तस्माद्यस्य महाबाहो...

तस्माद्यस्य महाबाहो ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः युक्तपुरुषस्य बुद्धिस्थिरतां वर्णयति । पूर्वस्मिन् श्लोके भगवान् अयुक्तस्य मनुष्यस्य बुद्धिः कथम् अस्थिरा भवति इत्यस्य वर्णनम् अकरोत् । अत्र युक्तस्य पुरुषस्य बुद्धिः कथं स्थिरा भवति इति कथयति ।

तस्माद्यस्य महाबाहो...


इन्द्रियनिगृहीतस्य बुद्धिः प्रतिष्ठिता
तस्माद्यस्य महाबाहो...
श्लोकसङ्ख्या २/६८
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः इन्द्रियाणां हि चरतां...
अग्रिमश्लोकः या निशा सर्वभूतानां...

श्लोकः

तस्माद्यस्य महाबाहो... 
गीतोपदेशः
    तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
    इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥

पदच्छेदः

तस्मात्, यस्य, महाबाहो, निगृहीतानि, सर्वशः । इन्द्रियाणि, इन्द्रियार्थेभ्यः, तस्य, प्रज्ञा, प्रतिष्ठिता ॥

अन्वयः

महाबाहो ! तस्मात् यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशः निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।

शब्दार्थः

    अन्वयः विवरणम् सरलसंस्कृतम्
    महाबाहो उ.पुं.सम्बो.एक. हे अर्जुन !
    तस्मात् तद्-द.सर्व.नपुं.पं.एक. ततः
    यस्य यद्-द.सर्व.पुं.ष.एक. यस्य पुरुषस्य
    इन्द्रियाणि अ.नपुं.प्र.बहु. चक्षुरादीनि
    इन्द्रियार्थेभ्यः अ.पुं.पं.बहु. रूपादिविषयेभ्यः
    सर्वशः अव्ययम् सर्वथा
    निगृहीतानि अ.नपुं.प्र.बहु. नियन्त्रितानि
    तस्य तद्-द.सर्व.पुं.ष.एक. तस्य पुरुषस्य
    प्रज्ञा आ.स्त्री.प्र.एक. बुद्धिः
    प्रतिष्ठिता आ.स्त्री.प्र.एक. अतिस्थिरा ।

व्याकरणम्

सन्धिः

  1. तस्माद्यस्य = तस्मात् + यस्य – जश्त्वसन्धिः
  2. इन्द्रियाणीन्द्रियार्थेभ्यः = इन्द्रियाणि + इन्द्रियार्थेभ्यः - सवर्णदीर्घसन्धिः
  3. इन्द्रियार्थेभ्यस्तस्य = इन्द्रियार्थेभ्यः + तस्य – विसर्गसन्धिः (सकारः)
  4. युक्तो यया = युक्तः + यया – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः

कृदन्तः

  1. निगृहीतानि = नि + ग्रह् + क्त (कर्मणि)

अर्थः

हे महाबाहो अर्जुन ! तस्मात् त्वं जानीहि यत् यस्य इन्द्रियाणि रूपरसादिभ्यः इन्द्रियार्थेभ्यः सर्वशः निगृहीतानि भवन्ति तस्य प्रज्ञा प्रतिष्ठिता भवति ।

भावार्थः

अतः हे महाबाहो ! यस्य मनुष्यस्य इन्द्रियाणि इन्द्रियविषयेभ्यः सर्वथा निगृहीतानि (वशीकृतानि) सन्ति, तस्य बुद्धिः स्थिरा अस्ति । अत्र इन्द्रियाणां वशीकरणस्य यः विषयः षष्टतमात् श्लोकात् आरब्धः आसीत्, तस्य विषयस्य "तस्मात्" इत्यनेन शब्देन उपसंहारं करोति । एवम् उपसंहारं कुर्वन् भगवान् वदति यत्, यस्य मनः, इन्द्रियाणि च संसारात् आसक्तानि न सन्ति, तस्य बुद्धिः प्रतिष्ठिता अस्ति इति ।

अत्र 'सर्वशः' इत्यस्य शब्दस्य तात्पर्यम् अस्ति यत्, सांसारिकप्रवृत्तिषु उत एकान्तचिन्तने कस्याञ्चित् अवस्थायाम् अपि तस्य मनुष्यस्य इन्दियाणि भोगेषु उत विषयेषु प्रवृत्तानि न भवन्ति । व्यवहारकाले अनेके विषयाः तस्य सम्मुखम् उपस्थिताः भवन्ति, परन्तु सः विचलितः न भवति । तस्य मनः अपि इन्द्रियैः सह युक्तं सत् बुद्धिं विचलितां कर्तुं न प्रभवति । यथा पर्वतं कोऽपि चालयितुं न सम्भवति, तथैव तस्य बुद्धिः दृढा भवति । तां बुद्धिं कोऽपि विचालयतुं न शक्नोति । किञ्च तस्य मनसि विषयाणां महत्त्वं नास्ति ।

