सूसन्-हेवर्ड् अभिनेत्री आसीत्।
सूसन् हेवर्ड् | |
---|---|
1940 दशके सूसन् हेवर्ड् चित्रम् | |
जन्म | Edythe Marrener ३०, १९१७ Brooklyn नगरे, New York राज्ये, अमेरिकादेशे |
मृत्युः | १४, १९७५ हालिवुड्नगरे, California राज्ये, अमेरिकादेशे | (आयुः ५७)
मृत्योः कारणम् | मस्तिष्कार्बुदरोगद्वारा |
शान्तिस्थानम् | Our Lady of Perpetual Help Cemetery (Carrollton नगरे, Georgia राज्ये) |
देशीयता | अमेरिकानागरिका |
शिक्षणम् | Public School 181 |
शिक्षणस्य स्थितिः | Prospect Heights High School, Erasmus Hall High School |
वृत्तिः | अभिनेत्री गायिका च |
सक्रियतायाः वर्षाणि | 1937–1972 |
धर्मः | कथोलिक् धर्मः |
भार्या(ः) | Jess barker( विवाहितः 1944-1954 काले ) Floyd Eaton Chalkley (विवाहितः 1957-1966 काले) |
अपत्यानि | टिमथिः ग्रेगरिः च |
जालस्थानम् | http://www.susanhayward.com |
सा न्युयोर्क्नगरे विज्ञापनेषु रूपदर्शिनी भूत्वा, हालिवुड्नगरं प्रति १९३७ वर्षे अभिनेत्री भवितुम् अगच्छत्। तत् पश्चात् विविधेषु चित्रेषु लघुपात्राणि निरवहत्।
१९४० दशकान्ते स्वीय-चित्रेषु महत्वपूर्णानि पात्राणि सा अवहत्। स्मॅश-अप, द स्टोरी ऑफ अ वूमन (१९४७), मय फूलिष् हार्ट् (१९४९), विथ् अ सॉन्ग् इन् मय हार्ट्(१९५२), ऐल्ल् क्रय् टोमॉरव् (१९५५) च इत्येतेषु चलचित्रेषु स्वीय-अभिनयानां कृते आस्कर्-प्रशस्तेः कृते तस्य नामाङ्कनं जातम् एवं च आई वॉन्ट् टु लिव्! (१९५८) इत्यस्मिन् चलचित्रे बार्बरा-ग्राहम्-नाम्ना मरणदण्डितयाः पात्रनिर्वहनेन आस्कर् पुरस्कारम् सूसन् हेवर्ड् संपादितवति।
सूसन्हेवर्डा द्वितीयविवाहम् कृत्वा अमेरिकादेशस्य जार्जिया-राज्ये वसितुम् अगच्छत्। तदनन्तरम् अल्पे-सङ्ख्याकेषु चलचित्रेषु अभिनयम् १९७२ वर्षपर्यन्तं कृतवति। १९७५ वर्षे मस्तिष्कार्बुदरोगकारणात् दिवङ्गताभवत्।
सूसन्हेवर्डाख्यायाः जन्मनाम ईडिथ्-म्यरिनर् आसीत्, ब्रूक्लिन्-नगरे जाता, यलन्-वाल्टर् पितरयोः तृतीयम् अपत्यम्। केट्-हरिगन्-नाम्ना पितामही अयर्लेण्ड्देशे कौर्कनगरवासीनी। मातुः पितरः स्वीडन्देशवासिनः। अग्रजस्वसा फ़्लोरन्स् एवं च वाल्टर् अग्रजभ्राता।
सूसन्हेवर्डाख्यायाः शिक्षा पब्लिक्-स्कूल्-181 इत्यत्र तथा च प्रॉस्पेक्ट्-हैट्स्-है-स्कूल्-विद्यालये जुन्-1935-दिनाङ्के उत्तीर्णा। “एरास्मस्-हाल्-है-स्कूल्” अपि पाठशालयाः १९३०दशकस्य पूर्वविद्यार्थीज्ञापके सूसन्हेवर्डायाः नाम आसीत्। द-गर्ल्स्-कमर्शल्-है-स्कूल्-विद्यालये विविधानि नाटकानि कृतवति, स्वकक्षस्य उत्तमनटी इति उपाधिना पुरस्कारिता।
