बडवानीमण्डलम्

बडवानीमण्डलम् ( ( शृणु) /ˈbədəvɑːniːməndələm/) (हिन्दी: बड़वानी जिला, आङ्ग्ल: Barwani district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बडवानी इति नगरम् ।

बडवानीमण्डलम्

Barwani District
बडवानी जिला
मध्यप्रदेश राज्यस्य मानचित्रे बडवानीमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे बडवानीमण्डलम्
देशः बडवानीमण्डलम् India
राज्यम् मध्यप्रदेशः
उपमण्डलानि बडवानी, ठीकरी, अञ्जड, पाटी, राजपुर, पांसेमल, निवाली, सेन्धवा, वारला
विस्तारः ५,४२७ च. कि. मी.
जनसङ्ख्या (२०११) १३,८५,८८१
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ४९.०८%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४७.५%
Website http://barwani.nic.in/

भौगोलिकम्

बडवानीमण्डलस्य विस्तारः ५,४२७ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे खरगौनमण्डलं, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे धारमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति । अस्य मण्डलस्य उत्तरभागे विन्ध्याचलपर्वतशृङ्खला तथा दक्षिणभागे सतपुडापर्वतशृङ्खला स्तः ।

जनसङ्ख्या

२०११ जनगणनानुगुणं बडवानीमण्डलस्य जनसङ्ख्या १३,८५,८८१ अस्ति । अत्र ६,९९,३४० पुरुषाः, ६,८६,५४१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ४९.०८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- बडवानी, ठीकरी, अञ्जड, पाटी, राजपुर, पांसेमल, निवाली, सेन्धवा, वारला ।

वीक्षणीयस्थलानि

बावनगजा (चुलगिरि)

बावनगजा इति इदं स्थलं जैनानां तीर्थस्थलम् अस्ति । इदं स्थलं बडवानी-नगरात् ६ कि. मी. दूरे अस्ति । तत्र उपशैले १५ शताब्द्याः ११ मन्दिराणि सन्ति । तत्र भगवतः आदिनाथस्य बृहत्तमा प्रतिमा अस्ति । ग्वालबेडा, तीरगोला, नर्मदा पुल इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://barwani.nic.in/
http://www.census2011.co.in/census/district/308-barwani.html
http://www.mapsofindia.com/maps/madhyapradesh/tehsil/barwani.html

Tags:

बडवानीमण्डलम् भौगोलिकम्बडवानीमण्डलम् जनसङ्ख्याबडवानीमण्डलम् उपमण्डलानिबडवानीमण्डलम् वीक्षणीयस्थलानिबडवानीमण्डलम् बाह्यसम्पर्कतन्तुःबडवानीमण्डलम्आङ्ग्लभाषाबडवानीबडवानीमण्डलम्udit.oggभारतम्मध्यप्रदेशराज्यम्सञ्चिका:बडवानीमण्डलम्udit.oggहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

अन्त्येष्टिसंस्कारःकुष्ठरोगःकलियुगम्उपसर्गाःधूमलःदशरूपकम्आयुर्वेदःपरिशिष्टम्कर्पूरमञ्जरीअष्टाध्यायीमुख्यपृष्ठम्अयः८९४मुखपृष्ठंस्वप्नवासवदत्तम्काजल् अगरवाल्भासःसन्तमेरीद्वीपस्य स्तम्भरचनाःमोहम्मद रफीकवकम्प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)कशेरुकाःवेल्लूरुमण्डलम्सायणःसमन्वितसार्वत्रिकसमयःकस्तूरिमृगः२२ मार्चगयानातरुःस्टीव जाब्सपाकिस्थानम्यास्कःयवाग्रजःकालिदासस्य उपमाप्रसक्तिःआन्ध्रप्रदेशराज्यम्शिक्षाछान्दोग्योपनिषत्भारतीयप्रशासनिकसेवा (I.A.S)बाणभट्टःताजिकिस्थानम्संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्भर्तृहरिःरासायनिक संयोगःवासांसि जीर्णानि यथा विहाय...काव्यप्रकाशःब्रह्मदेशःभारतीयजनतापक्षःहिन्द-यूरोपीयभाषाःमाण्डव्यःआख्यानसाहित्यम्अलङ्कारग्रन्थाःबोलिवियागाण्डीवं स्रंसते हस्तात्...२०१२चम्पादेशःसंयुक्तराज्यानिरसःकिरातार्जुनीयम्एस् एम् कृष्णास्पेन्१८३कुमारसम्भवम्बिलियर्ड्स्-क्रीडास्प्रिंग्फील्ड्रघुवर दासउदित नारायणद्वन्द्वसमासःओन्कोलोजीवैश्यःमाल्टावेदान्तःअभिनेता🡆 More