अङ्ग सान् सू की (Aung San Suu Kyi) बर्मादेशस्य विरोधपक्षस्य नायिका अस्ति। सामाजिकसामरस्यविषये आग्रहवती एषा भारतस्य अभिमानिनी अस्ति। अङ्ग् सान्सन् सू कि एषा मयन्मार् देशस्य न्याषनल् लीग् फार् डेमोक्रसिपक्षस्य प्रसिद्धा नायिका । माहात्मा गान्धिमहोदयस्य अहिंसातत्वेन प्रभाविता एषा । २२ वार्षाणि एषा गृहबन्धने आसीत् । १९८९तमे वर्षे जुलाय्मासस्य २० दिनाङ्कतः २०१० तमे वर्षे नवेम्बर्मासस्य १३ दिनाङ्कपर्यन्तं गृहबन्धने आसीत् । सर्वाधिकारस्य विरुद्धं विरोधं कुर्वती एषा सामाजोन्मुखा सञ्जाता ।
अङ्ग सान् सू की | |
---|---|
अङ्ग् सान्सन् सू कि जून् १९ १९४५ तमे वर्षे प्रसिद्धे "बर्मि" कुटुम्बे जन्म प्राप्नोत् । तस्याः पिता बोगियोके अङ्ग् सान् । माता खिन्कियि । बोगियोके अङ्ग् सान् वर्यः अस्य देशस्य स्वातन्त्र्यसङ्ग्रामस्य प्रमुखः आसीत् । १९४८ तमे वर्षे शत्रुपक्षेण मारितः एषः । एनाम् अस्याः माता खिन्कियि एव पालितवती । माता सार्वजनिकवैद्यालये कार्यं कुर्वती अस्याः पालनं कृतवती । अस्याः द्वौ सहोदरौ आस्ताम्, एकः "अङ्ग सन् लीन्" अपरः "अङ्ग सन् ऊ" इति । रङ्गून्-प्रदेशे एते वसन्ति स्म । अस्याः अष्टमे वयसि लीन् अकालमरणं प्राप्तवान् । ऊ अमेरिकादेशस्य पौरत्वं प्राप्य तत्रैव वसति ।
प्राथमिकशिक्षणम् एषा क्याथोलिक् आङ्ग्लशालासु प्राप्तवती । अस्याः माता बर्मादेशस्य नूतनसर्वकारस्य प्रमुखा नायिका जाता । १९६० तमे वर्षे खिन्कियि बर्मादेशस्य शासनधररूपेण भारतम् आगतवती। तस्मिन् काले अङ्ग् सान्सन् सू कि देहल्यां स्थिते "लेडि श्रीरां विद्यालये" १९४६ तमे वर्षे स्नातकपदवीं प्राप्तवती। "आक्सफर्ड सेण्ट ह्य़ूस् विद्यालये" तत्वशास्त्रम्, राज्यशास्त्रम् अर्थशास्त्रेषु च बि. ए पदवीं प्राप्तवती । समनन्तरं न्यूयार्कदेशे १९६९ तः १९७० पर्यन्तम् अध्ययनं कृतवती । अध्ययनान्तरम् एषा विश्वसंस्थायाः सचिवालयस्य शासन-आयव्ययसमितेः सहकार्यदर्शित्वेन नियुक्ता । लण्डन्-देशस्य "स्कूल् आफ् ओरियण्टल् आण्ड आप्रिकन् स्टडीस् विश्वविद्यालयद्वारा" विद्यावारिधिः (पि. एच्. डि.) इति उपाधिं प्राप्तवती ।
सचिवालये कार्यकरणावसरे विरामेषु समयेषु वैद्यालये अपि स्वयंसेविकारूपेण कार्यं कुर्वती आसीत् । एषा तत्रत्यरोगिणां कृते वार्तां श्रावयति स्म । रोगिणां कृते यावत् शक्यं साहाय्यं करोति स्म । १९८५ तमे वर्षे "कियोटो विश्वविद्यालये" सन्दर्शक-उपन्यासिकारूपेण कार्यं कृतवती । १९८७ तमे वर्षे भारतस्य "सिम्ला इण्डियन् इन्स्टिट्यूट् आफ् अड्वान्सड् स्टडीस्" केन्द्रस्य गौरवसदस्यत्वं प्राप्तवती । अस्मिन् एव समये मयन्मार् संयुक्तसर्वकारस्य कृते अपि कार्यं कृतवती । १९७२ तमे वर्षे जनेवरीमासस्य १ दिनाङ्के टिबेट्देशीयं पण्डितं मैकेल् विलन्कोर्ट् आरिस् वर्यं परिणीतवती । अनेन सह एषा भूतान् देशे एव वासं कृतवती । अस्मिन्नेव देशे विदेशाङ्गसचिवालये संशोधनाधिकारिरूपेण कार्यं प्राप्तवती । 'अलेक्साण्डर्' (१९७३ तमे वर्षे), 'किम्' (१९७७ तमे वर्षे) इति नामकं सन्तानद्वयं प्राप्तवती । दशकद्वयं कुटम्बेन सह सुखमयं जीवनं यापितवती ।
