अभिनवगुप्तः

अभिनवगुप्तः ( ( शृणु) /ˈəbhɪnəvəɡʊptəh/) (हिन्दी: अभिनव गुप्त, आङ्ग्ल: Abhinavagupta) (ई.

९५० – १०२० ) काश्मीरी दार्शनिकः, रहस्यवादी, सौन्दर्यवेत्ता च । तस्य गणना सङ्गीतज्ञ-कवि-नाट्यकार-पाण्डुलिपिज्ञ-वेदान्तज्ञ-तर्कवित्त्वेन अपि भवति । तस्य बहुज्ञव्यक्तित्वधनेः प्रभावः भारतीयसंस्कृतौ प्रत्यक्षः अस्ति । काश्मीरस्य महाकवेः गृहे प्राप्तजन्मः अभिनवगुप्तः अनेकविद्यापीठेभ्यः दर्शनस्य, कलायाः च ज्ञानं प्राप्तवान् । दर्शनकलयोः ज्ञानप्राप्त्यै तेन पञ्चदश उत अधिकानां शिक्षकाणां, गुरूणां च मार्गदर्शनं प्राप्तम् । तस्य रचनासु पञ्चत्रिंशद् मुख्यरचनाः प्रसिद्धाः सन्ति । तासु सर्वासु रचनासु प्रसिद्धतमा रचना तन्त्रालोकः इति । त्रिक-कौला-आचारयोः सर्वेषां दार्शनिक-व्यावहारिक-पक्षाणां तस्मिन् ग्रन्थे सङ्कलनम् अस्ति । तन्त्रालोक-ग्रन्थ एव काश्मीरिशैवदर्शनम् इति प्रसिद्धः । तन्त्रालोकग्रन्थवदेव प्रसिद्धतमा तस्य अपरा कृतिः सौन्दर्यशास्त्रसम्बद्धा । तस्याः कृतेः नाम 'अभिनवभारती' इति । अभिनवभारती इति भरतमुनेः नाट्यशास्त्रस्य व्याख्याग्रन्थः । अभिनवगुप्तस्य विचाराः बौद्धमतप्रभाविताः आसन् ।

अभिनवगुप्तः
Abhinavagupta
अभिनवगुप्तः
जन्मतिथिः ई. ९५०
जन्मस्थानम् काश्मीरम्, भारतम्
पूर्वाश्रमनाम शङ्करः
मृत्युतिथिः ई. १०२०
मृत्युस्थानम् मङ्गम्, काश्मीरम्, भारतम्
गुरुः/गुरवः शम्भुनाथः, लक्ष्मश्णगुप्तः, भूतिराजः।
तत्त्वचिन्तनम् काश्मीरिशैवदर्शनम्
सम्मानाः काश्मीरिशैवदर्शनस्य वैध्यध्यपूर्णव्याख्याता
http://www.abhinavagupta.net/

माधवाचार्यप्रणिते 'शङ्करदिग्विजयः' इत्याख्ये ग्रन्थे उल्लिखितं यत्, शाक्तभाष्यकारेण अनिभवगुप्ताख्येन विदुषा सह शङ्कराचार्यस्य शास्त्रार्थः जातः आसीत्, तस्मिन् शास्त्रार्थे आदिशङ्कराचार्याद् अभिनवगुप्तः पराजितः इति । सः शाक्तमतानुयायी अभिनवगुप्तः आचार्याभिनुगुप्ताद् भिन्नः मन्यते । यतो हि सः अभिनवगुप्तः कामरूपस्य (असमराज्यस्य) निवासी आसीत् । तन्त्रालोकस्य रचयिता आचार्याभिनवगुप्तः तु काश्मीरनिवासी शैवः आसीत् ।

