सुषमा स्वराज: भारतीयराजनेतारः

सुषमा स्वराज (१४ फेब्रवरी १९५२- ६ आगस्ट् २०१९) भारतीयराजनेतृषु अन्यतमा विद्यते । सा भारतीय विदेशमन्त्रिणी आसीत् । इदं पदम् अलङ्कृतवत्योः महिलयोः अन्यतरा विद्यते, अपरा इन्दिरा गान्धी )२२ आगस्ट् १९६७ तः १४ मार्च् १९६९) । सुषमा सप्तवारं संसत्सदस्यारूपेण चिता, त्रिवारं विधानसभासदस्यत्वेन चिता वर्तते । स्वीये २५ तमे वयसि सा हरियाणराज्यस्य मन्त्रिपदवीं समलङ्करोत् । सा देहल्याः मुख्यमन्त्रिरूपेण अपि उत्तरदायित्वं निरवहत् । २०१४ तमे वर्षे जाते लोकसभानिर्वाचने सा मध्यप्रदेशस्य विदिशाक्षेत्रात् जयं प्राप्नोत् । २०१४ तमस्य वर्षस्य मेमासस्य २६ तमे दिनाङ्के सा विदेशीयमन्त्री जाता । सद्योजाते १६ लोकसभानिर्वाचने सा ४००,००० मतैः जयं प्राप्नोत् ।

सुषमा स्वराज
MP
सुषमा स्वराज: बाल्यजीवनम्, राजनैतिकक्षेत्रे वृत्तिजीवनम्, वैशिष्ट्यानि
विदेशीयमन्त्री
Incumbent
Assumed office
26 May 2014
Prime Minister नरेन्द्र मोदी
Preceded by सल्मान् खुर्षिद्
In office
21 December 2009 – 26 May 2014
Preceded by लाल कृष्ण आडवाणी
Succeeded by TBD
देहल्याः मुख्यमन्त्री
In office
13 October 1998 – 3 December 1998
Governor विजय कपूर्
Preceded by साहिब् सिङ्ग् वर्मा
Succeeded by शीला दीक्षित
विदिशा लोकसभाक्षेत्रस्य
संसत्सदस्या
Incumbent
Assumed office
13 May 2009
Preceded by रामपाल सिङ्ग् (मध्यप्रदेशस्य राजनेता)
व्यैय्यक्तिकसूचना
Born (१९५२-२-२) १४ १९५२ (आयुः ७२)
नवदेहली, भारतम्
Political party भारतीयजनतापक्षः
Spouse(s) स्वराज कौशल
Alma mater सनातनधर्म विद्यालय, अम्बाल काण्ट्, हरियाण
पञ्जाबविश्वविद्यालयः, चण्डीगढ

बाल्यजीवनम्

सुषमा स्वराज हरियाणे अम्बालकाण्ट्प्रदेशे ब्राह्मणकुटुम्बे १९५२ तमस्य वर्षस्य फेब्रवरीमासस्य १४ दिनाङ्के जन्म प्राप्नोत् । तस्याः पिता राष्ट्रियस्वयंसेवकसङ्घस्य प्रमुखः कार्यकर्ता आसीत् । सा एस् डि महाविद्यालये (अम्बाल काण्ट्) अपठत् । संस्कृतभाषा राजनीतिश्च तस्याः पदवीवर्गस्य प्रमुखविषयाः आसन् । सा विधिशास्त्रं चण्डीगढस्थे पञ्जाबविश्वविद्यालये अपठत् । १९७३ तमात् वर्षात् भारतीयसर्वोच्चन्यायालये अधिवक्तृरूपेण कार्यम् आरब्धवती ।

राजनैतिकक्षेत्रे वृत्तिजीवनम्

सुषमा स्वराज १९७०दशके एव अखिलभारतीयविद्यार्थिपरिषदि स्वीयराजनैतिकवृत्तिजीवनम् आरब्धवती । सा जनतापक्षे आत्मानं संयोज्य देशस्य आपत्कालपरिस्थितिं विरुद्ध्य कृते आन्दोलने भागम् अवहत् । सा हरियाणविधानसभासदस्यरूपेण १९७७ तः १९८२ वर्षपर्यन्तं कार्यम् अकरोत् । तदा २५ वर्षदेशीया सा अम्बाला केण्ट्प्रदेशात् तदानीन्तनरक्षणामन्त्रिणं-चतुर्वारं हरियाणामुख्यमन्त्रिणं बन्सिलालं ६३% मतैः जितवती, पुनः १९८७ तः १९९० पर्यन्तम् । १९७७ तमस्य वर्षस्य जुलैमासे सा देवीलालस्य नेतृत्वे प्रचाल्यमाने जनतापक्षस्य सर्वकारे केन्द्रीयमन्त्रिरूपेण शपथम् अगृह्णात् । सा २७ तमे वयसि १९७९ तमे वर्षे हरियाणराज्यस्य जनतापक्षस्य राज्याध्यक्षपदं समलङ्करोत् । १९८७ तः १९९० पर्यन्तं सा हरियाणराज्यस्य शिक्षामन्त्रिरूपेण भारतीयजनतापक्ष-लोकदलयोः संयुक्तसर्वकारे कार्यं निरवहत् ।

