आस्ट्रेलिया

७,६८६,८४९ च कि मी विस्तारयुतः अस्ति आस्ट्रेलियाखण्डः । तास्मेनिया अस्मिन् अन्तर्भवति । अस्मिन् खण्डे ६ राजनैतिकविभागाः सन्ति । मांसं, क्षीरं, गोधूमः, फलानि, खनिजाः, कार्यागारः इत्येतैः आधारिता आर्थिकी व्यवस्था अत्र विद्यते ।

आस्ट्रेलिया
आस्ट्रेलिया
आस्ट्रेलिया
आस्ट्रेलियायाः वातावरणदर्शिनि चित्रम्

परिसरः

वृष्टिः

अस्य खण्डस्य महान् भागः मरुभूमिः इत्यतः शुष्कवातावरणम् अस्ति । वार्षिकवृष्टिः सामान्यतह् ५०० मि मीटर्मितम् । पर्थ, एडिलेड्, अल्बेनि, मेल्बर्न्, सिड्नि, ब्रिस्टेन्प्रदेशेषु वृष्टिः १०००-१५०० मि मीटर्मितं भवति । डार्विन्, यार्क भूशिरः, केर्क्स्, अल्बेनि, तास्मेनियायाः पश्चिमभागे वृष्टिः १५०० मि मी अपेक्षया अधिका भवति । खण्डस्य मध्यभागः पश्चिमभागश्च शुष्कौ स्तः । मध्यभागे ५००-२५० मि मी अपेक्षया न्यूना वृष्टिः भवति । अस्ट्रेलियायाः आल्प्स्-प्रदेशे हिमपातः भवति । खण्डस्य मध्यभागे मकरवृत्तं सञ्चरति ।

आस्ट्रेलिया 
आस्ट्रेलियाध्वजः

औष्ण्यम्

जनवरीमासे अत्र ग्रीष्मकालः । दक्षिण-उत्तरभागेषु २५ -३० सेण्टिग्रेड्मितम् औष्ण्यं भवति । मध्यभागे वायव्यभागे च ३० -३५ सेण्टिग्रेड्मितं भवति । नैऋत्य-आग्नेयकरावलीप्रदेशेषु १० - १५ सेण्टिग्रेड्मितं भवति । विशेषतया विशालस्याण्डिमरुभूमौ औष्ण्यं भवति ४० सेण्टिग्रेड्मितम् । जुलैमासे अत्र शैत्यकालः भवति । तदा उत्तरकरावलीप्रदेशेषु औष्ण्यं भवति २५ -३० सेण्टिग्रेड्मितं भवति । दक्षिणदिशि १० सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । विशेषतया तास्मेनिया, विक्टोरिया, न्यू सौथ् वेल्स् प्रदेशेषु औष्ण्यं ५ सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति ।

सस्यसम्पत्तिः

वातावरणानुगुणं सस्यानि अपि अत्र विविधानि भवन्ति । विक्टोरिया न्यू सौथ् वेल्स्भागेषु समशीतोष्णवलयस्य पर्णपातारण्यानि सन्ति । अत्र मरुद्रुमः नीलगिरिश्च अधिकप्रमाणेन वैविध्यमयरीत्या वर्धन्ते । निर्यास-वृक्षाः अपि अत्र वर्धन्ते । ब्रिस्टेन्तः डार्विन्पर्यन्तं करावलीप्रदेशः, उष्णवलयस्य अरण्यानि च विद्यन्ते । अत्र ओक्, फर्न्, ताडजातिवृक्षः, आर्चिड् इत्यादयः उष्णवलयस्य सस्यानि वर्धन्ते । अस्मिन् खण्डे कृष्यर्थं विद्यमाना भूमिः अत्यल्पा । अधिकांशः भागः उष्णवलयस्य तृणवर्धनसमतलप्रदेशः अस्ति । क्वीन्स्लेण्ड्, उत्तरभूप्रदेशस्य उत्तरार्धं, पश्चिमवलयस्य उत्तरार्धम् इत्येते तृणवर्धनप्रदेशाः । मरे-डार्लिङ्ग्-खातेषु च तृणानि वर्धन्ते ।

