पुणे

पुणे भारतदेशस्य महाराष्ट्रराज्ये किञ्चन बृहत् नगरम् अस्ति । पुणे नगरस्य पुरातनं नाम पुण्यपत्तनम् इति अस्ति। पुणे (पुणे) (०२०) पुण्यपट्टनम् इति प्रसिद्धं पुणेनगरं शिवाजीमहाराजस्य पितामहाय पारितोषिकरुपेणागतम् आसीत् । ख्रिस्ताब्दे १५९९ तमे वर्षे एव एतस्य महत्वपूर्णं स्थानम् आसीत् । क्रिस्ताब्दे १७५० तः १८१७ पर्यन्त पेश्वेराज्ञां राजधानी अप्यासीत् । शिवाजी शिवनेरी ग्रामे जन्म लब्धवान् किन्तु पुणेनगरे एव विद्याभ्यासं कृतवान् । शिवाजीमहाराजस्य प्रशासनप्रदेशः पुणेनगरसमीपे एव आसीत् ।

पुणे
शनिवारवाडा
पुणे
आगाखान् प्यालेस्
पुणे
पुणेविद्यापीठम्
पुणे
विश्रामबागवाडा

मुळामुठा नद्योः तीरे स्थितं पुणेनगरं नानाफड्णवीसमहोदयस्य प्रशासनकाले भव्यम् उत्तमं सौलभ्ययुक्तं च अभवत् । जनाः जबतक नाना, तबतक पुणे” इति वदन्ति स्म । शनिवारवाडा एव पेश्वेराजानां राजधानीकेन्द्रम् आसीत् । पुणेनगरं बहुजनयुक्तं महाराष्ट्रराज्यस्य जनानां संस्कृतिदर्शकं च अस्ति । वातावरणम् अतीव सुन्दरम् आह्लादकरं चास्ति । पुणे नगरे स्थितः डेक्कन् महाविद्यालयः अतीव प्रसिद्धः प्राचीनसंस्कृतिप्रतिबिम्बकश्चास्ति । गणेशखिण्डी स्थले पुणेविश्वविद्यालयः अस्ति । शनिवारवाडा मध्ये एम्प्रेस् वाटिकानां भव्यता दर्शनीया अस्ति । आगाखान् प्यालेस् खडकीविभागेऽस्ति । महात्मा गान्धिः अत्रैव कारावासे स्थापितः आसीत् । यरवडासमीपे स्थितम् इदं भवनम् इदानीं महात्मा गान्धिकस्तूरबा गान्ध्योः स्मारकमस्ति । राजा केळकर म्यूसियम् (वस्तुसङ्ग्रहालयः) अतीव प्रसिद्धः प्राचीनजनानां कलाप्रज्ञां स्मारयति । श्री दिनकरकेळकरमहोदयस्य स्वकीयः वस्तुसङ्ग्रहालयः एषः। अयं दर्शनीयः सुव्यवस्थितः च अस्ति । अत्र सङ्गीतवाद्यानि पूजासामग्रयः जीवनोपयोगिवस्तूनि, क्रीडनकानि, तैलदीपाः, तालाः, पूगकर्तर्यः, सूक्ष्मचित्राणि च सन्ति । पुणेनगरे दक्षिणभागे पार्वतीपरमेश्वरदेवालयः अस्ति । एम्प्रेस् उद्यानवने मृगालयः गणेशदेवालयः पञ्चाळेश्वर देवालयाः दर्शनीयाः सन्ति । समीपे शिवाजीप्रतिमा अस्ति । पुणेतः नैत्रत्ये २५ कि.मी. दूरे सिंहगडदुर्गम् अस्ति । सागरतीरतः १२७० मीटर् उन्नतप्रदेशे स्थिते दुर्गे तानजीमहोदयस्य (शिवाजीसेनापतेः) स्मारकम् अस्ति । पुणेनगरे एव श्रीगोपालकृष्णगोखले श्रीबालगङ्गाधरतिलकः इत्यादयः प्रसिध्दाः । श्रीतिलकमहोदयः गणेशोत्सवस्य सार्वजनिकरीत्या आचरणं प्रचलने आनीय राष्ट्रभक्तिं जागरितवान् ।

वाहनमार्गः

मुम्बयीतः १९२ कि.मी

धूमशकटमार्गः

मुम्बयीतः डेक्कनक्वीन् सिंहगड, प्रगति-एक्स्प्रेस् इत्यादीनि धूमशकटानि सन्ति । महाराष्ट्रराज्ये पुणे द्वितीयं महानगरम् अस्ति ।

Tags:

भारतशिवाजी

🔥 Trending searches on Wiki संस्कृतम्:

हिन्द-आर्यभाषाःवेदव्यासःबुल्गारियादक्षिणभारतहिन्दीप्रचारसभा१८५६व्लादिमीर पुतिनअष्टाध्यायीदृष्ट्वा तु पाण्डवानीकं...अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यास्याम्सङ्ग्मगहीभाषामातृदिवसःमुख्यपृष्ठम्प्रशान्तमनसं ह्येनं...सुन्दरसी३६फलम्सावित्रीबाई फुलेफ्रेङ्क्लिन रुजवेल्टजावाशिखरिणीछन्दःकोषि अगस्टीन् लूयीमोक्षसंन्यासयोगःरसगङ्गाधरःदेवनागरी१० फरवरी१७ दिसम्बरमल्लक्रीडाजून २१मिसूरीशार्लेमन्ययवद्वीपआब्रह्मभुवनाल्लोकाः...रामायणम्द्वितीयविश्वयुद्धम्फरवरी १४कल्पशास्त्रस्य इतिहासःकोलकातासङ्गणकम्अनुसन्धानस्य प्रकाराःभास्कराचार्यःमाघःअधिभूतं क्षरो भावः...जया किशोरीद्युतिशक्तिःत्रेतायुगम्१७ फरवरीजून ९नैषधीयचरितम्क्षीरम्मोहम्मद रफीशेख् हसीनामैथुनम्मानसिकस्वास्थ्यम्१४०५आङ्ग्लभाषादक्षिणकोरिया४४४मार्जालःकालीयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)डॉनल्ड ट्रम्पतमिळभाषाक्जून ८जैमिनिःफरवरी १३कुमारसम्भवम्नव रसाःपक्षिणःनेताजी सुभाषचन्द्र बोस🡆 More