कुस्तुम्बरी

कुस्तुम्बरी (Coriander) धान्याकम् भारते वर्धमानः कश्चन धान्यविशेषः । इदं धान्याकम् अपि सस्यजन्यः आहारपदार्थः । इदं आङ्ग्लभाषायां Coriander इति उच्यते । अस्य धान्याकस्य सस्यशास्त्रीयं नाम अस्ति Coriandrum Saticiam इति । अस्य धान्याकस्य धान्यकं, धान्यका, धान्यं, धानी, धानेयकः, कुस्तुम्बरुः, अल्रका, छत्रधान्यं, वितन्नकं, कुस्तुम्बरी, सुगन्धी, शाकयोग्यं, सूक्ष्मपत्रं, जनप्रियं, धान्यबीजं, बीजधान्यं, वेधकम् इत्यादीनि अन्यानि अपि नामानि सन्ति । एतत् धान्याकम् अपि भारते सर्वस्य अपि गृहस्य पाकशालायां भवति एव । एतत् यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य धान्याकसस्यस्य पत्रं, पुष्पं, काण्डं, मूलं तथा शलाटुः च उपयुज्यते ।

कुस्तुम्बरी
कुस्तुम्बरी
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Apiales
कुलम् Apiaceae
वंशः Coriandrum
जातिः C. sativum
द्विपदनाम
Coriandrum sativum
L.

प्रधानेषु उपस्करद्रव्येषु द्रव्येषु अन्यतमा कुस्तुम्बरी । अस्याः बीजं, सस्यं च व्यापकरुपेण नित्यजीवने उपयुज्यते । आहारे सारः, क्वथितम् इत्यादीनां निर्माणे अस्य बीजानि, चित्रन्नं व्यञ्जनं इत्यादिषु पुर्णानां च उपयोगः क्रियते । अस्य एव कश्चन विशिष्ठेः गन्धः विद्यते । व्यञ्जनेषु कुस्तुम्बरीप्रयोगः आरोग्यप्रदः इति शुश्रुतस्य मतम् ।

आयुर्वेदस्य अनुसारम् अस्य धान्याकस्य स्वभावः

कुस्तुम्बरी
धान्याकबीजानि

एतत् धान्याकं यदा अशुष्कं भवति तदा मधुरं, सुगन्धयुक्तं हृद्यं च भवति । यदा शुष्कं भवति तदा कषायं, तिक्तमधुरं च भवति । एतत् धान्याकं स्निग्धं, शीतवीर्यं च ।

    “आर्द्रा कुस्तुम्बरुः कुर्यात्स्वादुः सौगन्ध्यहृद्यताम् ।
    सा शुष्का मधुरा पाके स्निग्धा तृट्दाहनाशिनी ॥
    धान्यकं कासतृट्छर्दिर्ज्वरह्रुच्चक्षुषो हितम् ।
    कषायं तिक्तमधुरं हृद्यं रोचनदीपनम् ॥“ (धन्वन्तरिकोषः)
कुस्तुम्बरी
धान्याकपुष्पम्

आयुर्वेदस्य अनुसारम् अस्याः उपयोगाः

मुखनेत्रनासिकादिरोगेषु उपयुक्तता

अपक्वकुस्तुम्बरीपर्णानि पिष्ट्वा लेप कृत्वा ललाटे लेपनेन शिरोवेदना अपगच्छति । पित्रस्य कारणेन जातः शोथः विसर्पिः (harpes) शनगण्डः गण्डमाला इत्यादिषु अपि अयं लेपः परिणामकारी । रक्तपित्तकारणेन नासिकातः रक्तस्रावः भवति चेत् कुस्तुम्बरीरसः नासिकायां स्थापनीयः । रक्तनेत्रे सति कुस्तुम्बर्याः रसेन्द्र कषायेन वा नेत्रं क्षालनीयम्

