मोरारी बापु

मोरारीबापू(गुजराती: મોરારી બાપૂ, आङ्ग्ल: morari bapu )रामायणस्य कथाकारः अस्ति । तेन ६०० अधिकाः रामायणस्य कथा कृताः । तस्य कथायां संम्पूर्णं मण्डपं भक्तैः परिपूर्णं भवति । सः एकैकस्यां कथायां नूतनानि उदाहरणानि दत्त्वा जनान् प्रभावयति ।

मोरारी बापु
मोरारी बापु
जन्म २५ सेप्टेम्बर् १९४६ Edit this on Wikidata (आयुः ७७)
महुवा Edit this on Wikidata
वृत्तिः अध्यापकः, Preacher edit this on wikidata

जन्म परिवारश्च

१८४६ तमस्य वर्षस्य सितम्बर-मासस्य २५ तमे दिनाङ्के भावनगर-मण्डलस्य तलगाजरडा इति नाम्ने लघुग्रामे तस्य जन्म अभवत् । तस्य पितुः नाम प्रभुदास हरियाणी मातुः नाम सविताबेन हरियाणी आसीत् । मोरारीबापू इत्यस्य द्वे भगिन्यौ, षड्-भ्रातरः च आसन् ।

बाल्यं, शिक्षणं च

पितामहः त्रिभुवनदासः मोरारी बापू इत्येतं प्रतिदिनं रामचरितमानसस्य पञ्च चोपाई पाठयति स्म तत्वार्थं, गूढार्थं च बोधयति स्म । ताः सः विद्यालयं प्रति गच्छन् कण्ठस्थं करोति स्म । सः तलगाजरडा-ग्रामात् महुवा-ग्रामं प्रति एकाकी एव गच्छति । ततः प्रत्यागमन काले मार्गे रामवाडी इति स्थलस्य समीपे एकस्य कुटिरस्य निर्माणं कृत्वा तत्र रामचन्द्रस्य भावचित्रं स्थापयित्वा रामकथां करोति स्म । तत्र केचन वृद्धाः अपि कथां श्रोतुम् आगच्छन्ति स्म ।

मोरारी बापू इत्यस्य प्रथमा कथा

१८६० तमे वर्षे तलगाजरडा-ग्रामस्य पुरातने मन्दिरे भगवतः श्रीरामस्य मन्दिरे मोरारी बापू इत्यस्य प्रथमा कथा आसीत् । यदा तेन ग्रामजनेभ्यः प्रथमवारं रामकथा श्राविता, तदा पितामहस्य अक्षिणी भावाश्रुपूर्णा अभवताम् । सः एकस्मै वृक्षाय जलं दत्त्वा वृक्षस्य सिञ्चनम् अकरोत् इति सन्तोषम् अन्वभवत् । साम्प्रतं स्वकथायां मोरारी बापू अपि अस्याः वार्तायाः उल्लेखं करोति ।

मोरारी बापू शिक्षकः

रामकथाकारस्य मोरारी बापू इत्यस्य उपरि परिवारस्य दायित्वम् आपतितम् अतः तेन अभ्यासः त्यक्तः । किन्तु परिवारस्य दायित्वं वोढुं अशक्नोत् तावदधीतवान् । सः एकस्यां शालायां शिक्षकः अभवत् । प्रशिक्षणं प्राप्तुं सः अहमदाबाद-नगरस्य शाहपुर इत्यत्र गतः । किन्तु कथारसवशात् सः शिक्षकस्य वृत्तिम् अत्यजत् । अन्ते रामस्य शरणं गतः । इत्थं भक्तेः प्रभावस्तु तेन पूर्वजैः प्राप्तः इति अनुमीयते ।

मोरारी बापू निम्बार्कवंशीयः

निम्बार्क परम्परायाः ध्यानस्वामी बापू इत्याख्यः मारारी बापू इत्यस्य प्रपितामहः अस्ति । सः सौराष्ट्रप्रान्तं विचरन् सेंजल-ग्रामम् आगतः । कालान्तरे सः तत्रैव समाधिस्थः अभवत् । तस्य एकः शिष्यः जीवनदास महेता इति आसीत् । सः ब्राह्मणः आसीत्त, तथापि तेन ध्यानस्वामितः दीक्षा गृहीता । किन्तु एकदा 'त्वं संसारी भव' इति गुरुः आदिशत् । सः जीवनदास महेता इति नाम्नः परिवर्तनं कृत्वा हरिव्यासी अभवत् । तस्य परंपरायाम् एव मारारी बापू इत्यस्य जन्म अभवत् । सः हरिव्यासी अपि सेंजल-ग्रामे समाधिस्थः अभवत् ।