राज्यसभासदस्यता

१९९० तमस्य वर्षस्य एप्रिल्मासे सा राज्यसभासदस्यत्वेन चिता जाता । १९९६ तमे वर्षे ११ लोकसभानिर्वाचने दक्षिणदेहलीक्षेत्रात् चिता जाता । तावत् पर्यन्तम् अपि सा राज्यसभासदस्यरूपेण एव कार्यं निर्वहन्ती आसीत् । अटलबिहारिवाजपेयीवर्यस्य १३ दिनात्मके सर्वकारे सा केन्द्रीयतथ्यसम्प्रासारणमन्त्रिरूपेण कार्यम् अकरोत् । तदवधौ एव सा लोकसभाचर्चागोष्ठीनां साक्षात् प्रसारणम् आरब्धवती ।

केन्द्रीयमन्त्री तथ्यप्रसारण-दूरसंवहनविभागः

सुषमा १९९८ तमे वर्षे १२ लोकसभानिर्वाचने दक्षैणदेहलीलोकसभाक्षेत्रतः पुनः द्वितीयवारं चिता जाता । पुनरागते वाजपेयिसर्वकारे सा तथ्यसम्प्रसारणमन्त्रित्वेन दूरसंवहनविभागमन्त्रित्वेन च शपथग्रहणम् अकरोत् । १९८८ तमस्य वर्षस्य मार्च्-मासस्य १९ दिनाङ्कतः अक्टोबर्-मासस्य १२ दिनाङ्कपर्यन्तम् इदं कार्यं निरवहत् । अस्मिन् अवसरे तया स्वीकृतः अत्यन्तं प्रमुखः निर्णयः आसीत् - चलनचित्रक्षेत्रम् उद्यमत्वेन परिगणितवती । अस्मात् चित्रोद्यमः वित्तकोशतः धनसाहाय्यं प्राप्तुं क्षमः जातः । ततः पूर्वं भूजगतः ऋणाधिक्येन एव धनसाहाय्यं प्राप्नोति स्म । अनेन एकेन निर्णयेन चित्रोद्यमः भूजगतः ग्रहणात् मुक्तः जातः । सा विश्वविद्यालयपक्षतः अन्यशैक्षिकसंस्थाभ्यः च सामाजिक-आकाशवाणीम् आरब्धवती ।

देहल्याः मुख्यमन्त्री

सा १९९८ तमस्य वर्षस्य अक्टोबर्मासे देहल्याः प्रथममहिलामुख्यमन्त्रिस्थानम् अलङ्कर्तुं केन्द्रमन्त्रिस्थानाय त्यागपत्रम् अयच्छत् । किन्तु मूल्यवृद्धिकारणादिभिः भारतीयजनतापक्षेण विधानसभानिर्वाचने पराजयः प्राप्तः इत्यतः सा त्यागपत्रं समर्प्य राष्ट्रियराजनीतिक्षेत्रं प्रत्यागता ।

सोनिया गान्धिविरुद्धं स्पर्धा

१९९९ तमे वर्षे काङ्ग्रेस्पक्षस्य अध्यक्षायाः सोनियागान्धिविरुद्धं स्पर्धितुं भारतीयजनतापक्षः एतां न्ययोजयत् । क्षेत्रम् आसीत् कर्णाटकस्य बेळ्ळारी यत्र भारतस्वातन्त्र्यकालतः अपि काङ्ग्रेस्पक्षेण एव जयः प्राप्तः आसीत् । तत्र तया कन्नडभाषया एव सार्वजनिकप्रचारभाषणानि कृतानि । तया कृतेन १२ दिनानां प्रचारकार्येण एव ३,५८,००० मतानि तया प्राप्तानि । किन्तु ७% मतैः सा निर्वाचने पराजिता ।