जन्म, परिवारश्च

अभिनवगुप्तस्य पितुः नाम नृसिंहगुप्तः, मातुः नाम विमला च । तयोः त्रीणि अपत्यानि आसन् । तेषु ज्येष्ठः अभिनवगुप्तः । अभिनगुप्तस्य भ्रातुः नाम मनोरथः, भगिन्याश्च नाम अम्बा इति । अभिनवगुप्तस्य माता विमला 'विमलकला' इत्यपि प्रसिद्धा । यतो हि अभिनवगुप्तः स्वरचनासु विमलकला इति नामोल्लेखम् अकरोत् । विमलकला काचित् योगिनी आसीत् । अतः तस्याः पुत्रः अभिनवगुप्तः 'योगिनीभूः' इति प्रसिद्धः । नृसिंहगुप्तस्य अपरं नाम 'चुलुलकः' इति आसीत् । अभिनवगुप्तस्य पितृव्यस्य नाम वामनगुप्तः आसीत् । अभिनवभारत्याख्ये ग्रन्थे वामनगुप्तेन रचितैः श्लोकैः सह अभिनवगुप्तः स्वपितृव्यस्य नामोल्लेखम् अकोरत् । वामनगुप्तस्य पञ्च पुत्राः आसन् । तेषां नामानि क्रमेण क्षेमः, उत्पलः, अभिनवः, चक्रकः, पद्मगुप्तश्च [१] । अभिनवगुप्तः स्वयम् अविवाहितः आसीत् ।

शिक्षणं, गुरुवश्च

परिवारे एव विदुषाम् उपस्थितित्वाद् अभिनवगुप्तः बाल्यकाले पाठशालां न गतवान् । सः स्वपरिवारसदस्येभ्यः एव ज्ञानार्जनम् अकरोत् । अभिनवगुप्तस्य पिता नृसिंहगुप्तः संस्कृतव्याकरणस्य, तर्कशास्त्रस्य विद्वान् आसीत् । पितृव्यः वामनगुप्तः काव्यशास्त्रस्य विद्वान् च । अतः ताभ्यामेव अभिनवगुप्तः ज्ञानार्जनम् अकरोत् । परन्तु युवावस्थायां प्राप्तातां सत्याम् अभिनवगुप्तस्य ज्ञानापिपासा प्रचण्डा अभवत् । शैवधर्मस्य दृष्टिकोणं, परम्परां च ज्ञातुं, यः गुरुः स्वयं शैवशास्त्रीयपरम्परायां प्रशिक्षितः स्यात्, तादृशस्य गुरोः सः आवश्यकताम् अन्वभवत् । अभिनवगुप्तस्य गुरुषु प्रप्रथमगुरुः लक्ष्मणगुप्तः अभवत् । सः प्रत्यभिज्ञायाः, क्रमदर्शनस्य, त्रिकदर्शनस्य च ज्ञाता आसीत् । लक्ष्मगुप्तस्य पिता उत्पलाचार्यः सोमानन्दस्य शिष्यः आसीत् । उत्पलाचार्यादेव ज्ञानार्जनं कृत्वा लक्ष्मणगुप्तः पितरमेव गुरुत्वेन प्रास्थापयत् ।

आचार्यः अभिनवगुप्तः स्वग्रन्थेषु विभिन्नगुरूणां स्मरणं श्रद्धया करोति । तस्य गुरुषु प्रसिद्धानां नामानि सन्ति, यथा –

१. नृसिंहगुप्तः (व्याकरणशास्त्रज्ञः), २. वोमनाथः (द्वैताद्वैततन्त्रज्ञः), ३. भूतिराजतनयः (द्वैतवादी शैवसम्प्रदायज्ञः), ४. लक्ष्मणगुप्तः (प्रतिभिज्ञा-क्रम-त्रिक-दर्शनज्ञः), ५. भट्टेन्दुराजः (ध्वनिसिद्धान्तज्ञः, काव्यशास्त्रज्ञः), ६. भूतिराजः (ब्रह्मविद्याज्ञः), ७. भट्टतौतः (नाट्यशास्त्रज्ञः)

अभिनुगुप्तस्य नाट्यशास्त्रस्य गुरुः भट्टतौतः "काव्यकौतकम्" इत्याख्यं ग्रन्थम् अरचयद् इति लोचनटीकायाम् अभिनवगुप्तः उल्लिखति । तस्मिन् काव्यकौतके अभिनवगुप्तः 'विवरणम्' अपि अलिखत् । अभिनवभारत्याः अन्तिमे अभिनवगुप्तः कथयति यद्

