवति । जलं न तं क्लेदयति । यतः सावयववस्तूनामेव क्लेदनं कृत्वा तेषाम् अङ्गानि पृथक् कर्तुं जले सामर्थ्यम् । निरवयविनि आत्मनि तथा असम्भवम् । तथैव वायौ आर्द्रद्रव्यस्य आर्द्रतां शोषयितुं सामर्थ्यं भवति । अतः वायुः अपि आत्मस्वरूपस्य आत्मनः शोषणं कर्तुं न शक्नोति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
नैनं छिन्दन्ति शस्त्राणि...  पूर्वतनः
वासांसि जीर्णानि यथा विहाय...
नैनं छिन्दन्ति शस्त्राणि... अग्रिमः
अच्छेद्योऽयमदाह्योऽयम्...
नैनं छिन्दन्ति शस्त्राणि... 
साङ्ख्ययोगः

१)तं तथा कृपयाविष्टम्... २)कुतस्त्वा कश्मलमिदं... ३)क्लैब्यं मा स्म गमः पार्थ... ४)कथं भीष्ममहं सङ्ख्ये... ५)गुरूनहत्वा हि महानुभावान्... ६)न चैतद्विद्मः कतरन्नो गरीयो... ७)कार्पण्यदोषोपहतस्वभावः... ८)नहि प्रपश्यामि ममापनुद्याद्... ९)एवमुक्त्वा हृषीकेशं... १०)तमुवाच हृषीकेशः... ११)अशोच्यानन्वशोचस्त्वं... १२)न त्वेवाहं जातु नासं... १३)देहिनोऽस्मिन्यथा देहे... १४)मात्रास्पर्शास्तु कौन्तेय... १५)यं हि न व्यथयन्त्येते... १६)नासतो विद्यते भावो... १७)अविनाशि तु तद्विद्धि... १८)अन्तवन्त इमे देहा... १९)य एनं वेत्ति हन्तारं... २०)न जायते म्रियते वा कदाचिन्... २१)वेदाविनाशिनं नित्यं... २२)वासांसि जीर्णानि यथा विहाय... २३)नैनं छिन्दन्ति शस्त्राणि... २४)अच्छेद्योऽयमदाह्योऽयम्... २५)अव्यक्तोऽयमचिन्त्योऽयम्... २६)अथ चैनं नित्यजातं... २७)जातस्य हि ध्रुवो मृत्युः... २८)अव्यक्तादीनि भूतानि... २९)आश्चर्यवत्पश्यति कश्चिदेनम्... ३०)देही नित्यमवध्योऽयं... ३१)स्वधर्ममपि चावेक्ष्य... ३२)यदृच्छया चोपपन्नं... ३३)अथ चेत्त्वमिमं धर्म्यं... ३४)अकीर्तिं चापि भूतानि... ३५)भयाद्रणादुपरतं... ३६)अवाच्यवादांश्च बहून्... ३७)हतो वा प्राप्स्यसि स्वर्गं... ३८)सुखदुःखे समे कृत्वा... ३९)एषा तेऽभिहिता साङ्ख्ये... ४०)नेहाभिक्रमनाशोऽस्ति... ४१)व्यवसायात्मिका बुद्धिः... ४२)यामिमां पुष्पितां वाचं… ४३)कामात्मानः स्वर्गपरा… ४४)भोगैश्वर्यप्रसक्तानां... ४५)त्रैगुण्यविषया वेदा... ४६)यावानर्थ उदपाने... ४७)कर्मण्येवाधिकारस्ते... ४८)योगस्थः कुरु कर्माणि... ४९)दूरेण ह्यवरं कर्म... ५०)बुद्धियुक्तो जहातीह... ५१)कर्मजं बुद्धियुक्ता हि... ५२)यदा ते मोहकलिलं... ५३)श्रुतिविप्रतिपन्ना ते... ५४)स्थितप्रज्ञस्य का भाषा... ५५)प्रजहाति यदा कामान्... ५६)दुःखेष्वनुद्विग्नमनाः... ५७)यः सर्वत्रानभिस्नेहः... ५८)यदा संहरते चायं... ५९)विषया विनिवर्तन्ते... ६०)यततो ह्यपि कौन्तेय... ६१)तानि सर्वाणि संयम्य... ६२)ध्यायतो विषयान्पुंसः... ६३)क्रोधाद्भवति सम्मोहः... ६४)रागद्वेषवियुक्तैस्तु... ६५)प्रसादे सर्वदुःखानां... ६६)नास्ति बुद्धिरयुक्तस्य... ६७)इन्द्रियाणां हि चरतां... ६८)तस्माद्यस्य महाबाहो... ६९)या निशा सर्वभूतानां... ७०)आपूर्यमाणमचल... ७१)विहाय कामान्यः सर्वान्... ७२)एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

नैनं छिन्दन्ति शस्त्राणि... श्लोकःनैनं छिन्दन्ति शस्त्राणि... पदच्छेदःनैनं छिन्दन्ति शस्त्राणि... अन्वयःनैनं छिन्दन्ति शस्त्राणि... शब्दार्थःनैनं छिन्दन्ति शस्त्राणि... व्याकरणम्नैनं छिन्दन्ति शस्त्राणि... अर्थःनैनं छिन्दन्ति शस्त्राणि... भावार्थः [१]नैनं छिन्दन्ति शस्त्राणि... शाङ्करभाष्यम् [३]नैनं छिन्दन्ति शस्त्राणि... सम्बद्धाः लेखाःनैनं छिन्दन्ति शस्त्राणि... बाह्यसम्पर्कतन्तुःनैनं छिन्दन्ति शस्त्राणि... उद्धरणम्नैनं छिन्दन्ति शस्त्राणि... अधिकवाचनायनैनं छिन्दन्ति शस्त्राणि...अग्निःकृष्णःजलंनैनं छिन्दन्ति शस्त्राणि.wavसञ्चिका:नैनं छिन्दन्ति शस्त्राणि.wav

🔥 Trending searches on Wiki संस्कृतम्:

हरियाणानीलःअल्बर्ट् ऐन्स्टैन्स्प्रिंग्फ़ील्ड्१८७०फरवरीषष्ठीचन्द्रःहनुमज्जयन्तीनेदर्लेण्ड्देशःस्वास्थ्यम्चाडहरिदुष्ट्रःद्वारका१८०४च्भारतसावित्रीकिरातार्जुनीयम्इतिहासःदस्ताअञ्‍जलि एला मेननपियासेञ्जाबहामासअरावलीवेदान्तः२५ जूनपृथ्वीजलम्ओल्बियाईथ्योपियाअगस्टा, जार्जियासुकरातत्पार्वतीमन्वन्तरम्चीनदेशःब्रह्मदेशःउत्तररामचरितम्सुभद्रा कुमारी चौहान१२२६कालिफोर्नियाविकिःरामायणम्कर्मण्येवाधिकारस्ते...२३ अप्रैलदक्षिण डकोटायदा यदा हि धर्मस्य...स्कान्दिच्चीसाहित्यदर्पणःबर्केलियमनैषधीयचरितम्कथासाहित्यम्वैश्विकस्थितिसूचकपद्धतिःहङ्गरीएतां विभूतिं योगं च...कालिदासस्य उपमाप्रसक्तिःविद्युदणुःकुमारसम्भवम्मदर् तेरेसावेस्‍ट वर्जिनियाउनउनहेक्जियममोजम्बीक१५५४सर्वमेतदृतं मन्ये...१५७८१९०७कमल् हासन्१६२७ मार्चकोलोम्बिया🡆 More