संसद्प्रति प्रत्यागमनम्

२००० तमे वर्षे सा उत्तरप्रदेशतः राज्यसभासदस्यतां प्राप्य संसद्प्रति प्रत्यागता । उत्तरप्रदेशात् उत्तरखण्डराज्यं नूतनतया रचितं यदा जातं तदा सा तत्र प्रेषिता । सा तथ्यसम्प्रसारणमन्त्रिरूपेण नियुक्ता जाता यस्मिन् पदे सा २००० तमवर्षस्य सेप्टेम्बर्मासतः २००३ तमवर्षस्य जनवरीमासपर्यन्तम् आसीत् ।

केन्द्रस्वास्थ्यमन्त्री

सा स्वास्थ्य-परिवारनिगममन्त्रित्वेन २००३ तमस्य वर्षस्य जनवरीमासतः २००४ तमस्य वर्षस्य मेमासपर्यन्तं दायित्वं निरूढवती । केन्द्रमन्त्रिरूपेण कार्यकरणावसरे तया भूपाल् (मध्यप्रदेशः), भुवनेश्वर् (ओडिशाराज्यम्), जोधपुरम् (राजस्थानम्), पाटना (बिहारराज्यम्), रायपुर (छत्तिस्गढ्), हृषीकेशः (उत्तराखण्ड) इत्येतेषु षट्सु स्थलेषु अखिलभारतीयवैद्यशिक्षणकेन्द्राणि (All India Institute of Medical Sciences) संस्थापितवती ।

प्रतिपक्षोपनायिका, राज्यसभा

२००६ तमे वर्षे एप्रिल्मासे सुषमा मध्यप्रदेशतः राज्यसभासदस्यत्वेन पुनः चिता जाता । २००९ तमस्य वर्षस्य एप्रिल्मासपर्यन्तं सा राज्यसभायाः भारतीयजनतापक्षस्य उपनायिकारूपेण कार्यम् अकरोत् ।

प्रतिपक्षनायिका, लोकसभा

२००९ तमे वर्षे जाते १५ लोकसभानिर्वाचने सा मध्यप्रदेशस्य विदिशालोकसभाक्षेत्रतः ४,००,००० अधिकमतैः जिता जाता । २००९ तमस्य वर्षस्य डिसेम्बर्मासे २१ तमे दिनाङ्के सा प्रतिपक्षनायिकारूपेण लाल कृष्ण आडवाणीवर्यस्य स्थाने नियुक्ता जाता । २०१४ तमस्य वर्षस्य मेमासे जाते निर्वाचने तस्याः पक्षेण महान् विजयः प्राप्तः । तावत्पर्यन्तमपि तया तस्मिन् पदे एव कार्यं निरूढम् ।

वैशिष्ट्यानि

१९७७ तमे वर्षे स्वीये २५ तमे वयसि कनिष्ठवयस्क-केन्द्रमन्त्रिरूपेण नियुक्ता जाता । १९७९ तमे वर्षे स्वीये २७ तमे वयसि सा हरियाणराज्यस्य जनतापक्षस्य अध्यक्षा जा । भारतीयराष्ट्रियपक्षस्य वक्तृरूपेण नियुक्ता प्रथममहिला सुषमा स्वराज । सा भारतीयजनतापक्षस्य अधोनिर्दिष्टेषु सर्वेषु अपि उत्तरदायित्वेषु प्रथममहिलारूपेण नियुक्ता - मुख्यमन्त्री, केन्द्रमन्त्री, कार्यदर्शी, वक्ता, प्रतिपक्षनायकः च । अतिविशिष्टसांसदिकप्रशस्तिं प्राप्तवती एषा आदिमा अद्वितीया च वर्तते । तया एकादशसु निर्वाचनेषु चतुर्भ्यः राज्येभ्यः स्पर्धितवती । सा गतेभ्यः त्रिंशद्भ्यः वर्षेभ्यः संसत्सदस्या वर्तते ।

वैयक्तिकजीवनम्

सुषमायाः पतिः स्वराज कौशल, भारतीयसर्वोच्चन्यायालयस्य अनुभवी अधिवक्ता वर्तते । अयं १९९० तः १९९३ वर्षपर्यन्तं मिझोरम्राज्यस्य राज्यपालत्वेन कार्यम् अकरोत् । अयं १९९८ तः २००४ वर्षपर्यन्तं संसत्सदस्यः आसीत् । तयोः पुत्री बान्सुरी आक्स्फर्ड्-विश्वविद्यालयात् पदवीधरा वर्तते । युनैटेड् किङ्ग्ड्म्देशस्थेन इन्नर् टेम्पल्-महाविद्यालयतः विधिशास्त्रे प्राप्तपदवीका इयम् अधिवक्त्री विद्यते ।