फलोदयः

गोधूमः अत्रत्यः प्रमुखः फलोदयः । चीन-भारतयोः कृते इतः गोधूमस्य निर्यातः भवति । ओट्स्, बार्ले, सोरगम्, यावानलः, लघुप्रमाणेन व्रीहिश्च अत्र वर्धन्ते । समृद्धायाम् उत्तरभूम्यां कदली, आम्रम्, बीजपूरम्, मधुकर्कटी, अनानस्फलानि वर्धन्ते । दक्षिणभूम्यां नारङ्गम्, लिम्बूकम्, सेवम्, शुष्कद्राक्षा, बीजरहितानि वनफलानि च वर्धन्ते । अत्र ५५% भूभागः शाद्वलं १८% भूभागः अरण्यञ्च वर्तते ।

आस्ट्रेलिया 
आस्ट्रेलियायाः मुक्तमहास्वर्णखनिः

खनिजाः

अयः, खनिजाङ्गारम्, बाक्सैट् इत्येतेषां खनिः प्रमुखतया अत्र विद्यन्ते । स्वर्णखनिः विक्टोरियायां पश्चिमास्ट्रेलियायाञ्च विद्यते । विक्टोऱिया, क्वीन्स्लेण्ड् न्यू सौथ वेल्स् प्रदेशेषु खनिजाङ्गारस्य खनिः विद्यते । न्यू सौथ् वेल्स् प्रदेशे रजतं, पुष्पाञ्जनं, सीसम्, अयः इत्येते विद्यन्ते । क्वीन्स्लेण्ड्प्रदेशे ताम्रं, युरेनियं, तैलेन्धनानि सन्ति । विक्टोरियायाम् इन्धनतैलम्, अनिलः, जिप्सम्, टिन्, स्वर्णञ्च उपलभ्यते । दक्षिणास्ट्रेलियायां सीसम्, अयः, युरेनियं खनिजाः सन्ति । उत्तरभूप्रदेशेषु ताम्रं, स्वर्णं, युरेनियं, मेङ्गनीस्, बाक्सैट्, रजतं, मैका, टङ्ग्स्टन् इत्यादीनां खनिजाः विद्यन्ते । पश्चिमास्ट्रेलिया स्वर्णाय प्रसिद्धा अस्ति । अत्रत्ययोः कालगूर्ली कूलगार्डी प्रदेशयोः स्वर्णोत्पादनं भवति । तास्मेनियायां खनिजाङ्गारं, ताम्रं, दास्ता, टिन्, रजतम् इत्यादीनां खनिजाः लभ्यन्ते ।