द्विजवरतोतनिरूपितसन्ध्यध्यायार्थतत्त्वघटनेयम् ।

अभिनवगुप्तेन कृता शिवचरणाम्भोजमधुपेन ।।

भट्टेन्दुराजविषये उल्लेखनीयम्

भट्टेन्दुराजः अभिनवगुप्तस्य काव्यशास्त्रस्य गुरुः आसीत् । सम्भवतः आचार्यम् अभिनवगुप्तं भट्टेन्दुरेव धन्वन्यालोकम् अपाठयत् । स्वस्य पुस्तकेषु अभिनवगुप्तः भट्टेन्दोः उद्धरणम् अनेकवारम् अयच्छत् । धन्वन्यालोकस्य "लोचनम्" इत्याख्यायाः टीकायाः आरम्भे अभिनवगुप्तः भट्टेन्दुं नमस्करोति । 'लोचनम्' इत्याख्यायां टीकायाम् अभिनवगुप्तः बहुत्र 'ध्वनिरत्र श्लोकऽस्मद्गुरुभिर्व्याख्यातः', 'इत्याशयोऽत्र ग्रन्थेऽस्मद्गुरुभिर्निरूपितः', 'अस्मद्गुरवस्त्वाहुः' इत्यादीनां वाक्यानाम् उपयोगम् अकरोत् । एतादृशैः वाक्यैः विद्वांसः अनुमन्यन्ते यद्, अभिनवगुप्तस्य गुरुणा भट्टेन्दुनाऽपि ध्वन्यालोकस्योपरि काचित् टीका लिखिता स्यादिति । बूह्लर् (Georg Bühler) इत्याख्यस्य काश्मीराभिलेखे उल्लेखः अस्ति यद्, भट्टेन्दोः विषये अभिनवगुप्तेन स्वग्रन्थे (श्रीमद्भगवद्गीतायाः टीकायां) उल्लेखः कृतः अस्ति इति । श्रीमद्भगवद्गीतायाः टीकायाम् उल्लेखः अस्ति यत्, भट्टेन्दुः कात्यायनगोत्रोत्पन्नः आसीत् । सः सौचुकस्य प्रपौत्रः, भूतिराजस्य च पुत्रः आसीदिति ।

केचन विद्वांसः उद्भटस्य व्याख्यातुः प्रतीहारेन्दुराजस्य, अभिनुगुप्तगुरोः भट्टेन्दुराजस्य च एकत्वं पश्यन्ति । परन्तु महामहोपाध्यायः काणे-महोदयः उक्तम् एकत्वम् खण्डयति । सः स्वग्रन्थे उपस्थापयति यत्, प्रतीहारेन्दुराजः ध्वनिसिद्धान्तं न स्वीकरोति । प्रत्युत भट्टेन्दुराजः ध्वनिसिद्धान्तस्य व्याख्यातृत्वेन अभिनवगुप्तस्य "लोचनम्" इत्याख्यायां टीकायाम् उल्लिखितः । अभिनवगुप्तः कुत्रापि स्वगुरोः कृते 'प्रतीहार' इत्यस्य शब्दस्य उपाधित्वेन उपयोगं नाकरोत् । प्रतीहारेन्दुराजस्य गुरुः मुकूलः (अभिधावृत्तिमातृकायाः रचयिता) आसीत् । अभिनवगुप्तः प्रगुरुत्वेन उत्पलदेवस्य उल्लेखम् अकरोत्, न तु मुकूलस्य । 'अभिनवभारत्याम्' अभिनवगुप्तः भट्टेन्दुराजं वाल्मीकिः, व्यासः, कालिदासः इत्यादीनां समकक्षं परिगणयति ।

प्रतीहारेन्दुराजः स्वटीकायाम् एकं श्लोकम् अपि न लिखित्वान् । लोचनटीकायां तु बहुत्र भट्टेन्दुराजस्य उल्लेखं करोति । अनने काणे-महोदयः वदति यत्, प्रतीहारेन्दुराजः केवलम् आलोचकः आसीत्, न तु कविः इति ।