This section needs additional citations for verification.(April 2014) |
हेवर्डाख्यायाः प्रथमा वृत्तिः भावचित्रेषु रूपदर्शिनी अस्ति, तदनन्तरम् “गॉन-वित्-द-विन्ड्” इत्यस्मिन् चलचित्रे स्कार्लटोहाराख्यायाः पात्रम् संपादयितुम् १९३७ वर्षे हालिवुड्नगरम् गतवती।
परन्तु हेवर्ड् स्कार्लटोहाराख्यायाः पात्रम् प्राप्तुम् अशक्ता, एवमपि हेवर्ड् लघुपात्राणि अप्राप्नोत्। “बो-जेस्ट् (१९३९ film)” इति चलचित्रे तस्याः प्रथमा महत्वपूर्णा भूमिका आसीत्। द्वितीयविश्वयुद्धकाले जॉन्-वेन्-अभिनेत्रा सह “रिप्-द-वैल्ड्-विन्ड्” “द-फ़ैटीङ्ग्-सीबीस्” चलनचित्रयोः नटितवती। “द-हेरि-एप्”' नाटकस्य चलचित्रस्वरूपे अपि नटितवती। युद्धानन्तरम् वाल्टर्-वाग्नर् नाम्ना निर्मात्रा सह प्रसंवेदने हस्ताक्षरम् अकरोत् येन हेवर्ड् प्रतिसंवत्सरे $१००,००० राशिम् सम्पादयति स्म। प्रसंवेदनानुसारे “कान्योन्-पसेज् (१९४६)” प्रथमचित्रम् अभवत्। १९४७ तमे संवत्सरे स्मॅष्-अप् द-स्टोरी-ऑफ़्-अ-वुमन् इति प्रसंवेदनानुसारे द्वितीयचलचित्रे मद्यासक्तायाः गायिकयाः पात्रस्य अभिनयेन सा प्रथमावसरे आस्कर्-प्रशस्त्यै नामाङ्कनं जातम्।
“टॅप्-रूट्स् (१९४८)”, “मै-फ़ूलिष्-हार्ट् (१९४९)”, “डेविड्-ऍण्ड्-बेत्षीबा (१९५१)”, “वित्-अ-सॉन्ग्-इन्-मै-हार्ट् (१९५२)” इत्यादिषु चलनचित्रेषु मुख्यपात्रेषु नटितवती।
१९५०दशके हेवर्ड् “द-प्रेसिडेण्ट्स्-लेडी (१९५३)” अमेरिका-देशस्य पूर्वराष्ट्रपतेः आन्द्रुजैक्सनस्य विषादमानसायाः पत्न्याः पात्रे नटितवती, “ऐल्ल् क्रय् टोमॉररव् (१९५५)” इति चित्रे लिलियन्-रोत्-नाम्ना मद्यासक्तायाः गायिकायाः पात्रे नटितवती येन सा कान्-प्रशस्तिं लब्धवती, “आई वॉन्ट् टु लिव्!!' (१९५८)” चित्रे बार्बरा-ग्रहम्-नाम्ना हन्तकायाः पात्रे नटितवती येन आस्कर्प्रशस्तिम् लब्धवती।
१९५९ वर्षे “वुमन्-अब्सेस्ड्” चित्रे, १९५६ वर्षे जॉन्-वेन्-नटेन सह “द-कोन्करर्” चित्रे मुख्यपात्रे नटितवती।
हेवर्डाख्यायाः गीतस्वरः असमीचीनः आसीत्, एवमपि अनेकेषु चित्रेषु गायिकाभूमिकाः निरूढवती। ऐल्ल् क्रय् टोमॉरव्, चित्रे गूढगायिका उपस्थिता तथापि हेवर्ड् स्वयं गीतवती। “वित्-अ-सॉन्ग्-इन्-मै-हार्ट्”' चित्रे भूमिकाद्वारा हेवर्ड् गोल्डन्ग्लोब् प्रशस्तिं लब्धवती, परन्तु सर्वाः गीताः जेन्-फ़ोर्मन् गीतवती।
१९६१ तमे वर्षे डीन्-मार्टिन्-नाम्ना नटेन सह “एडा” इति चित्रे साधारणमहिला राज्यपालं परिणीय स्वयं राज्यपालिका भवति इति पात्रे हेवर्ड् नटितवती। तत्संवत्सरे एव रॉस्-हन्टर-नाम्ना दर्शकस्य “बॅक्-स्ट्रीट् (१९६१)” इति चित्रे जॉन्-गेविन् वेरा-मैल्स् च इति नट्यौ सह रे-स्मित् इत्यस्याः पात्रे नटितवती। १९६७ संवत्सरे “वॅली-ऑफ़्-द-डॉल्स्” चलचित्रे हेलेन्-लाव्सन् इत्यस्याः पात्रे नटितवती।