निरूढानि उत्तरदायित्वानि

  • १९७७-८२, १९८७-९०, हरियाणा विधानसभासदस्या
  • १९७७-७९ केन्द्रमन्त्री, श्रम-उद्योगमन्त्रालयः, हरियाणासर्वकारः
  • १९८७-९० केन्द्रमन्त्री, शिक्षणम्, आहारमन्त्रालयः, हरियाणासर्वकारः
  • १९९० तमवर्षस्य एप्रिल्मासे राज्यसभासदस्यत्वेन चिता (प्रथमः पर्यायः)
  • १९९६ सदस्या, ११ लोकसभा (द्वितीयः पर्यायः)
  • १६ मे - १ जून् १९९६ केन्द्रीयमन्त्री, तथ्यसम्प्रसारणमन्त्रालयः
  • १९९८ सदस्या, १२ लोकसभा (तृतीयः पर्यायः)
  • १९ मार्च् - १२ अक्टोबर् १९९८ केन्द्रीयमन्त्री, तथ्यसम्प्रसारणमन्त्रालयः
  • नवेम्बर् १९९८ - देहलीविधानसभाक्षेत्रात् चिता, त्यागपत्रं समर्प्य लोकसभास्थानं रक्षितवती ।
  • एप्रिल् २००० राज्यसभां प्रति चिता (चतुर्थः पर्यायः)
  • ३० सेप्टेम्बर् २००० - २९ जनवरी २००३ तथ्य-सम्प्रसारणमन्त्री
  • २९ जनवरी २००३ - २२ मे २००४ स्वास्थ्य-कुटुम्बनिगम-मन्त्री
  • एप्रिल् २००६ राज्यसभां प्रति पुनः चिता (पञ्चमः पर्यायः)
  • १६ मे २००९ १५ लोकसभां प्रति चिता (षष्ठः पर्यायः)
  • ३ जून् २००९ लोकसभायाः उपनायकत्वेन चिता
  • २१ डिसेम्बर् २००९ प्रतिपक्षनायिका जाता - लाल कृष्ण आडवाणिस्थाने
  • २६ मे २०१४ विदेशीयमन्त्री, भारतसर्वकारः

टिप्पणी

बाह्यसम्पर्कतन्तुः

Tags:

सुषमा स्वराज बाल्यजीवनम्सुषमा स्वराज राजनैतिकक्षेत्रे वृत्तिजीवनम्सुषमा स्वराज वैशिष्ट्यानिसुषमा स्वराज वैयक्तिकजीवनम्सुषमा स्वराज निरूढानि उत्तरदायित्वानिसुषमा स्वराज टिप्पणीसुषमा स्वराज बाह्यसम्पर्कतन्तुःसुषमा स्वराजइन्दिरा गान्धीदेहलीहरियाणाराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

स्वामी चिन्मयानन्दःएन्टिमोनीशब्दःभारतस्य अर्थव्यवस्थाठ्क्षेमेन्द्रःउदय कुमार धर्मलिङ्गम्७६९समासःशाकानिभारतस्य आधिकारिकभाषाःधर्मशास्त्रप्रविभागःसंस्कृतविकिपीडियासोलोमन-द्वीपराजाराज चोलस्वीडन७२३हेमा मालिनी१६०६हिन्दुधर्मःजवाहरलाल नेहरूश्रीनिवासरामानुजन्श्रीवपोर्ट२२ जुलाईआस्ट्रेलिया६३२स्वात्मारामःआरतीस्वामी विवेकानन्दःज्ञानेन तु तदज्ञानं...ग्रहणम्शिवःतैत्तिरीयोपनिषत्हठयोगः३६आयुर्वेदः१८५१राजेन्द्रकुमार पचौरिजनवरीस्वास्थ्यम्संस्कृतम्१८०४सर् जेम्स् सिम्सन्फोक्सोशास्त्रव्याकरणम्गोवान्२ मार्चमैथुनम्५६८ट्विटरगद्यकाव्यम्१२०१वा१८३२१६८६कर्म१८२४भूगोलम्अरिस्टाटल्यमुनानदीक्षमा रावविद्योत्तमास्टीफन् हाकिङ्ग्१७८१मोल्दोवाचन्द्रशेखर कम्बार१६३७१३९०गान्धरः (जनपदः)वैदिकसाहित्यम्चीनदेशःकन्दुकक्रीडाकारकम्🡆 More