गुरुपरम्परा

अभिनवगुप्तः न केवलं वसुगुप्तस्य विषये जानाति स्म, अपि तु तेन लिखितानां ग्रन्थानां गूढाध्ययनम् अपि करोति स्म । वास्तव्येन अभिनवगुप्तः वसुगुप्तस्य एव शिष्यपरम्परायाम् आसीत् । वसुगुप्तस्य शिष्येषु द्वे प्रमुखे धारे स्तः । प्रथमा तु प्रद्युम्नाद् आरभते । अपरा च सोमानन्दाद् प्रारभते । प्रद्युम्नस्य पुत्रः प्रज्ञाराजः स्वपितरं गुरुत्वेन अस्थापयत् । तस्यां शिष्य-परम्परायां प्रमुखेषु शिष्येषु भास्करस्य, अभिनवगुप्तस्य च गणना भवति । सोमानन्दाद् आरब्धायां शिष्यपरम्परायां सोमानन्दस्य प्रसिद्धः शिष्यः उत्पलाचार्यः मन्यते । तस्य उत्पलाचार्यस्य पुत्रः लक्ष्मणगुप्त एव अभिनवगुप्तस्य प्रप्रथमः गुरुः अभवत् । एवं वसुगुप्तस्य उभयोः परम्परयोः सङ्गमः अभिनवगुप्ते भवति स्म ।

जीवनम्

अभिनवगुप्त इत्यस्य शब्दस्य अर्थः क्षमता, आधिकारिकता च । एतद् तस्य न वास्तविकनाम । एतद् तु तस्य गुरुणा प्रदत्तं नामाभिधानम् । जयरथः (११५०-१२०० ई.) अपि स्वस्य संशोधने 'अभिनव' इत्यस्य शब्दस्य त्रीन् अर्थान् उदलिखद् यद्, अभिनवः अर्थात् 'यः सर्वदा संशोधनशीलः भवति', 'यः सर्वत्र विद्यमानो भवति', 'यः प्रसंशाभ्यः सुरक्षितश्च भवति' इति । रन्येरो नोली-(Raniero Gnoli)नामकः इटली-देशीयः संस्कृतविद्वान्, येन अभिनवगुप्तरचितस्य तन्त्रालोकग्रन्थस्य युरोपीयन्-भाषायाम् अनुवादं कृतं, तेन अभिनव-शब्दस्य अर्थः 'नवीनः' इति उल्लिखितः । तस्य सन्दर्भः आसीद् यत्, सर्वदा स्वरहस्यात्मकानुभवैः नवीनरचनाशक्तियुक्तः इति अभिनवः इति ।

जयरथस्य शक्तिपातः इत्याख्ये ग्रन्थे उल्लेखः प्राप्यते यत्, यः शक्तिपाताय योग्यः भवति, स एव अभिनवः इति ।

शैवदर्शनपुनरोदयस्य लोककथा

काश्मीरे शैवदर्शनस्य पुनरोदयसम्बद्धा काचित् कथा प्रचलिता वर्तते । कलियुगे शैवदर्शनस्य लोपे जाते सति आगमग्रन्थज्ञां सर्वथा अभावः अभवत् । ज्ञानविज्ञानधर्मदर्शनदृष्ट्या अन्धकारयुगस्य आरम्भः अभवत् । तस्मिन् समये सदाशिवः लोकोपयोगिदर्शनस्य पुनराम्भाय उचितं समयं दृष्ट्वा कैलासे श्रीकण्ठस्य रूपे प्राकटयत् । तस्मिन् स्वरूपे सदाशिवः दुर्वासर्षये शिवसन्देशस्य प्रचाराय दायित्वम् अयच्छत् । दुर्वासर्षिः स्वतपोबलेन त्रीन् मानसपुत्रान् उदपादयत् । दुर्वासर्षिः स्वयं तेभ्यः शिवसूत्राणां ज्ञानं दत्त्वा भारतवर्षे शैवदर्शनस्य पुनर्स्थापनायै आदिशत् । दुर्वासर्षिणा ते मानसपुत्राः त्र्यायामिनः शिवदर्शनस्य प्राचाराय आदिष्टाः आसन् । ते आयामाः क्रमेण भेदः, अभेदः, भेदाभेदः इति । दुर्वासर्षेः त्रयाणां मानसपुत्राणां नामानि त्र्यम्बकः, अमर्दकः, श्रीनाथश्च । दुर्वासर्षिः त्र्यम्बकाय भेदम्, अमर्दकाय अभेदं, श्रीनाथाय च भेदाभेदम् अपाठयत् ।