मनोरोगनिवारिकार

कुस्तुम्बरीबीजस्य त्वचं निष्कास्य मज्जाभागं क्षीरेण सह क्वथयित्वा सेव्यते चेत् भ्रमः मूर्छा, विस्मरणम् इत्यादयः मानसिकरोगाः शाम्यन्ति । इयं मस्तिष्कस्य बलप्रदा ।

तृष्णा निवारिका

अत्यन्तपिपासया यदा तृणारोगः भवति तदा कुस्तुम्बरीबीजानि किञ्चित्कानं शीतजले संस्थाप्य तदनन्तरं शोधयित्वा पातव्यम् । केषाञ्चित् सदा पिपासा भवति । तेन सह शरीरे दाहस्य अनुभवोऽपि भवति । नेत्रे ज्वलतः । शरीरस्य प्रत्येकमपि अङ्गं दहति वा इति भासते । अस्य कस्तुम्बरीरसेन शर्करां योजयित्वा सेवन्ते चेत् परिणामकारी इति प्रसिद्धः लेखकः चन्द्रशेखर ठाकूरः वदति ।

कुस्तुम्बरीपानकं प्रतिदिनं प्रातः सेवन्ते चेत् दाहः पिपासा च शाम्यति । शरीरस्य सर्वाणि स्नोतांसि शुद्धानि भवन्ति इति भावमिश्रस्य मतम् । ज्वरे कुस्तुम्बरीकषायः परिणामकारी ।

इतरे उपयोगाः

वमनं, शीतज्वरः , कामुकताधिक्यता इत्यादिषु पित्तजरोगेषु शकरामिश्रितः कुस्तुम्बरीरसः परिणामकारी । आंद्रकेन सह कुस्तुम्बरीरसस्य पानं आमज अजीर्णता अपगच्छति । मूत्राशयः परिशुद्धः भवति ।

कुस्तुम्बरीनिर्मितानि औषधानि

    १.धान्याकादि हिमम्
    २.धान्यपञ्चकक्राथम्
    सेवनप्रमाणः
    चूर्णम् -२-६ ग्राम्
    हिमम् – २०-२४ ग्राम्
    तैलम् -१-३ बिन्दुवः

संक्षिप्तचिकित्सासूची

    १. एतत् धान्याकं शिरोवेदनां, सर्पसुत्तुरोगं च निवारयति ।
    २. धान्याकं मुखे जातान् पिटकान् शमयति । अस्य रसं मुखे संस्थाप्य निष्ठीवनं करणीयम् ।
    ३. नासिकातः रक्तं स्रवति चेत् अस्य धान्याकस्य रसं नासिकायां स्थापयन्ति ।
    ४. नेत्रं रक्तवर्णीयं जातं चेत् अपि धान्याकस्य कषायं नेत्रे स्थापयन्ति ।
    ५. मस्तिष्कसम्बद्धेषु रोगेषु धान्याकस्य त्वक् निष्कास्य क्षीरं योजयित्वा कषायं निर्माय दीयते । अस्य कषायस्य सेवनेन शिरोभ्रमणं, मूर्छारोगः, विस्मरणशीलता च न्यूना भवति ।
    ६. अस्य धान्याकस्य कषायम् अरुचौ, वमने, अजीर्णे, अतिसारे, उदरबाधायां, कृमिरोगे च दातुं शक्यते ।
    ७. धान्याकस्य शीतकषायं ज्वरावसरे जायमानस्य तृष्णायाः, दाहस्य वा शान्त्यर्थं दीयते ।
    ८. शिरोवेदनायां धान्याकस्य बीजस्य लेपनम् अपि क्रियते ।
    ९. रक्तसहिते अर्शिस्-रोगे अस्य धान्याकस्य कषायं यच्छन्ति ।
    १०. बहुकालतः पीड्यमाने पीनसे धान्याकम् उष्णजले योजयित्वा पातुं शक्यते ।
    ११. धान्याकस्य शीतकषायं खण्डशर्करया सह प्रातःकाले पिबन्ति चेत् अन्तर्दाहः निवारितः भवति ।
    १२. धान्याकं शुण्ठी च योजयित्वा निर्मितं कषायम् अजीर्णम् उदरबाधां च निवारयति ।
    १३. बालाः अधिकं कासन्ते चेत्, बालानाम् अस्तमायां च तण्डुलस्य प्राक्षालनजलं, धान्याकस्य चूर्णं, शर्करां च योजयित्वा दातुं शक्यते ।
    १४. एतत् धान्याकं त्रिदोषहरम् ।
    १५. धान्याकं हृदयस्य नेत्रस्य च हितकरम् ।
    १६. एतत् धान्याकं मूत्रलम्, दीपनम्, अवृष्यं, ज्वरघ्नि, रोचकं, च अस्ति ।
    १७. धान्याकं काश्यकं, ज्वलनं, शरीरस्य शुष्कत्वं च निवारयति ।
    १८. एतत् धान्याकं कफं पित्तं च नाशयति ।
    १९. अस्य धान्याकस्य उल्लेखः भावप्रकाशे, राजकोषे अपि कृतः अस्ति ।
    २०. अभिष्यन्दरोगे अपि अस्य धान्याकस्य रसं कषायं च उपयुज्यते । (कोळिकण्णुरोगः इति उच्यते कन्नडभाषायाम्, आङ्ग्लभाषायां Red eyes इति उच्यते ।)
    २१. अस्य धान्याकस्य अधिकसेवनेन शुक्रधातु क्षीयते ।