पर्वताः

ग्रेट्-डिवैडिङ्ग्-श्रेण्यः अत्र विद्यमानाः दीर्घाः विस्तृताः श्रेण्यः । सिड्नेः दक्षिणतः उत्तरस्य कुक्टौन्पर्यन्तं करावलेः समानान्तररूपेण विस्तृताः एताः सस्यानां वन्यप्राणिनाञ्च वरायते । होवेभूशिरसः वायव्यभागे आस्ट्रेलियायाः आल्प्स्-पर्वतश्रेण्यः विद्यन्ते । अत्र विद्यमानं २२३४ मी उन्नतं कोसियस्कोशिखरम् अस्मिन् खण्डे विद्यमानम् अत्युन्नतं शिखरं वर्तते । न्यूक्यासलस्य पश्चिमदिशि ब्लूपर्वताः सन्ति । एडीलेड्तः दक्षिणोत्तरदिशि फ्लैण्डर्स्-श्रेण्यः विद्यन्ते । ऐरिसरोवरस्य पूर्वभागेषु स्टुवर्ट्-मरुभूमिः, उत्तरदिशि सिम्प्सन्-मरुभूमिश्च विद्यते । अलीस्-स्प्रिङ्ग्सस्य उत्तरे मेक्डोनेल्-श्रेण्यः सन्ति । दक्षिणे मस्ग्रेव्-श्रेण्यः सन्ति । अस्याः श्रेण्याः दक्षिणभागे दक्षिण-पश्चिमभूप्रदेशेषु विक्टोरियामरुभूमिः विद्यते । अस्याः दक्षिणदिशि नल्लर्बार्-क्रीडाङ्गणं विद्यते । पश्चिमभूप्रदेशस्य मध्ये उत्तरभागे च गिब्सन्-मरुभूमिः, विशालस्याण्डि-सिकतामरुभूमिः च विद्यते । पर्थस्य समीपे डार्लिङ्ग्-श्रेण्यः सन्ति । वायव्यभागे हेमर्स्ले श्रेणी, राबर्ट्सन् श्रेणी च विद्यते । उत्तरे डर्बिप्रदेशस्य ईशान्यभागे किङ्ग् लियोपोल्ड् श्रेणी, ततः किम्बर्लि प्रस्थभूमिश्च विद्यते । उत्तरभूप्रदेशस्य उत्तरसमुद्रतीरभागे अर्न्हेम्-भूमिः विद्यते । अस्य दक्षिणभागे तनामिमरुभूमिः विद्यते । क्वीन्सलेण्ड्-प्रदेशस्य उत्तरभागे यार्क्-भूशिरसः प्रस्थभूमिः विद्यते । ऐरिसरोवरस्य कारणतः अत्र अन्तर्जलस्य लाभः विद्यते ।

जलसम्पत्तिः

अस्मिन् खण्डे विद्यमाना प्रमुखा नदी वर्तते मरेनदी । इयं विक्टोरिया-न्यू सौथ् वेल्स् प्रदेशयोः प्रवहति । अस्याः उपनद्यः सन्ति - डार्लिङ्ग्, मुर्रुम्बिजी, गौल्बर्न् च । अर्धमार्गे शुष्कतां गच्छन्त्यः काश्चन नद्याः सन्ति । पर्वतप्रदेशतः प्रवहन्त्यः पेसिफिक्-समुद्रेण मिलन्तः लघुनद्यः सन्ति । ऐरिसरोवरः दक्षिण-अस्ट्रेलियायां विद्यमानः कश्चन शुष्कः सरोवरः । फ्लैण्डर्स्-श्रेणीनां पश्चिमदिशि मधुरजलस्य सरोवराः सन्ति । पश्चिम-आस्ट्रेलियायाः कालगूर्लियां परितः प्रदेशेषु विशालविक्टोरिया-मरुभूमिप्रदेशेषु च लघुसरोवराः सन्ति । मध्य-आस्ट्रेलियायाम् अन्तर्जलं विद्यते । आर्टीसियन्-कूपैः जलं लभ्यते ।

आस्ट्रेलिया 
कोलाभल्लूकः

प्राणिपक्षिणः

अयं खण्डः विचित्र प्राणिनां पक्षिणां च वासभूमिः । अत्र विद्यमानाः अनेके प्राणिनः अन्यत्र न विद्यन्ते । शरीरे विद्यमानेषु स्यूतेषु श्रावकान् नयन्तः प्राणिनः अत्र अधिकतया दृश्यन्ते । काङ्गरू, वल्लाबि, पोसम्, वोम्ब्याट्, चिक्रोडः, महामूषिकः, तास्मेनियावृकाश्च एवं स्यूतवन्तः भवन्ति । कोलाभल्लूकः, प्लाटिपस्-नामकः जलचरप्राणी, पिपीलिकाभक्षी एचिड्ना इत्येते अत्रत्याः विशिष्टाः प्राणिनः । वनशुनकः 'डिङ्गो' मेषानां मृगयां करोति । शशाः अत्र अत्यधिकाः । कोकाबुर्रा-पक्षी, उड्डयननर्हः एमु, केसोवेरि, विविधशब्दान् अनुकुर्वन् लैर्-पक्षी च अत्रत्याः विशेषाः । आकर्षकवर्णयुताः शुकाः, मधुभक्षी पक्षी, तीक्ष्णपुच्छयुतः गृध्रः, बकः, कदम्बः, पेलिकन्, कृष्ण-हंसपक्षी च अत्र वसन्ति ।

