अण्ण मणि

अण्णमणि (२३ आगस्ट् १९१८-१६ आगस्ट् २००१) भारतीया भौतशास्त्रज्ञा, वातावरणतज्ञा च । सा भारतीय-मौसम-विज्ञानविभागस्य उपनिर्देशिका आसीत् । वातावरणोपकरणानां क्षेत्रे तस्याः योगदानं महत्त्वभूतं वर्तते। सूर्यरश्मिविकिरणविषये, ओजोन्-विषये, वायुशक्तिविषये च तया संशोधनं कृतं, बहूनि शोधपत्राणि प्रस्तुतानि च ।

अण्ण मणि
അന്ന മാണി
अण्ण मणि
अण्ण मणि
जननम् २३ अगष्ट् १९१८
तिरुवनन्तपुरम्, केरळराज्यम्
मरणम् १६ २००१(२००१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१६) (आयुः ८२)
तिरुवनन्तपुरम्, केरळराज्यम्
देशीयता भारतीया
कार्यक्षेत्राणि मीटियोरालजि, भौतिकशास्त्रम्
संस्थाः भारतीयपर्यावरणशास्त्रविभागः, पुणे

बाल्यम्

अण्ण मणि केरलस्य तिरुवनन्तपुरस्य पीरुमेडु-प्रदेशे जन्म प्राप्नोत् । तस्याः पिता अभियन्ता आसीत् । कुटुम्बस्य अष्टसु अपत्येषु सा सप्तमम् अपत्यम् । बाल्ये पठने तस्याः महती अभिरुचिः आसीत् । सा महात्मा गान्धिवर्येण प्रभाविता आसीत् । खादिवस्त्राणि एव तया ध्रियन्ते स्म । आदौ सा वैद्यकीयशिक्षणं प्राप्तुम् इष्टवती, किन्तु अग्रे सा भौतशास्त्राध्ययनम् अकरोत् । सा चेन्नैनगरस्थेन प्रेसिडेन्सिमहाविद्यालयतः १९३९ तमे वर्षे भौत-रसायनशास्त्रयोः विज्ञानपदवीं प्राप्तवती ।

वृत्तिजीवनम्

प्रेसिडेन्सिमहाविद्यालयतः पदवीप्राप्तेः अनन्तरं सा सि वि रामन्वर्त्यस्य मार्गदर्शने वज्रमाणिक्ययोः प्रकाशीयगुणविषये संशोधनम् अकरोत् । तया पञ्च संशोधनपत्राणि प्रस्तुतानि किन्तु तया विद्यावारिधिपदवी न प्राप्ता यतः तया भौतशास्त्रे स्नातकोत्तरपदवी न प्राप्ता आसीत् । ततः सा भौतशास्त्रे अधिकाध्ययनाय सा ब्रिटन् गतवती किन्तु सा लण्डन्नगरस्थे इम्पेरियल्-महाविद्यालये अन्तरिक्षविज्ञानस्य उपकरणानाम् अध्ययनम् अकरोत् । १९४८ तमे वर्षे भारतं प्रति प्रत्यागमनानन्तरं पुणेनगरस्थे अन्तरिक्षविद्याविभागे उद्योगिनी जाता । अन्तरिक्षविद्यायाः उपकरणानां विषये तया अनेकानि शोधपत्राणि प्रस्तुतानि । सा १९७६ तमे वर्षे भारतीय-अन्तरिक्षविद्याविभागस्य उपनिर्देशिकारूपेण निवृत्ता अभवत् ।

१९९४ तमे वर्षे सा पक्षाघातेन अस्वस्था जाता, २००१ तमस्य वर्षस्य आगस्ट्मासस्य १६ दिनाङ्के तिरुवनन्तपुरे सा दिवङ्गता ।

प्रकाशिताः ग्रन्थाः

  • 1980. The Handbook for Solar Radiation data for India

पुरस्काराः

  • 1987: medalla K.R. Ramanathan

उल्लेखाः

बाह्यसम्पर्काः

अण्ण मण्याः परिचयः

Tags:

अण्ण मणि बाल्यम्अण्ण मणि वृत्तिजीवनम्अण्ण मणि पुरस्काराःअण्ण मणि उल्लेखाःअण्ण मणि बाह्यसम्पर्काःअण्ण मणि

🔥 Trending searches on Wiki संस्कृतम्:

ब्रह्मार्पणं ब्रह्म हविः...हितोपदेशः१०१२पी टी उषा१२उत्तररामचरितम्ज्योतिषस्य सिद्धान्तस्कन्धःखो खो क्रीडा१५९२संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्ऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)८९८एस् एम् कृष्णाकाव्यालङ्कारः (भामहविरचितः)१५६५Haryana१३०अष्टाङ्गयोगःकृष्णः१३९८वेदाङ्गम्अभ्यासवैराग्याभ्यां तन्निरोधः (योगसूत्रम्)खुदीराम बोसकालिदासःयोगस्थः कुरु कर्माणि...वाल्मीकिःदर्शनानिआरण्यकम्२३५क्रीडासमन्वयाध्यायःसंस्कृतसाहित्यशास्त्रम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याभारतीयदर्शनशास्त्रम्१५३२कोमो३२२राष्ट्रियपुस्तकालयः (इजरायल्)अमरकोशःविलियम ए फोलरकदलीफलम्नीतिशतकम्नीरज चोपडारौतहटमण्डलम्९१९१२१९२०६विभूतियोगःकराचीएडवर्ड ७अलङ्कारग्रन्थाःचम्पूकाव्यम्द्राविडमुन्नेत्रकळगम्(डि.एम्.के)चन्दनम्बाणभट्टः९३१५ फरवरीमहादेवभाई देसाईमाघःभौतिकशास्त्रम्६०७९३९श्रद्धावॉंल्लभते ज्ञानं...फ्रान्सदेशःअद्य धारा निराधारा… निरालम्बा सरस्वती…भामहःफ्रेडेरिक रेन्स७१राष्ट्रध्वजमहाभाष्यम्Tamil Nadu९४४शुकसप्ततिः🡆 More