अङ्ग् सान्सन् सू कि स्वदेशीयजनानां सेवां कर्तुम् उद्युक्ता आसीत् । १९८८ तमे वर्षे स्वमातृदर्शनार्थं बर्मादेशम् आगतवती । माता रोगग्रस्ता आसीत् । बर्मादेशस्य नाम मयन्मार् इति परिवर्तितम् आसीत् । मयन्मार् सर्वाधिकारशासने आसीत्। जनाः कष्टम् अनुभवन्तः आसन् । शासनपद्धतिं दृष्ट्वा, सर्वाधिकारस्य विरुद्धं विरोधं कुर्वती एषा सामाजोन्मुखा सञ्जाता । एतेन कारणेन क्रुद्धः सर्वकारः तां जुलाय्मासस्य २० दिनाङ्के १९८९ तमे संवत्सरे गृहबन्धने अस्थापयत् । २२ वार्षाणि यावत् गृहबन्धने अस्थापयत् । जनरल् नेविन् १९०२ वर्षतः १९८८ वर्षपर्यन्तं स्वाधीने एव सेनाशासनं स्थापितवान् आसीत् । कालान्तरे स्वयमेव राष्ट्रपतित्वेन उद्घोषितः जातः । ३० वर्षाणाम् अनन्तरं १९९० तमे संवत्सरे जून्मासे निर्वाचनव्यवस्था आरब्धा । तस्मिन् निर्वाचने अस्याः पक्षस्यैव बहुमतं प्राप्तम् आसीत्। किन्तु तदा एव एनां गृहबन्धने स्थापितवन्तः । अतः सा अधिकारमपि न प्राप्तवती । मॆमासस्य ६ दिनाङ्के २००२ वर्षे अस्याः विमोचनार्थं विश्वसंस्थायाः कार्यदर्शि कोफि अन्नान् सर्वकारेण सह चर्चां कृतवान्, किन्तु निष्फला सञ्जाता । २००५ तमे संवत्सरे इतोऽपि एकवर्षम् अग्रे सारितवन्तः । २००६ तम संवत्सरस्य जून्मासस्य ९ दिनाङ्कतः अतिसारेण पीडिता,वैद्यालयं प्राप्तवती । नवम्बरमासे गुणमुखा सञ्जाता । जनेवरिमासस्य १ मे दिनाङ्के २००७ तमे संवत्सरे २८३१ कारागृहजनान् मयन्मार् सर्वकारः मुक्तान् कर्तुं चिन्तितम् आसीत् । अस्मिन् सन्दर्भे कि मून् विश्वसंस्थायाः सेक्रेटरिजनरल् अस्याः विमोचनार्थं प्रार्थितवान् आसीत् । किन्तु, अस्मिन् समयेऽपि एकवर्षं यावत् अग्रे सारितवन्तः । अस्मिन् समये ५९ विश्वनायकाः अस्याः विमोचनार्थं प्रार्थितवन्तः आसन् । जिम्मिकार्टर्, जार्ज-एच्-बुष्, बिल् क्लिण्टन् तथा संयुक्तसाम्राज्यस्य प्रधानमन्त्री मार्गरेट् थ्याचर् आदयः विश्वनायकाः प्रार्थिवन्तः आसन् । किन्तु, १३ नवेम्बर्मासस्य १३ दिनाङ्के २०१० तमे संवत्सरे गृहबन्धनात् विमुक्ता एषा ।
एषा यदा गृहबन्धने आसीत् तदैव १९९० तमे संवत्सरे “सखरोव्” पुरस्कारं प्राप्तवती १९९० तमे संवत्सरे थरोल् राफ्ट स्मारकपुरस्कारं प्राप्तवती । १९९१ तमे संवत्सरे विश्वविख्यातं “नोबेल्” पुरस्कारं प्राप्तवती । १९९२ तमे संवत्सरे “अन्ताराष्ट्रीय सैमन् बोलिवार्” पुरस्कारं प्राप्तवती । १९९३ तमे संवत्सरे जवहरलाल् नेहरू पुरस्कारं प्राप्तवती । १९९५ तमे संवत्सरे “प्रैज् फार् फ्रीडम् आफ् दि लिबरल् इण्टर्न्याशनल्” पुरस्कारं प्राप्तवती । १९९६ तमे संवत्सरे कम्पानियन् आफ् दि आर्डर् आफ् आस्ट्रेलिया पुरस्कारं प्राप्तवती । १९९९ तमे संवत्सरे ऎर्ल्याण्ड सार्वकारस्य “फ्रीडं आफ् डब्लिन् सिटि” पुरस्कारं प्राप्तवती । २००० तमे संवत्सरे प्रेसिडेन्षियल् मेडल् आफ् फ्रीडं पुरस्कारं प्राप्तवती । २००२ तमे संवत्सरे युनेस्को मदन्जित् सिङ्ग् पुरस्कारं प्राप्तवती । २००४ तमे संवत्सरे ग्वाङ्ग्जु ह्यूमन् रैट्स पुरस्कारं प्राप्तवती । २००४ तमे संवत्सरे न्यूजिलेण्डदेशस्य मेमोरियल् विश्वविद्यालयस्य गौरव डाक्टरेट् प्राप्तवती । 2007 तमे संवत्सरे गौरवप्रजापुरस्कारं प्राप्तवती । २००९ तमे संवत्सरे फ्रीडम् आफ् ग्लास्को पुरस्कारं प्राप्तवती । महात्मा गान्धिः अन्ताराष्ट्रीय पुरस्कारमपि प्राप्तवती ।
This article uses material from the Wikipedia संस्कृतम् article अङ्ग सान् सू की, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.