भेदः अर्थाद्, शिवः, जीवश्च भिन्नौ स्तः इति । स एव भेदः 'द्वैतवादः' इत्यपि प्रसिद्धः । अभेदस्य अर्थः भवति यद्, शिवः, ब्रह्म, जीवः च एकतत्त्वमेवास्ति । जीवः शिवस्वरूपी एवास्ति, सः शिवः सर्वदा जीवे विद्यमानः भवति इति । भेदाभेदः इत्युक्ते यस्मिन् ब्रह्म, जीवश्च कदाचित् भिन्नौ, कदाचित् एकतत्त्वं मन्येते । अभेदस्य कालान्तरे 'त्रिकदर्शनम्' इति प्रसिद्धिः अभवत् । दुर्वासर्षेः ते त्रयः शिष्याः अपि स्वमानसपुत्राणां माध्यमेन शिवदर्शनस्य ज्ञानं वंशानुक्रमेण अग्रिमाय वंशाय अयच्छन् । एवं पञ्चदशमं वंशानुक्रममं यावद् एषा मानसपुत्रेभ्यः शिवदर्शनदानस्य परम्परा अनवरुद्धा अचलद् । परन्तु पञ्चदशमे क्रमे समुत्पन्नः कश्चन मानसपुत्रः एतां परम्पराम् अभङ्गयत् । सः नियममोल्लङ्घ्य कयाचिद् ब्राह्मणकन्यया सह विवाहम् अकरोत् । तयोः सङ्गमेन सङ्गमादित्याख्यः पुत्रः समुत्पन्नः । यद्यपि सङ्गमादित्यः स्वपरम्पराभङ्गोत्तरं ब्राह्मणकन्यायाः गर्भाद् समुत्पन्नः, तथापि तेन शैवदर्शनस्य मूलदायित्वस्य त्यागः न कृतः । परन्तु यस्याः परम्परायाः आरम्भः दुर्वासर्षिणा कृतः आसीत्, तस्यां परम्परायां तस्य जन्म न जातम् । अतः सः सङ्गमादित्यः शैवदर्शनस्य शिक्षायाः केन्द्रेषु ज्ञानार्जनाय परिव्राजकवद् इतस्ततः अटन् आसीत् । तस्यां यायावर्यां शैवदर्शनजिज्ञासायां सः शारदाक्षेत्रं (काश्मीरं) सम्प्राप्तः । ज्ञानार्जनाय अनुकूलं स्थलं मत्वा सङ्गमादित्यः तत्रैव न्यवसत् । सङ्गमादित्यस्य पुत्रः अरुणादित्यः, अरुणादित्यस्य पुत्रः सोमानन्दः । सोमानन्दः प्रतिभावान् आसीत् । शैवदर्शनं प्रति तस्य जिज्ञासायां सत्यां वसुगुप्तेन सह सङ्गमादित्यस्य सम्पर्कः अभवत् ।