'निगृहीतानि' – इत्यस्य तात्पर्यम् अस्ति यत्, इन्द्रियाणि विषयेभ्यः पूर्णतया विमुखीनि भवन्ति । अर्थात् विषयेषु इन्द्रियाणां किञ्चिदपि रागः, आसक्तिः, आकर्षणं च नावशिष्यते । यथा सर्पस्य दन्ते निष्काषिते सति तस्मिन् विषं न भवति, तथैव इन्द्रियाणां रागद्वेषेभ्यः मुक्तिः विषयुक्तदन्तेभ्यः मुक्तिवत् अस्ति । यथा विषदन्ते गते सति यद्यपि सर्पः दंशति, तथापि तस्य प्रभावः न भवति, तथैव इन्द्रियाणां रागद्वेषरहिते सति साधकस्य पतनं न भवति ।

एतस्य सम्पूर्णस्य श्लोकस्य तात्पर्यम् अस्ति यत्, साधकेन दृढतया स्वपरमात्मप्राप्तेः लक्ष्यं प्राप्तुं सङ्कल्पः करणीयः । भोगः, सङ्ग्रहः च न मे लक्ष्यम् इति तेन साधकेन सावधानतया चिन्तनीयम् । एवं यदि सावधानतया सङ्कल्पं नैरन्तर्येण पालयति, तर्हि तस्य साधकस्य बुद्धिः स्थिरा भवति ।

शाङ्करभाष्यम्

यततो हि इत्युपन्यस्तस्यार्थस्य अनेकधा उपपत्तिमुक्त्वा तं चार्थमुपपाद्य उपसंहरति  -

इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात्  तस्मात् यस्य  यतेः हे  महाबाहो निगृहीतानि सर्वशः  सर्वप्रकारैः मानसादिभेदैः  इन्द्रियाणि इन्द्रियार्थेभ्यः  शब्दादिभ्यः  तस्य प्रज्ञा प्रतिष्ठिता ।।

भाष्यार्थः

'यततो ह्यपि' इत्यनेन श्लोकेन प्रतिपादितस्य अर्थस्य अनेकधा उपपत्तिं प्रदर्श्य तम् अभिप्रायं साधयितुं अत्र उपसंहारं करोति –

यतः इन्द्रियाणां प्रवृत्तौ दोषः सिद्धः अस्ति, अतः हे महाबाहो ! यस्य साधकस्य इन्द्रियाणि विषयेभ्यः सर्वथा अर्थात् मानसिकादिभेदेभ्यः निगृहीतानि सन्ति, तस्य बुद्धिः प्रतिष्ठिता अस्ति ।

रामानुजभाष्यम्

तस्माद्  उक्तेन प्रकारेण शुभाश्रये मयि निविष्टमनसो  यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि तस्य  एव आत्मनि  प्रज्ञा प्रतिष्ठिता  भवति।

भाष्यार्थः

अत एव पूर्वोक्तेन विधिना शुभाश्रयरूपिणि मयि (परमेश्वरे) सँल्लग्नमनस्कस्य यस्य पुरुषस्य इन्द्रियाणि इन्द्रियविषयेभ्यः सर्वथा निगृहीतानि सन्ति, तस्य बुद्धिः आत्मनि स्थिरा भवति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
तस्माद्यस्य महाबाहो...  पूर्वतनः
इन्द्रियाणां हि चरतां...
तस्माद्यस्य महाबाहो... अग्रिमः
या निशा सर्वभूतानां...
तस्माद्यस्य महाबाहो... 
साङ्ख्ययोगः