उद्यमाः

पर्थ, मेल्बर्न्, ब्रिस्टेन्, सिड्नि च अत्रत्याः प्रमुखानि उद्यमकेन्द्राणि । स्वर्णं खनिजाङ्गारयोः खन्युद्यमः अत्र पुरातनीयः महाप्रमाणकश्च वर्तते । अत्र मेषपालनं, ततः मेषमांस-ऊर्णयोः उत्पादनं, निर्यातः, क्षीरं, क्षीरकृषिः, उद्यानकर्म, गोधूमकृषिः च अत्रत्यप्रमुखकार्याणि । तान्त्रिकवस्तूनि, यन्त्रोपकरणानि, वस्त्रोत्पादनम्, आहारसंस्करणम्, अरण्यवृद्धिश्च अत्रत्याः प्रधानोद्यमाः ।

वैशिष्ट्यानि

काङ्गरू, डिङ्गो, वल्लाबि, कोलाभल्लूकः प्रमुखाः प्राणिनः । एमु लैर् च प्रमुखपक्षिणौ । अत्रत्यमूलनिवासिनां साधनम् अस्ति बूमराङ्ग् इत्येतत् (क्षिप्यते चेत् भ्रमणानन्तरं प्रयोक्तारं प्रत्येव आगच्छति) । आर्टिसियन्कूपाः, विशालमरुभूमिः, फलयुक्ता पूर्वकरावली, ग्रेट् बेरियर्नामिका प्रवालभित्तिः च अत्रत्य विशेषः । जनपद-आर्थिक-स्वावलम्बनयुक्तः प्रजाप्रभुत्वयुक्तः अस्ति अयम् । विमानयानद्वारा भवति अत्र आरोग्यसंरक्षणम् । टेन्निस्, क्रिकेट् च अस्य खण्डस्य विशिष्टक्रीडे । सिड्निप्रदेशे विद्यमानः अयःसेतुः ५०२ मीटर्मितं दीर्घं विद्यते ।

राजधानी - कन्बेरा

महाद्वीपः

बाह्‍य

Tags:

आस्ट्रेलिया परिसरःआस्ट्रेलिया सस्यसम्पत्तिःआस्ट्रेलिया फलोदयःआस्ट्रेलिया खनिजाःआस्ट्रेलिया पर्वताःआस्ट्रेलिया जलसम्पत्तिःआस्ट्रेलिया प्राणिपक्षिणःआस्ट्रेलिया उद्यमाःआस्ट्रेलिया वैशिष्ट्यानिआस्ट्रेलिया

🔥 Trending searches on Wiki संस्कृतम्:

विद्या४२६६ मार्चअगस्त ९मई २७१६ मईजून २९३० दिसम्बर१४ जुलाईअगस्त २०कालिदासस्य उपमाप्रसक्तिः१२९८१०दिसम्बर २५९४५दिसम्बर १६सामाजिकमाध्यमानिदिसम्बर ९रेडियो१४ मार्चरूसीभाषा२८८१० फरवरीउपनिषद्दिसम्बर १९कामसूत्रम्१९ मार्च२२ सितम्बर११७८११८४चीनदेशःअप्रैल १७३६४दिसम्बर १२अगस्त४१९एस्पेरान्तोभट्टिःजनवरी ३०१९७१८ मार्चअगस्त २३३०७१२ जूनजनवरी १६२६ नवम्बर१२ सितम्बर५ अक्तूबरजून १८५७६हन्शिन् टाइगर्सअभिज्ञानशाकुन्तलम्५ दिसम्बरअल्बर्ट् ऐन्स्टैन्अप्रैल १५१३२५१४७४टोक्योदिसम्बर १४९६७जनसङ्ख्या२ जनवरीजपान्नवम्बर १८चीनीभाषा९४४१८३६९८८जीवन्तीवृक्षः६ अगस्त१ दिसम्बरउपनयनम्रजतम्७ जून२१३१३३८🡆 More