शिवसूत्रस्य अवतरणम्

काश्मीरे शैवदर्शनस्य पुनःस्थापनायाः श्रेयसः अधिकारी वसुगुप्तः मन्यते । तस्य विषयेऽपि किंवदन्ती अस्ति यद्, वसुगुप्तस्य असाधारणप्रतिभां दृष्ट्वा साक्षाच्छिवः शिवसूत्रस्य ज्ञानं तस्मै अयच्छदिति । कस्याञ्चित् रात्रौ यदा वसुगुप्तः प्रघाढनिद्रायाम् आसीद्, तदा सदाशिवः तस्य स्वप्नं गत्वा अकथयद् यद्, त्वं वास्तविकज्ञानस्य पुनर्प्रकाशं कुरु । प्रातःकाले महादेवपर्वतस्य तलं गत्वा काञ्चन विशेषशिलां स्थानन्तरितां कृत्वा तस्याः शिलायाः अधः स्थितं दैवीयज्ञानं लभस्व इति । शिवादेशानुसारं वसुगुप्तः तं स्थानं गत्वा अपश्यत् । तत्र नद्याः तीरे तां शिलां सः प्राप्नोत् । तां शिलां यदा वसुगुप्तः अस्पृशत्, तदा स्पर्शस्य समनन्तरमेव शिला स्वस्थानाद् स्वतः अचलत् । तस्याः शिलायाः अधः वसुगुप्तः शिवरचितां दिव्यां रचनाम् अपश्यत् । सा रचना एव शिवसूत्रम् । वसुगुप्तः तस्य ज्ञानस्य साधनां कृत्वा तज्ज्ञानम् आत्मसादकरोत् । ततः सः तज्ज्ञानं स्वशिष्येभ्यः अपि अयच्छत् । तज्ज्ञानम् एतावद् गूढम् आसीद् यद्, केवलं प्राप्ततावन्तेभ्यः शिष्येभ्यः एव दातुं शिवाज्ञा आसीत् । ततः एव काश्मीरप्रदेशे शिवदर्शनस्य पुनरोद्धारः अभवद् इति मन्यते ।

वसुगुप्तः एव शैवदर्शनस्य महत्त्वपूर्णसिद्धान्तस्य "स्पन्दशास्त्रस्य" जनकत्वेन अङ्गीक्रियते । परन्तु तस्य शिष्यः सोमानन्दः अपि तस्य सिद्धान्तस्य सम्बन्धे मुख्यभूमिकां वहति । सोमानन्देनापि शिवदृष्टिः, ईश्वरप्रत्यभिज्ञासूत्रम् इत्यादिग्रन्थाः लिखाताः । ईश्वरप्रत्यभिज्ञासूत्रस्य अभिनवगुप्तेन विशदव्याख्या कृता अस्ति । वसुगुप्तस्य स्पन्दशास्त्रे तस्य अनेकैः छात्रैः विस्तृता व्याख्या लिखिता अस्ति । तेषु सोमानन्दः, कल्लटभट्टः, उत्पलदेवः इत्यादयः प्रसिद्धाः सन्ति ।

लिलितादित्यः, अत्रिगुप्तश्च

सङ्गमानन्दः यदा काश्मीरं न प्रविष्टः आसीत्, तस्मापद् पूर्वं काश्मीरे काचित् महत्त्वपूर्णा घटना अभवत् । अष्टमशताब्द्यां काश्मीरे ललितादित्याख्यः (७२५-७६१) (ललितादित्यमुक्तापीडः) मेधावी राजा दिग्विजयार्थं निर्गतः आसीत् । स्वदिग्विजयाभियाने तेन कन्नौज-प्रदेशः स्वाधीनः कृतः । तस्य युद्धवर्णनं राजतरङ्गिण्यां प्राप्यते । कन्नौजप्रदेशस्य पराजितः राजा यशोवर्मा (७३०-७४०) ललितादित्यस्य सम्मुखं सुवर्णमुद्राः, धनवैभवं च उपहारत्वेन अस्थापयत् । तदा विक्रमादित्यः कन्नौराजस्य सम्मुखं विचित्रं प्रस्तावम् उदघोषत् । सः कन्नौजस्थान् विदुषः अयाचत् । विक्रमादित्यस्य याचनानुसारं कन्नौजप्रदेशस्य राज्ञः राजसभायाः सर्वेऽपि विद्वांसः काश्मीरस्थाः अभूवन् । तेषु विद्वत्सु कश्चन शैवाचार्यः अपि आसीत् । तस्य नाम अत्रिगुप्तः इति । अत्रगुप्तः मूलतः गङ्गायमुनयोः मध्ये स्थितस्य "अन्तर्वेदि"-नामकस्य क्षेत्रस्य निवासी आसीत् । परन्तु स्वज्ञानौत्कृष्टतायाः कारणने कन्नौजराजस्य राजसभायाम् आसीत् । ललितादित्यः आगतेभ्यः विद्वद्भ्यः कुबेरस्य अल्कानगरीवत् सुन्दर्यां श्रीनगर्यां शीतांशुमौलिमन्दिरस्य समीपे भव्यभवनस्य स्थापनाम् अकरोत् । तस्मिन् भवने आश्रमं स्थापयितुम् अत्रिगुप्ताय न्यवेदयच्च ।