१)तं तथा कृपयाविष्टम्... २)कुतस्त्वा कश्मलमिदं... ३)क्लैब्यं मा स्म गमः पार्थ... ४)कथं भीष्ममहं सङ्ख्ये... ५)गुरूनहत्वा हि महानुभावान्... ६)न चैतद्विद्मः कतरन्नो गरीयो... ७)कार्पण्यदोषोपहतस्वभावः... ८)नहि प्रपश्यामि ममापनुद्याद्... ९)एवमुक्त्वा हृषीकेशं... १०)तमुवाच हृषीकेशः... ११)अशोच्यानन्वशोचस्त्वं... १२)न त्वेवाहं जातु नासं... १३)देहिनोऽस्मिन्यथा देहे... १४)मात्रास्पर्शास्तु कौन्तेय... १५)यं हि न व्यथयन्त्येते... १६)नासतो विद्यते भावो... १७)अविनाशि तु तद्विद्धि... १८)अन्तवन्त इमे देहा... १९)य एनं वेत्ति हन्तारं... २०)न जायते म्रियते वा कदाचिन्... २१)वेदाविनाशिनं नित्यं... २२)वासांसि जीर्णानि यथा विहाय... २३)नैनं छिन्दन्ति शस्त्राणि... २४)अच्छेद्योऽयमदाह्योऽयम्... २५)अव्यक्तोऽयमचिन्त्योऽयम्... २६)अथ चैनं नित्यजातं... २७)जातस्य हि ध्रुवो मृत्युः... २८)अव्यक्तादीनि भूतानि... २९)आश्चर्यवत्पश्यति कश्चिदेनम्... ३०)देही नित्यमवध्योऽयं... ३१)स्वधर्ममपि चावेक्ष्य... ३२)यदृच्छया चोपपन्नं... ३३)अथ चेत्त्वमिमं धर्म्यं... ३४)अकीर्तिं चापि भूतानि... ३५)भयाद्रणादुपरतं... ३६)अवाच्यवादांश्च बहून्... ३७)हतो वा प्राप्स्यसि स्वर्गं... ३८)सुखदुःखे समे कृत्वा... ३९)एषा तेऽभिहिता साङ्ख्ये... ४०)नेहाभिक्रमनाशोऽस्ति... ४१)व्यवसायात्मिका बुद्धिः... ४२)यामिमां पुष्पितां वाचं… ४३)कामात्मानः स्वर्गपरा… ४४)भोगैश्वर्यप्रसक्तानां... ४५)त्रैगुण्यविषया वेदा... ४६)यावानर्थ उदपाने... ४७)कर्मण्येवाधिकारस्ते... ४८)योगस्थः कुरु कर्माणि... ४९)दूरेण ह्यवरं कर्म... ५०)बुद्धियुक्तो जहातीह... ५१)कर्मजं बुद्धियुक्ता हि... ५२)यदा ते मोहकलिलं... ५३)श्रुतिविप्रतिपन्ना ते... ५४)स्थितप्रज्ञस्य का भाषा... ५५)प्रजहाति यदा कामान्... ५६)दुःखेष्वनुद्विग्नमनाः... ५७)यः सर्वत्रानभिस्नेहः... ५८)यदा संहरते चायं... ५९)विषया विनिवर्तन्ते... ६०)यततो ह्यपि कौन्तेय... ६१)तानि सर्वाणि संयम्य... ६२)ध्यायतो विषयान्पुंसः... ६३)क्रोधाद्भवति सम्मोहः... ६४)रागद्वेषवियुक्तैस्तु... ६५)प्रसादे सर्वदुःखानां... ६६)नास्ति बुद्धिरयुक्तस्य... ६७)इन्द्रियाणां हि चरतां... ६८)तस्माद्यस्य महाबाहो... ६९)या निशा सर्वभूतानां... ७०)आपूर्यमाणमचल... ७१)विहाय कामान्यः सर्वान्... ७२)एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

तस्माद्यस्य महाबाहो... श्लोकःतस्माद्यस्य महाबाहो... पदच्छेदःतस्माद्यस्य महाबाहो... अन्वयःतस्माद्यस्य महाबाहो... शब्दार्थःतस्माद्यस्य महाबाहो... व्याकरणम्तस्माद्यस्य महाबाहो... अर्थःतस्माद्यस्य महाबाहो... भावार्थः [१]तस्माद्यस्य महाबाहो... शाङ्करभाष्यम् [२]तस्माद्यस्य महाबाहो... रामानुजभाष्यम् [३]तस्माद्यस्य महाबाहो... सम्बद्धाः लेखाःतस्माद्यस्य महाबाहो... बाह्यसम्पर्कतन्तुःतस्माद्यस्य महाबाहो... उद्धरणम्तस्माद्यस्य महाबाहो... अधिकवाचनायतस्माद्यस्य महाबाहो...कृष्णःतस्माद्यस्य महाबाहो.wavसञ्चिका:तस्माद्यस्य महाबाहो.wav

🔥 Trending searches on Wiki संस्कृतम्:

अर्जुनविषादयोगःभारतीयदर्शनशास्त्रम्बिहार विधानसभालातूरकोस्टा रीकाराष्ट्रियजनतादलम्शिश्नम्मयि सर्वाणि कर्माणि...वाक्षमा रावमाहेश्वरसूत्राणिइण्डोनेशियासङ्गणकम्वैश्विकस्थितिसूचकपद्धतिः७१९बाणभट्टःउपमालङ्कारःमेजर ध्यानचन्दकाव्यमीमांसारत्नावलीवार्तकीततः श्वेतैर्हयैर्युक्ते...रवीना टंडनए आर् रहमान्अविनाशि तु तद्विद्धि...मास्कोनगरम्बधिरताकारगिलयुद्धम्बिहारीकराचीचिलिजनकःसाङ्ख्यदर्शनम्आर्गनजपान्बास्टन्कारकम्ज्ञानकर्मसंन्यासयोगःजूनरजतम्शाब्दबोधःराजशेखरःयूरोपखण्डःभूटानअरावलीबांकुडामण्डलम्बुद्धप्रस्थ२८ अप्रैल२६ सितम्बर१६१५शब्दःसुमित्रानन्दन पन्तअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याकाव्यप्रकाशःअन्ताराष्ट्रियः व्यापारः१३ मार्चतेनालीमहापरीक्षा१३१५मोल्दोवा३५८वेदव्यासः१४Devanagariसङ्गीतम्नक्षत्रम्संयुक्ताधिराज्यम्पञ्चमहायज्ञाःयोगः१३७९अव्यक्ताद्व्यक्तयः सर्वाः...अन्तरतारकीयमाध्यमम्विवाहसंस्कारःपी वी नरसिंह राव्🡆 More