पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना

पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना (Hindi: बेटी बचाओ, बेटी पढ़ाओ, Save girl child, educate girl child) भारतसर्वकारेण भारतीयबालाभ्यः उद्घोषिता । २२ जनवरी २०१५ दिनाङ्के एतस्याः योजनायाः उद्घाटनं स्वयं प्रधानमन्त्री नरेन्द्रमोदी अकरोत् । योजनायै शतकोटिरूप्याकाणां (₹१०० कोटिः (US$१४.८६ मिलियन्)) प्रारम्भिकं व्ययवृत्तं निर्धारितम् ।

पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना
बेटी बचाओ, बेटी पढ़ाओ
पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना
पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना
देशः भारतम्
प्रधानमन्त्री नरेन्द्र मोदी
मन्त्रालयः महिलाबालविकासमन्त्रालयः, स्वास्थ्यपरिवारकल्याणमन्त्रालयः, मानवसंसाधनविकासमन्त्रालयः इत्येतेषां मन्त्रालयानां संयुक्ताभियानम्
उद्घोषणा  22, 2015; 9 years ago (2015-01-22)
जालस्थानम् betibachaobetipadhao
सक्रियताज्ञानम्: सक्रियम्

समस्या

१९६१ तमाद् वर्षात् ०-६ वर्षीयेषु बालकेषु प्रति १००० बालकानाम् अनुपाते बालिकानां सङ्ख्यायाः रूपेण परिभाषिते बाललिङ्गानुपाते (सीएसआर) सातत्येन पतनं दरीदृश्यते । १९९१ तमे वर्षे बालिकानां सङ्ख्या ९४५ आसीत्, परन्तु २००१ तमे वर्षे न्यूनीभूय ९२७ अभवत् । ततः २०११ तमे वर्षे सा सङ्ख्या ९१८ अभवत् । एषः कश्चन महाचिन्तायाः विषयः । अनुपाते न्यूनतायां महिलानां प्रति भेदभावस्य सङ्केतः स्पष्टो वर्तते । बाललिङ्गानुपातेन सुस्पष्टम् अस्ति यद्, जन्मनः पूर्वं पक्षपाति लिङ्गचयनं, जन्मोत्तरं च बालिकाभिः सह भेदभावः भारते वर्तते इति । एकत्र समाजद्वारा बालिकाभिस्सह भेदभावपूर्णः व्यवहारः अस्ति, तस्योपरि नैदानिकोपकरणानां सहजोपलब्धतायाः कारणेन, तेषां दुरुपयोगत्वाच्च कन्याभ्रूणहत्याः जायमानाः सन्ति । एवं बाललिङ्गानुपाते तीव्रपतनं भवद् अस्ति ।

क्रियान्वयः

बालिकानाम् अस्तित्वसंरक्षणाय, सशक्तिकरणस्य सुनिश्चयार्थं च समन्विताः, सम्मिलिताः च प्रयासाः अपेक्ष्यन्ते । अत एव सर्वकारः "पुत्री रक्ष्यतां, पुत्री पाठ्यताम्" (“बेटी बचाओ बेटी पढ़ाओ”) इत्येतां योजानाम् अघोषयत् । राष्ट्रियाभियानत्वेन एतस्याः योजनायाः कार्यान्वयं स्यादिति सर्वकारस्य परियोजना अस्ति । अतः सर्वेषु राज्येषु, केन्द्रशासितप्रदेशेषु च तेषां शतस्य मण्डलानां चयनं भविष्यति, येषु कन्यालिङ्गानुपातः अतीव न्यूनः अस्ति । तेषां शतस्य मण्डलानाम् उपरि ध्यानं केन्द्रितं कृत्वा विभिन्नानां जागरूकताभियानानां माध्यमेन परिस्थितिपरिवर्तनाय प्रयासाः भविष्यन्ति । एतस्मिन् अभियाने केन्द्रसर्वकारस्य त्रयः मन्त्रालयाः मिलित्वा कार्यं करिष्यन्ति । ते मन्त्रालयाः के ? इति चेत्, महिलाबालविकासमन्त्रालयः, स्वास्थ्यपरिवारकल्याणमन्त्रालयः, मानवसंसाधनविकासमन्त्रालयः च ।