यद्यपि लिलितादित्यः स्वयं भागवतः आसीत्, अर्थात् वैष्णवः आसीत्, तथापि तेन कन्नौजप्रदेशाद् शैवदर्शनाचार्यस्य याचना कृता इति विचित्रः संयोगः प्रतीयते । सः संयोगः एव अमुकदशकोत्तरं क्रान्तेः स्वरूपम् अधरत । श्रीनगरस्थे शीतांशुमौलिमन्दिरस्य समीपस्थे आश्रमे अत्रिगुप्तस्य, सङ्गमानन्दस्य च अनेके वंशजाः न केवलं शैवसिद्धान्तस्य अध्यन्ते रताः आसन्, अपि तु तेषु बहवः कला-व्याकरण-नाट्य-रसशास्त्र-सङ्गीतादिषु विषयेषु अपि लब्धकीर्तयः आसन् । अत्रिगुप्तसङ्गमानन्दयोः अनेके असाधारणाः शिष्याः, मर्मज्ञाः, विद्वासश्च अभूवन् । कालान्तरे सङ्गमानन्दस्य प्रपौत्रः सोमानन्दः, अत्रगुप्तस्य वंशे समुत्पन्नः अभिनवगुप्तश्च काश्मीरे शैवदर्शनस्य कृते नवीनं कीर्तिस्तम्भम् अस्थापयेताम् ।

'लोचनम्' टीका

धन्वन्यालोकग्रन्थस्य उपरि कृता अभिनवगुप्तस्य टीका 'लोचनम्' इति प्रसिद्धा । परन्तु विभन्नासु पाण्डुलिपिषु 'सहृदयालोकलोचनम्', 'काव्यालोकलोचनम्' इत्यपि प्राप्यते । परवर्तिनः ग्रन्थकाराः आचार्यस्य अभिनवगुप्तस्य स्मरणकाले 'लोचनकारः' इति सम्बोधयन्ति । ध्वन्यालोकग्रन्थे कृता 'लोचनम्' इत्याख्यायाः स्वटीकायाः नामसार्थक्यविषये अभिनवगुप्तः वदति यद्,

किं लोचनं विनाऽऽलोको भाति चन्द्रिकयोऽपि हि ।

तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यघात् ।।

ध्वन्यालोकग्रन्थस्योपरि लोचनटीकायाः प्राक् 'चन्द्रिका' इत्याख्या टीका अपि अस्ति । चन्द्रिकाकारः लोचनटीकायां बहुत्र सन्दर्भितः अभिनवगुप्तेन । उक्ते श्लोकेऽपि सन्दर्भः दरीदृश्यते । चन्द्रिकाकारः अभिनवगुप्तस्य कश्चन सम्बन्धी एव आसीत् इति आममन्ते विद्वासः । किञ्च अभिनवगुप्तः अनेकेषु स्थलेषु "इत्यलं पूर्ववंश्यैः सह विवादेन" इति चन्द्रिकाकारस्य आचोलनाम् अकरोत् ।

'व्यक्तिविवेकस्य' रचयिता महिमभट्टः 'चन्द्रिका'कारस्य व्याख्याम् अकरोत् । एवं चन्द्रिकाटीकायाः रचना ९००-९५० कैस्ताब्दे अभवद् इति अनुमीयन्ते ।

