गेलेन्

(कालः – क्रि.

श. १३० तः २०१) (द्वितीयं शतकम्)

गेलेन्

अयं गेलेन् (Galen) “अङ्गरचनाविज्ञानस्य पितामहः” इत्येव प्रसिद्धः । मनुष्यशरीरस्य अङ्गच्छेदम् अकृत्वा एव, वैज्ञानिकानाम् उपकरणानां साहाय्यं विना एव अयं गेलेन् अनेकान् विषयान् संशोधितवान् आसीत् । विज्ञानस्य इतिहासे अङ्गरचनाविज्ञानार्थम् अस्य गेलेनस्य योगदानं अत्यन्तं महत्त्वयुतम् इति मन्यते । अयं गेलेन् क्रि. श. १३० तमे वर्षे 'पेर्गेमम्’ इति देशे (इदानीं सः प्रदेशः टर्किदेशे अस्ति) जन्म प्राप्नोत् । वैद्यदेवता 'ईस्क्युलेपियस्’ एव स्वप्ने आगत्य गेलेनस्य पितरं "भवतः पुत्रं वैद्यशास्त्रं पाठयतु” इति अवदत् इति । तदनुगुणम् एव गेलेन् वैद्यः अभवत् । जन्मस्थाने आरब्धः वैद्यशास्त्रस्य अभ्यासः अग्रे स्मर्स्, कारिन्थ्, अलेक्साण्ड्रियानगरेषु अनुवर्तितः । अयं गेलेन् क्रि. श. १६९ तमवर्षतः किञ्चित् कालं यावत् "रों” – नगरे चक्रवर्तिनः मार्कसस्य आस्थाने आस्थानवैद्यः अपि आसीत् । सः प्रमुखाणि संशोधनानि तत्रैव अकरोत् ।

अयं गेलेन् मूषकस्य वा वराहस्य वा छेदनं कृत्वा अनेकान् विषयान् सङ्गृहीतवान् । मर्कटानां शरीरस्य छेदनं कृत्वा, तत्परीक्ष्य अभ्यस्य च तदाधारेण मनुष्यस्य शरीरस्य अङ्गरचनम् ऊहितवान् । सः संशोधनद्वारा प्रधानाः रक्तनाडीः ज्ञातवान् । किन्तु रक्तं केन मार्गेण हृदयं प्रति, ततः बहिः च प्रवहति इति ज्ञातुं न शक्तः अभवत् । रुग्णस्य स्थितिं ज्ञातुं नाडीपरीक्षणम् अत्यन्तं सहकारी इत्यपि ज्ञातवान् आसीत् । बालाः पित्रोः अपेक्षया पितामहादयः इव भवन्ति । शरीरे सर्वत्र अपि स्वेदः जायते । इत्येतादृशान् बहून् अंशान् सः गेलेन् संशोधितवान् आसीत् । सः स्वीयम् अनुभवं, परीक्षणं सर्वं योजयित्वा बहूनि पुस्तकानि अपि लिखितवान् । तेन लिखितानि पुस्तकानि इति उच्यमानेषु ८३ पुस्तकानि तु निस्संशयेन तदीयानि एव इति ज्ञातम् अस्ति । सः वैद्यकीयानि पुस्तकानि, तत्त्वशास्त्रस्य च पुस्तकानि लिखितवान् आसीत् । “स्नायूनां चलनम्”, "अङ्गरचनायाः अध्ययनम्” इति च तेन गेलेनेन लिखितं महत्त्वभूतं पुस्तकद्वयम् ।

सहना, चातुर्यं, वीक्षणाशक्तिः, प्रमाणिकता च गेलेनं प्रसिद्धम् अकुर्वन् । “परीक्षां विना किमपि अहं न अङ्गीकरोमि । अग्रे अपि मत्सदृशाः, कार्ये आसक्ताः, सत्ये श्रद्धावन्तः दर्शमात्रेण निर्णयं न कुर्वन्तु । बहुकालस्य अनुभवस्य अनन्तरम् एव वस्तुस्थितिः ज्ञायते” इति वदति स्म गेलेन् । सः क्रि. श. २०१ तमे वर्षे दिवङ्गतः ।

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

५४भारतीयभूसेनाआमलकम् (आहारपदार्थः)वाराणसी१५६३१६.६ द्वैभूतसर्गौ लोकेभौतिकीशिश्नम्५२५१६९५ज्योतिषस्य सिद्धान्तस्कन्धःभारतमाता१६७८काव्यालङ्कारः (भामहविरचितः)कर्णाटकम्मार्कण्डेयःभारतस्य सर्वोच्चन्यायालयः१६८४खो खो क्रीडावाल्मीकिः१०७६Sanskritdocuments.orgतर्कसङ्ग्रहःमहावीरचरितम्अर्जुनःनासिकासामवेदःअन्तर्जालम्१६७ज्ञानम्१४३४महात्मा गान्धीरामानुजाचार्यःभारतीयदर्शनशास्त्रम्बुद्धप्रस्थमन्यसे यदि तच्छक्यं...छन्दांसिभारतस्य इतिहासःमालविकाग्निमित्रम्संयोगितायद्यप्येते न पश्यन्ति...द्राविडमुन्नेत्रकळगम्(डि.एम्.के)यजुर्वेदःपोलोनियमआत्मसंयमयोगःऋतुसंहारम्२७१७४८नीतिशतकम्माण्डूक्योपनिषत्बर्लिन१४०मोक्षःमृच्छकटिकम्ब्रह्मैव जीव-जगत्-ईश्वराःआर्याछन्दःभारतस्य सूर्यमन्दिराणिकोमोवेङ्कटरामन् रामकृष्णन्लक्ष्मीःतापीमण्डलम्८.८ अभ्यासयोगं....बाणभट्टःद्वैतदर्शनम्१३०५१००३क्रिस्टियन् हुगेन्स्दमण दीव चकन्नड४८३३५वायुमालिन्यम्भासः🡆 More