“लास्-वेगास्-स्ट्रिप्” नाम्ना मञ्चे “मेम्” नाम्ना संगीतनाटके तस्याः स्वकीयेन प्रशंसाम् लब्धवती।
१९७० दशके अपि चलचित्राणि कुर्वन्ती आसीत् यदा तस्याः मस्तिष्के अर्बुदरोगलक्षणं परिज्ञाताः। अन्तिमे चलचित्रे 'से गुड्बाय् मॅगी-कोल्’ दूरदर्शने विमोचिते चलचित्रे मॅगी-कोल्-नाम्ना चिकित्सिकायाः पात्रे नटितवती। तत् चित्रम् धारावाहिकस्य मूलप्रसङ्गः भवितुं शक्नोति स्म, किन्तु तस्याः रोगस्य कारणात् तावदेव समाप्तम्। तस्याः अन्तिमा सार्वजनिक्याः उपस्थितिः १९७४ संवत्सरे आस्कर्पुरस्कारसमारोहे प्रशस्ति-विजेत्र्याः घोषयितुम् आसीत्। चार्ल्टन्-ह्यस्टन् नटस्य सहाय्येन स्थातुम् अशक्नोत्।
हेवर्ड् जेस्-बार्कर् नटेन दशवर्षपर्यन्तम् विवाहिता, तयोः द्वौ यम्यौ पुत्रौ १९४५ तमे फिब्रवरी-मासे १९ दिनाङ्के जातौ। विवाहः दुःखमयः आसीत् तदर्थं विच्छिन्नो जातः। तदनन्तरम् हेवर्ड् आत्महत्याप्रयत्नम् अकरोत्। विवाहविच्छेदकार्यवहनकारणात् हेवर्ड् "सोल्जर्-ऑफ़्-फॉर्चुन्" चित्रस्य निर्माणाय सा हाङ्ग्कान्गनगरम् प्रयाणम् न कृत्वा अमेरिकादेशे हि अतिष्ठत्। क्लार्क्-गेबल् सहनटेन पात्रे अभिनयम् हालिवुड्नगरे चित्रकर्मगृहे कृतवती किन्तु अन्येषु दृश्येषु अभिनयम् तद्रूपा अभिनेत्री कृतवति।
१९५७ तमे वर्षे फ्लॉयड्-इटोन्-चॉक्ली-नाम्ना पशुपालकं व्यापारिणं च परिणीतवती। यः अभिनेता नासीत् तेन सह विवाहस् तु असामान्यः किन्तु सुखमयः आसीत्। कॅरल्टन्-नगरे तस्य कृषीभूम्याम् वसति स्म। तौ अन्य स्थलान् अपि क्रीतवन्तौ। तत्र तु न्यूनाः अभिनेतारः गच्छन्तः, तस्मात् सा तत्र प्रसिद्धाभवत्। १९६४ तमे वर्षे दिसंबर् मासे सा कथोलिक्-मते परिवर्तिता। धर्मपरिवर्तनकार्यम् पिट्स्बर्ग्नगरे एस्-एस्-पीटर्-अण्ड-पालस्-रोमन्-कथौलिक्-चर्च् इत्यत्र मक्ग्वायर्-पादरी-नाम्ना क्रैस्तव-अर्चकेन सम्पन्नम् । सूसन् हेवर्ड् मक्ग्वायर्-पादरिणम् चीनदेशे मिलित्वा "यदि मतपरिवर्तनम् करिष्यामि, भवता हि मतपरिवर्तनकार्यम् कारयिष्यामि" इति वचनम् अददात्। पतिः जनवरी ९, १९६६ दिनाङ्के दिवङ्गतः। तदनन्तरम् हेवर्ड् शोकम् अनुभूत्वा, केवलम् स्वल्प-सङ्ख्याकेषु चलचित्रेषु नटितवती। सा शोककारणात् अपि गृहम् त्यक्त्वा, फ़्लोरिडा राज्यम् अगच्छत्।
मतान्तरपूर्वम् सा ज्योतिषशास्त्रम् अमन्यत। कॅरल्-रायटर्-नाम्ना ज्योतिषिकस्य सूचनाः श्रुतवती। सः ज्योतिषिकः प्रसंवेदनपत्रे " सम्यक् १४४७ वादनसमये हस्ताक्षरम् कुरु" इति आज्ञापितवान्। सा सम्यक् तत्समये एव हस्ताक्षरम् कर्तुम् सम्यक् १४४५ वादनसमये क्वणितघटीद्वारा निद्रातः उत्तिष्ठन्ती आसीत्।