मृत्युः

अभिनगुप्तस्य जन्म उत मृत्योः विषये सन्दर्भानां न्यूनता अस्ति । किंवदन्त्यनुसारम् उत ग्रन्थान्तरोल्लेखेन एव तस्य मृत्योः विषये अनुमानं भवति । अभिनवगुप्तस्य मृत्योः विषये कथा प्रचलिता अस्ति यद्, अभिनवगुप्तः सशिष्यः भैरवस्तोत्रस्य पाठं कुर्वन् काञ्चन कन्दरां प्रविष्टः । यदा सः कन्दरां प्रविष्टः, तदा या तिथिः आसीत्, सा उपलभ्यते । 'वसु-रसपौषे कृष्णदशम्याम्' अर्थात् अष्टषष्टितमस्य संवत्सरस्य (विक्रमसंवत्सरः न अपि सप्तर्षिसंवत्सरः मन्यते), पौष-मासस्य, कृष्णपक्षस्य, दशमी तिथिः इति । एनां तिथिं क्रैस्ताब्दानुगुणं परिवर्तयामः चेत्, १०१६ वर्षः भवति । भैरवस्तोत्रस्य रचनायाः काले अभिनवगुप्तः गुहां प्रविष्टः ततः तस्य निर्वाणं मन्यते । अतः ई. १०१६ एव तस्य निर्वाणवर्षः मन्यते ।

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

  • Abhinabgupta by Dr. Kantichandra Panday, Publisher – Chauchambe Prakashn

Tags:

अभिनवगुप्तः जन्म, परिवारश्चअभिनवगुप्तः शिक्षणं, गुरुवश्चअभिनवगुप्तः गुरुपरम्पराअभिनवगुप्तः जीवनम्अभिनवगुप्तः शैवदर्शनपुनरोदयस्य लोककथाअभिनवगुप्तः शिवसूत्रस्य अवतरणम्अभिनवगुप्तः लिलितादित्यः, अत्रिगुप्तश्चअभिनवगुप्तः लोचनम् टीकाअभिनवगुप्तः मृत्युःअभिनवगुप्तः सम्बद्धाः लेखाःअभिनवगुप्तः बाह्यसम्पर्कतन्तुःअभिनवगुप्तः उद्धरणम्अभिनवगुप्तः अधिकवाचनायअभिनवगुप्तःअभिनवगुप्तः.wavआङ्ग्लभाषाकश्मीरीनाट्यशास्त्रबौद्धधर्मःभरतमुनिःसञ्चिका:अभिनवगुप्तः.wavहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

अलङ्काराः१०२७भगत सिंहशब्दःजीवशास्त्रम्भारतस्य इतिहासःमङ्गलःवि के गोकाकमङ्गलवासरःशृङ्गाररसःजनवरी २२०१५वलसाडमण्डलम्रूप्यकम्अक्षरं ब्रह्म परमं...फरवरी ३महाभारतम्अथ केन प्रयुक्तोऽयं...तपस्विभ्योऽधिको योगी...वेदाङ्गम्क्हनुमज्जयन्तीमहात्मा गान्धी११३७परावृत्लातिनीभाषाअण्टार्क्टिकाअन्ताराष्ट्रियः व्यापारःपर्यटनम्१५ मईव्यामिश्रेणेव वाक्येन...विष्णुःद्वितीयविश्वयुद्धम्प्लावनम्हिन्दीअश्वघोषःकवकम्१२ जुलाईरोनाल्द रेगनकर्तृकारकम्हस्तःअङ्गुलीकेन्याचार्वाकदर्शनम्उदयनाचार्यःकर्मण्येवाधिकारस्ते...मधु (आहारपदार्थः)विश्ववाराउपनिषद्धनम्लकाराःअप्रैल १७१ जुलाईप्रशान्तमनसं ह्येनं...इग्नेसी ल्युकसिविक्जअपादानकारकम्रामायणम्१६९२आश्रमव्यवस्थादेवगिरि शिखरम्शनिःपेलेभारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःजार्ज ३अद्वैतवेदान्तः१६३१ अक्तूबरझान्सीहनुमान्🡆 More