अगस्त्यवृक्षः

अगस्त्यवृक्षः २०-३० पादपरिमितम् उन्नतः भवति १/२ -१ पादपरिमितदीर्घेषु संयुक्तपन्नेषु ४१-६१ पत्रकाणि भवन्ति । पुष्पं श्वेतं, नौकाकारे भवति । अस्मिन् २-४ अक्षीयमञ्जर्यः भवन्ति । अस्य शिम्बा (ब्रीजकोशः) एकपादपरिमिता दीर्घा किञ्चित् वक्रा च भवति । शरदृतौ पुष्पाणि, शीतकाले फलानि च भवन्ति । आकाशे अगस्त्यनक्षत्रस्य उदये सति पुष्पाणि भवन्ति इति कारणेन अस्य नाम अगत्यः मुनुद्रमः इति अस्ति । बङ्ग्गालप्रदेशे अयम् अधिकतया वर्धते इति कारणेन वङ्गसेनः इत्यपि अस्य नामान्तरं विद्यते । अयम् अत्यन्तं शीघ्रं वर्धते म्रियते च ।

अगस्त्यवृक्षः/Sesbania grandiflora
अगस्त्यवृक्षः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Sesbania
जातिः S. grandiflora
द्विपदनाम
Sesbania grandiflora
(L.) Poiret

वर्धनस्थलम्

अगस्त्यवृक्षः मूलस्थानं मलेशिया इति वदन्ति । मसिषस्, ईजिप्ट् आष्ट्रेलिया इत्यादिषु देशेषु अयम् अधिकतया दृश्यते । अयं भारते अपि सामान्यतः सर्वत्र दृश्यते । गृहोद्यानेषु, उद्यानेषु, पूगवाटिकासु च एनं वर्धयन्ति ।

उपयोगः

अगस्थवृक्षस्य सर्वेषु भागेषु औषधीयगुणधर्माः सन्ति । प्राचीनकालतः अयं भारतीयानां परिचितः । अनेकेषु आयुर्वेदग्रन्थेषु अस्य उलेखः लभ्यते । अस्य उपयोगाः अधः निरुपिताः[उद्धरणं वाञ्छितम्]

  1. अस्य मूलं, त्वजं वा कुट्टयित्वा लेपयन्ति चेत् सन्धिवातसदृशाः तीव्रवेदनायुक्ताः रोगाः उपशाम्यन्ति ।
  2. पर्णानां कल्कं सज्जीकृत्य पिटकानाम् उपरि लेपनं फलप्रदम् ।
  3. शिरोवेदना पीनसः, कफः, ज्वरः इत्यादिषु अगस्त्यस्य पर्णस्य रसः नस्यवत् प्रयुज्यते । त्वचः रसः मधुना सह सेव्यतेच
  4. अपस्मारोगे अपि अस्य पर्णानां रसस्य नस्यवत् सेवनं परिणामकारि ।
  5. अगस्त्यस्य पक्वफलस्य सेवनं बुद्धिशक्तिं वर्धयतु मस्तिष्कस्य दौर्बल्यं दूरीकरोति च ।
  6. तिमिरः, नक्तान्धता इत्यादिषु नेत्ररोगेषु अस्य पर्णस्य पुष्पस्य च रसः सेव्यते चेत् दृष्टिशक्तिः वर्धते ।
  7. अजीर्णता, क्रिमिदोषः, उदरवेदना इत्यादिषु जीर्णाङ्गसमस्यानां निवारणाय अगस्त्यस्य पर्णानां पुष्पाणां च उपयोगः शाकवत् क्रियते । व्यञ्जनादिकं निर्मीय खादनेन समस्याशमनं भवति
  8. अतिसारे आमशङ्कायां च अस्य त्वचः रसं मधुना सह सेवन्ते ।
  9. महिलानां सम्बद्धेषु श्वेतप्रदरादिषु, गोनोरियारोगे विषसेवने च अगस्त्येस्य औषधं परिणामकारि ।

अगस्त्यवृक्षः  अगस्त्यवृक्षः 

औषधसेवन परिमाणः

अस्य रसः १०-२० मि.ली, कषायः ५०-१०० मि.ली. परिमाणे च सेवितुं शक्यते ।

अगस्त्ये रासायनिकांशाः

अस्मिन् प्रोटीन् , अनेके जीवसत्त्वाः ,;लोहाः , कानिचन विशिष्टानि रासायनिकानि च सन्ति । त्वचि टयानिनु रक्तवर्णस्य कश्चन निर्यासः च विद्यते । पर्णेषु प्रोटीन्, क्याल्सियं, रञ्जकं अयः, ए-बि-सि- जीवसत्त्वाः च भवन्ति । पुष्पेषु प्रोटीन् ए-बि- जीवसत्वाः भवन्ति । बीजे अत्यधिकपरिमाणे अर्थात् माकिं ७०% प्रोटीन् भवति । अन्येषु कषु अपि वनस्पतिषु एतावति प्रोटीन न भवति । बीजे प्रोटीनीनेन सह कार्बोहैड्रेट्, किञ्चित् विधं तैलं च भवति ।

टिप्पणी

Tags:

अगस्त्यवृक्षः वर्धनस्थलम्अगस्त्यवृक्षः उपयोगःअगस्त्यवृक्षः औषधसेवन परिमाणःअगस्त्यवृक्षः अगस्त्ये रासायनिकांशाःअगस्त्यवृक्षः टिप्पणीअगस्त्यवृक्षःबङ्गाल

🔥 Trending searches on Wiki संस्कृतम्:

१४५०अर्बियमवैदिकी संस्कृतिःपाणिनिः८२अत्र तत्र९४६शिश्नम्कलान्यू जर्सीतद्विद्धि प्रणिपातेन...भगत सिंह६८६Haryanaउर्वारुकम्९८०उत्तररामचरितम्१२०द्वैतदर्शनम्पञ्चचामरम्युरोपखण्डःअधिवक्तानियोडाइमियमहोलीपर्वकालिदासस्य उपमाप्रसक्तिःज्ञानम्उत्तराखण्डराज्यम्भारतस्य केन्द्रशासितप्रदेशाःपद्मपुराणम्द्राविडमुन्नेत्रकळगम्(डि.एम्.के)भाषाकुटुम्बानां सूचिःनिघण्टुःनलचम्पूःबीहु-नृत्यम्अश्वघोषःसाहित्यदर्पणःविलियम ए फोलर१७७९मुख्यपृष्ठम्महाद्वीपाःबोत्सवानानक्षत्रम्८२८मध्वाचार्यःविष्णुपुराणम्हितोपदेशः१४६९पञ्जाबराज्यं६०७Google Earthदीपावलिः६७भारतस्य भाषाःमहावीरचरितम्संस्कृतविकिपीडियावर्षःयोगस्थः कुरु कर्माणि...मेघदूतम्मुण्डकोपनिषत्यथा प्रकाशयत्येकः...मोल्दोवादेवनागरी१०१२रास्यापुराणम्जलम्त्रिविक्रमभट्टःकठोपनिषत्विशिष्टाद्वैतवेदान्तःमालतीमाधवम्अलङ्कारशास्त्रम्पाकिस्थाने हिन्दूधर्मः१६३७६९३१६५८🡆 More