एतेषां मन्त्रालयानां प्रारम्भिकस्तरे कार्ययोजना एवम् त्रयाणाम् उद्दशानां पूर्त्यै अस्ति । ते उद्देशाः एवं सन्ति ।

१) कन्याभ्रूणहत्यायाः स्थगनम्

२) बालिकानाम् अस्तित्वरक्षणं कृत्वा तासां सुरक्षायाः सुनिश्चयः

३) बालिकाभ्यः शिक्षायाः, सामाजिकयोगदानस्य च कृते प्रोत्साहनं करणीयम् ।

एतस्याः योजनायाः शीघ्रातिशीघ्रं कार्यान्वयं सर्वकारस्य लक्ष्यम् अस्ति । कारणं सर्वकारः भारते कन्यानां साक्षरतायाः माध्यमेन, तासां सामाजिक्याः, आर्थिक्याः आत्मनिर्भरतायाः विषये चिन्तयन्नस्ति । महिलानां कल्याणसेवां प्रति जागरूकतां जनयितुं, निष्पादनक्षमतायां च वृद्धिं कर्तुं प्रयासः एषः । एतस्याः (बी3पी) योजनायाः कृते सर्वेभ्यः काचित् 'यूट्यूब'शृङ्खला अपि उपलब्धा वर्तते । एतस्य प्रयासस्य प्रचारार्थम् एतस्मिन् मञ्चे अनेकानि चलच्चित्राणि प्रकाशितानि । ततोधिकं नागरकैः सह मिलित्वा एतस्मिन् विषये चर्चाविमर्शार्थं ‘मेरी सरकार’[नष्टसम्पर्कः] इत्यस्मिन् जालस्थाने “बेटी बचाओ बेटी पढ़ाओ” इत्याख्यस्य दलस्यापि निर्माणं कृतम् अस्ति । एवं नागरकाणां सक्रिययोगदानेन, सहभागितया च सर्वकारस्य आयोजनमेतत् सफलताङ्गच्छेदिति कामना सर्वकारस्य । अनेन समूहेन सह सक्रियतया परामर्शानाम् आदानप्रदानं कृत्वा सर्वकारस्य साहाय्यं करोतु इति सर्वकारः बहुधा नागरकान् निवेदयति । सन्देशमाध्यमेनापि सर्वकारः एतस्य अभियानस्य प्रचारप्रसारं कुर्वन् अस्ति ।

हरियाणाराज्ये विशेषकार्यम्

प्रधानमन्त्री नरेन्द्रमोदी एतस्याः "पुत्री रक्ष्यतां, पुत्री पाठ्यतां"-योजनायाः उद्घाटनं हरियाणा-राज्यस्य पानीपत-नगरे अकरोत् । एतस्य पृष्ठे किञ्चन विशेषं कारणम् अपि आसीत् । आभारतं हरियाणा-राज्ये एव कन्यालिङ्गानुपातः सर्वाधिकः न्यूनः अस्ति । तत्र १००० बालकेषु बालिकानां सङ्ख्या ८७४ एव अस्ति । अतः सम्पूर्णस्य भारतस्य येषां शतस्य मण्डलानां चयनम् अभवत्, तेषु द्वादशानि मण्डलानि तु हरियाणा-राज्यस्य एव सन्ति । तेषां नामानि – रेवाडीमण्डलम्, महेन्द्रगढमण्डलम्, भिवानीमण्डलम्, झज्जरमण्डलम्, अम्बालामण्डलम्, कुरुक्षेत्रमण्डलम्, सोनीपतमण्डलम्, रोहतकमण्डलम्, करनालमण्डलम्, कैथलमण्डलम्, पानीपतमण्डलम्, यमुनानगरमण्डलम् । हरियाणाराज्यसर्वकारः एतस्याः योजनायाः सफलतायै वैय्यक्तिकसंस्थानाम् अपि साहाय्यं स्व्यकरोत् । हरियाणाराज्यसर्वकारः भारतीयोद्योगपरिसङ्घ (सीआईआई) (Confederation of Indian Industries - CII), वाणिज्य एवं उद्योग ऑफ इंडियन चैम्बर्स ऑफ महासंघ (Federation of Indian Chambers of Commerce and Industries - FICCI) इत्येताभ्यां संस्थाभ्यां सह सहमतिज्ञापनम् (Memorandum of Understanding - MOU) अपि कृतवान् ।

