दुष्यन्तः

सः पौरवकुलस्य राजा आसीत्। पुरुवंशस्य राजा दुष्यन्तः

प्राचीनकाले अस्माकं देशे दुष्यन्तः नामकः एकः प्रतापी राजा आसीत् । तस्य सुतः भरतः चक्रवर्ती सम्राट् आसीत् । इदं कथ्यते यत् तस्य नाम्ना एव अस्य देशस्य नाम भारतम् इति प्रसिद्धम् अभवत् । भारतस्य उत्तरस्यां दिशि हिमालयो नाम नगाधिराजः वर्तते । सः हिममण्डितैः दुर्गमैश्च निजशिखरैः प्रहरीव भारतस्य रक्षां करोति । दक्षिण दिशायां च हिन्दमाहासागर: भारतमातुः चरणप्रक्षालनं करोति

अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्ध नाटकम् अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति । दुष्यन्तः शकुन्तलया सह गान्धर्व विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्गुलीयकं दत्तवान् । तत् अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।

दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरतनामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान् । तत्र भरतेन सह शकुन्तला मिलितवती । नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते । साहित्यसमीक्षकाः कथयन्ति यत् -- काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला। तत्रापि चतुर्थोकः तत्र श्लोकचतुष्टयम् ।। कालिदासस्य तुलनां जनाः शेक्सपियर् नाटककारेण सह कुर्वन्ति ।

पुरुवंशस्य राजा दुष्यन्तः कदाचित् मृगयां कुर्वन् अटव्यां हरिणं अनुधावन् मालिनीतीरे विद्यमानस्य कण्वस्य आश्रमं प्रविशति । कण्वः फलपुष्पाणि आनेतुं गत इत्यतः काचित् सुन्दरी तापसकन्या तस्मै स्वागतं करोति । अर्घ्यपाद्यादिभिः सत्करोति सा । तस्याः रूपेण मोहितः दुष्यन्तः स्वपरिचयं तस्यै कुर्वन् तां प्रति त्वं क्षत्रियोऽसि ? त्वां प्रति मम मनः आकर्षति । अहं त्वां कामये इत्यवदत् शकुन्तला तु- अहं मेनकाविश्वामित्रयोः पुत्री इति, ताभ्यां यदा परित्यक्ताहं शकुन्तपक्षिभिः रक्षिता इति ततः कण्वमहर्षिः वने मां दृष्ट्वा आश्रमं प्रति आनीय पोषितवान् इति । शकुन्तपक्षिभिः रक्षिता अहं शकुन्तला इति नामधेयं प्राप्नवम्। यदि मां वोढुं वाञ्छसि तर्हि कण्वमहर्षेः अनुमतिः अपेक्षिता इत्यादिकं सर्वं वृत्तान्तम् अकथयत् ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१७६०अरबीभाषाच मू कृष्ण शास्त्रीवसिष्ठस्मृतिःमास्कोनगरम्ऐर्लेण्ड् गणराज्यम्पर्थजलियावाला बागभट्ट मथुरानाथशास्त्रीरवीन्द्रनाथ ठाकुरऋषिःदश अवताराःमहापद्मनन्दःनिवेशः२५ मार्चकेदारनाथःनाटकचक्रम्अक्षय कुमाररामनवमीआन्ध्रप्रदेशराज्यम्११२०नक्षत्रम्जून २आडाचौ (तालः)कण्णगीआयुर्वेदःगौतमःक्रैस्ताःप्राचीनज्योतिषम्तेलुगुयवनदेशःचन्द्रशेखर कम्बारतत्त्वज्ञानम्ख्देवनागरीभरतः (नाट्यशास्त्रप्रणेता)कालिफोर्नियाअन्तवत्तु फलं तेषां...६५५रामानुजाचार्यः८३८श्येनःरीतिसम्प्रदायःवराहमिहिरःपक्षधरमिश्रःपीटर महान (रूस)मेघदूतम्मोहनदास करमचन्द गान्धीचित्रकलाअफ़्रीकाअलङ्कारग्रन्थाःजी२०कर्ट गोडेलउपरूपकाणिसामवेदःसम् (उपसर्गः)लेखायूनानीभाषामराठीभाषासाहित्यकारःसहाराअन्तर्जालम्१४७७दर्शनानिसहसा विदधीत न क्रियाम्आङ्ग्लभाषागौतमबुद्धःपर्याभाषागुजरातविद्यापीठम्🡆 More