१९७३ तमे वर्षे तस्याः मस्तिष्के अर्बुदरोगलक्ष्णम् दृश्यते स्म। मार्च् १४ १९७५ दिनाङ्के सा पञ्चत्वं गता। तस्याः अन्तिमसंस्कारः मार्च् १६ १९७५ दिनाङ्के पत्युः श्मशाने अभवत्।
तस्याः मस्तिष्कार्बुदरोगकारणम् परमाणुशस्त्रपरीक्षाद्वारा जातम् इति सन्देहम्। जॉन्-वेन्-सह इयम् अभिनेत्री "द-कॉन्करर्" चलचित्रम् परमाणुशस्त्रपरीक्षास्थलसमीपे कृतवती। चलचित्रस्य अनेकाः नटाः अपि अर्बुदरोगद्वारा दिवङ्गताः। "हॉलिवूड्-विख्याति-मार्गे" तस्याः नक्षत्रचिह्नम् स्मारकरूपेण भवति।
वर्षम् | चित्रम् | भूमिका | टिपण्णी |
---|---|---|---|
१९३७ | Hollywood Hotel | Starlet at table | अनभिनन्दिता |
१९३८ | The Amazing Dr. Clitterhouse | Patient | दृश्यानि निष्कासितानि |
The Sisters’' | Telephone operator | अनभिनन्दिता | |
Girls on Probation | Gloria Adams | ||
Comet Over Broadway | Amateur Actress | अनभिनन्दिता | |
Campus Cinderella | Co-Ed | लघु-विषयकः | |
१९३९ | Beau Geste | Isobel Rivers | |
Our Leading Citizen | Judith Schofield | ||
$१,००० a Touchdown | Betty McGlen | ||
१९४१ | Adam Had Four Sons | Hester Stoddard | |
Sis Hopkins | Carol Hopkins | ||
Among the Living | Millie Pickens | ||
१९४२ | Reap the Wild Wind | Cousin Drusilla Alston | |
The Forest Rangers | Tana 'Butch' Mason | ||
I Married a Witch | Estelle Masterson | ||
Star Spangled Rhythm | Herself - Genevieve in Priorities Skit | ||
A Letter from Bataan | Mrs. Mary Lewis | ||
१९४३ | Young and Willing | Kate Benson | |
Hit Parade of १९४३ | Jill Wright | ||
Jack London | Charmian Kittredge | ||
१९४४ | The Fighting Seabees | Constance Chesley | |
The Hairy Ape | Mildred Douglas | ||
And Now Tomorrow | Janice Blair | ||
Skirmish on the Home Front | Molly Miller | लघु-विषयकः | |
१९४६ | Deadline at Dawn | June Goth | |
Canyon Passage | Lucy Overmire | ||
१९४७ | Smash-Up, the Story of a Woman | Angelica 'Angie'/'Angel' Evans Conway | उत्तम-अभिनेत्र्यै आस्कर्-प्रशस्तर्थं नामाङ्कनम् जातम् |
They Won't Believe Me | Verna Carlson | ||
The Lost Moment | Tina Bordereau | ||
१९४८ | Tap Roots | Morna Dabney | |
The Saxon Charm | Janet Busch | ||
१९४९ | Tulsa | Cherokee Lansing | |