मोरारी बापू इत्यस्य वैशिष्ट्यम्

मोरारी बापू इत्यनेन अग्निं, तेजः च विहाय भूमौ, जले, आकाशे च कथाः कृताः । सः स्वस्य कथासु शैलीनाम् अपि परिवर्तनं विदधाति । सः धीरं, गम्भीरम् उपदेशं च विहाय शेर-शायरी इत्यादिभिः मनोरञ्जनयुतां कथाम् कृत्वा रामस्य प्रति यूनः जनान् आकृषति । सः कथायाः माध्यमेन युवानः जागरूकाः स्युः इति इच्छति । तदर्थं सः शिबिराण्यपि आयोजयति ।

मोरारी बापू इत्यस्य सारल्यम्

एकदा मोरारी बापू भावनगरे कथायाम् अहं चौरः अस्मि अहं रामजी मन्दिरात् हनुमतः मूर्तिं चोरितवान् । मया धूम्रशलाकायाः पानम् अपि कृतम् । अहम् एकदा वैयक्तिक-संस्थायाः वित्तस्य गणनायां ४ रुप्यकाणां अधिकता आसीत् तत् कः पश्यति इति विचार्य स्वीकृतवान् । कतिचित् दिनान्ते १२ रुप्यकाणां न्यूनता जाता तत् स्वस्य कोशात् पूरित्वा ईश्वरः पश्यति इति अन्वभवत् । एतद् सर्वम् उक्त्वा यदा बापू अरोदीत्, तदा अयं वास्तविकां कथां विदधाति इति जनैः ज्ञातम् ।

सन्दर्भः

Tags:

मोरारी बापु जन्म परिवारश्चमोरारी बापु बाल्यं, शिक्षणं चमोरारी बापु मोरारी बापू इत्यस्य प्रथमा कथामोरारी बापु मोरारी बापू शिक्षकःमोरारी बापु मोरारी बापू निम्बार्कवंशीयःमोरारी बापु मोरारी बापू इत्यस्य वैशिष्ट्यम्मोरारी बापु मोरारी बापू इत्यस्य सारल्यम्मोरारी बापु सन्दर्भःमोरारी बापु

🔥 Trending searches on Wiki संस्कृतम्:

पद्मपुराणम्दावणगेरेमण्डलम्भारतीयदर्शनशास्त्रम्संयुक्तराज्यानिफ्रान्सदेशःमुख्यपृष्ठम्चम्पारणसत्याग्रहःमालतीमाधवम्ब्वि के गोकाकमई ५२३२अमरावती (आन्ध्रप्रदेशः)मई ३०मोहम्मद रफी६५४शाङ्ख्यायनब्राह्मणम्बादरायणःस्वामी विवेकानन्दःनवम्बर २९सामाजिकमाध्यमानिनीतिशतकम्कुतस्त्वा कश्मलमिदं...सूरा अल-नासचार्वाकदर्शनम्समाधिःवितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः (योगसूत्रम्)महिमभट्टेन ध्वनिलक्षणे उद्भाविताः दश दोषाः।विषमवालीबाल्-क्रीडाअप्रैल १४जातकमालाअश्विनीवसिष्ठःब्राह्मणःन प्रहृष्येत्प्रियं प्राप्य...शतपथब्राह्मणम्जलम्पतञ्जलिस्य योगकर्मनियमाःवेष्ट्-इण्डीस्च्यवनःरामायणम्फिरोझाबाद्रामःदत्तात्रेय रामचन्द्र बेन्द्रेज्योतिराव गोविन्दराव फुले२९ अप्रैलसिग्मंड फ्रायडकणादःअन्नाद्भवन्ति भूतानि...ट्विटर११८०भाष्यम्ज्योतिषशास्त्रस्य इतिहासः२०१०अद्वैतवेदान्तःपी टी उषाप्राणायामः१९०५उपमालङ्कारःसांख्ययोगःवेदान्तःकुचःमहाभारतम्अमरसिंहःईथ्योपियाअष्टाध्यायीजीवविकासवादःदिसम्बर ५आम्रवृक्षःविश्वकोशः🡆 More