बाह्यसम्पर्कतन्तुः

Tags:

कुस्तुम्बरी आयुर्वेदस्य अनुसारम् अस्य धान्याकस्य स्वभावःकुस्तुम्बरी आयुर्वेदस्य अनुसारम् अस्याः उपयोगाःकुस्तुम्बरी निर्मितानि औषधानिकुस्तुम्बरी संक्षिप्तचिकित्सासूचीकुस्तुम्बरी बाह्यसम्पर्कतन्तुःकुस्तुम्बरीआहारःभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

ताजिकिस्थानम्मेल्पुत्तूर् नारायणभट्टःअयःआर्यभटःकादम्बरीनोकियाअक्तूबर ११शर्कराशल्यचिकित्सामलयाळलिपिःभासनाटकचक्रम्अण्डमाननिकोबारद्वीपसमूहःचक्रम् (योगशास्त्रम्)समयवलयः५ अक्तूबरराहुल गान्धीविलियम वर्ड्सवर्थमलेशियावाग्देवीवनस्पतिविज्ञानम्मनःसिरियारसुवामण्डलम्उपनिषद्मयूरःभीष्मःवायु परिवहनमध्यमव्यायोगःभगवदज्जुकीयम्नैगमकाण्डम्३१ मार्चस्प्रिंग्फील्ड्अश्वघोषःयदा यदा हि धर्मस्य...सावित्रीबाई फुलेभट्टोजिदीक्षितःअन्नप्राशनसंस्कारःसुवर्णम्सचिन तेण्डुलकररासायनिक संयोगःसागरः१ जुलाईगुरुग्रहःहिन्दुधर्मःफलितज्योतिषम्ज्योतिराव गोविन्दराव फुलेकतारमार्टिन् लूथर् किङ्ग् (ज्यू)कर्पूरमञ्जरीक्रिकेट्-क्रीडाउपपदचतुर्थीविकिपीडियामम्मटःवायुःयोगस्थः कुरु कर्माणि...क्रैस्ताःभारतीयसंस्कृतेः मूलतत्त्वानिमार्टिन स्कोर्सेसेनलचम्पूःमुण्डकोपनिषत्मन्दारिनभाषाकाव्यप्रकाशःएप्पल्द्वादशज्योतिर्लिङ्गानिपाणिनीया शिक्षादशरूपकम्लाट्वियाप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)वेदान्तःकुमारदासःश्रीसोमनाथसंस्कृतविश्वविद्यालयःपिकः🡆 More