House of Strangers | Irene Bennett | ||
My Foolish Heart | Eloise Winters | उत्तम-अभिनेत्र्यै आस्कर्-प्रशस्तर्थं नामाङ्कनम् जातम् | |
१९५१ | Screen Snapshots: Hopalong in Hoppy Land | Herself | लघु-विषयकः |
I'd Climb the Highest Mountain | Mary Elizabeth Eden Thompson | ||
Rawhide | Vinnie Holt | ||
I Can Get It for You Wholesale | Harriet Boyd | ||
David and Bathsheba | Bathsheba | ||
१९५२ | वित्-अ-सॉन्ग्-इन्-मै-हार्ट् | Jane Froman |
|
The Snows of Kilimanjaro | Helen | ||
The Lusty Men | Louise Merritt | ||
१९५३ | The President's Lady | Rachel Donelson | |
White Witch Doctor | Ellen Burton | ||
१९५४ | Demetrius and the Gladiators | Messalina | |
Garden of Evil | Leah Fuller | ||
१९५५ | Untamed | Katie O'Neill (Kildare) (Van Riebeck) | |
“Soldier of Fortune” | Mrs. Jane Hoyt | ||
ऐल्ल् क्रय् टोमॉरव् | Lillian Roth |
| |
१९५६ | 'The Conqueror | Bortai | |
१९५७ | Top Secret Affair | Dorothy 'Dottie' Peale | |
१९५८ | I Want to Live! | Barbara Graham |
|
१९५९ | Thunder in the Sun | Gabrielle Dauphin | |
Woman Obsessed | Mary Sharron | ||
१९६१ | The Marriage-Go-Round | Content Delville | |
Ada | Ada Gillis | ||
बॅक्-स्ट्रीट् | Rae Smith | ||
१९६२ | I Thank a Fool | Christine Allison | |
१९६३ | Stolen Hours | Laura Pember | |
१९६४ | Where Love Has Gone | Valerie Hayden Miller | |
१९६७ | The Honey Pot | Mrs. Lone Star Crockett Sheridan | |
वॅली-ऑफ़्-द-डॉल्स् | Helen Lawson | ||
Think Twentieth | Herself | ||
१९७२ | The Revengers | Elizabeth Reilly | |
Heat of Anger | Jessie Fitzgerald | दूरदर्शने विमोचितम् | |
से गुड्बाय् मॅगी-कोल् | डॉ. मॅगी-कोल् | दूरदर्शने विमोचितम् |
वर्षम् | कार्यक्रमः | प्रसङ्गः |
---|---|---|
१९५२ | लॅक्स्-रेडियो-थियटर् | ऐ कॅन् गेट् इट् फ़र् यू होल् सेल् |
१९५२ | कावल्केड्-ऑफ़्-अमेरिका | ब्रेक्फ़स्ट्-अट्-नान्सीस् |
विकिमीडिया कॉमन्स् मध्ये सूसन् हेवर्ड् सम्बन्धिताः सञ्चिकाः सन्ति। |
This article uses material from the Wikipedia संस्कृतम् article सूसन् हेवर्ड्, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). भिन्नोल्लेखः यावत् न भवेत्, तावत् CC BY-SA 4.0 इत्यत्र उल्लेखो भवति । Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki संस्कृतम् (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.