विज्ञापनानि

जून २०१५ मध्ये #SelfieWithDaughter इत्येतत् प्रचलनं सामाजिकमाध्यमेषु अतीव प्रसिद्धम् अभवत् । एतस्य प्रचलनस्य आरम्भः तदा अभवत्, यदा १९ जून २०१५ दिनाङ्के हरियाणाराज्यस्य बिबिपुरग्रामस्य ग्रामणीः स्वपुत्र्या सह स्वोद्धृतं (selfie) स्वीकृत्य फेसबुक्-मध्ये अस्थापयत् । तस्य हेझ-टेग्-प्रचलनस्य सम्पूर्णे विश्वे प्रसिद्धिः अभवत् । मनोवार्तायाम् अपि नरेन्द्रमोदी "पुत्री रक्ष्यतां, पुत्री पाठ्याताम्" अभियानस्य प्रचारम् अकरोत् ।

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

http://www.betibachaobetipadhao.co.in/khap-leaders-join-bbbb/ Archived २०१६-०८-१९ at the Wayback Machine

Tags:

पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना समस्यापुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना क्रियान्वयःपुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना हरियाणाराज्ये विशेषकार्यम् [१०]पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना विज्ञापनानिपुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना सम्बद्धाः लेखाःपुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना बाह्यसम्पर्कतन्तुःपुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना उद्धरणम्पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना अधिकवाचनायपुत्री रक्ष्यतां, पुत्री पाठ्यतां योजनाकोटिःनरेन्द्र मोदीभारतसर्वकारःहिन्दीभाषा

🔥 Trending searches on Wiki संस्कृतम्:

अलङ्कारग्रन्थाःजिबूटीक्रिकेट्क्रीडानियमाःसऊदी अरबकर्णवेधसंस्कारःछान्दोग्योपनिषत्गौःव्याकरणशास्त्रस्य इतिहासःईजिप्तदेशःदशरथःभूटानसंस्काराःक्रीडासंस्कृतवर्णमाला१७ नवम्बरकालिफोर्नियातेलङ्गाणाराज्यम्रामःब्ताम्रम्२८ जनवरीदशरूपकम् (ग्रन्थः)संस्कृतसाहित्यशास्त्रम्वायुःकालमेघःकोट ऐवरी (ऐवरी कोस्ट)मुख्यपृष्ठम्कर्कटीहैयान् चक्रवातःकुमारदासःसंस्कृतवाङ्मयम्रवीन्द्रनाथ ठाकुरकर्तृकारकम्आफ्रिकाखण्डःब्रह्मक्रिकेट्-क्रीडावाग्भटःतेलुगुभाषासाहित्यकारःसंयुक्तराज्यानिजार्ज बैरनपाणिनीया शिक्षामहाभाष्यम्काव्यम्त्वमेव माता च पिता त्वमेव इति१९७१८ अगस्तजर्मनभाषाकर्णाटकगौतमबुद्धःअण्डमाननिकोबारद्वीपसमूहःबुद्धचरितम्१६७२अश्वघोषःगद्यकाव्यम्प्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)शूद्रःपोर्ट ब्लेयरलखनौकोलोराडो स्प्रिंग्स्शीतकम्नोकियाजनवरी २२उत्तमः पुरुषस्त्वन्यः...उपपदचतुर्थीजलयास्कःरूसीभाषाआगस्टस कैसररूपकसाहित्यम्जापानी भाषाचार्ल्सटन्🡆 More