लक्ष्मणः

लक्ष्मणः अयोध्याचक्रवर्तिनः दशरथस्य पुत्रः । लक्ष्मणः श्रीरामचन्द्रस्य अनुजः । अस्य पत्नी उर्मिला । सुमित्रायाः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम । लक्ष्मणः आदिशेषांशसम्भूतः ।

लक्ष्मणः
लक्ष्मणः
रामसीतयोः पृष्ठे धनुर्धारी लक्ष्मणः
व्यक्तिगतविवरणम्
सहचारी उर्मिला
अपत्यानि अङ्गदः
चन्द्रकेतुः
पितरौ
सहोदराः रामः, शत्रुघ्नः, भरतः,
शान्ता
लक्ष्मणः
लक्ष्मणः

मखसंरक्षणम्

विश्वामित्रः यदा दशरथस्य सकाशे पुत्रयोः साहाय्यम् अयाचत तदा लक्ष्मणः अपि श्रीरामेण सह मखसंरक्षणार्थं वनं गतवान् । असुरशक्तीनां नाशनञ्च कृतवान् ।

नासाच्छेदः

यदा श्रीरामादयः वनवासे पञ्चवट्यामासन् तदा रावणस्यानुजा शूर्पणखा प्रच्छन्नवेषेण युवतीवेषं धृत्वा श्रीरामस्य सकाशमागतवती । रामस्तु तस्याः मायावेषं ज्ञात्वा ताम् अनुजस्य लक्ष्मणस्य समीपं प्रेषितवान् । लक्ष्मणः शूर्पणखायाः नासाच्छेदं कृतवान् ।

मेघनादस्य वधः

रामरावणसैन्ययोर्मध्ये जाते युद्धे रावणपुत्रं मेघनादं लक्ष्मणः मारितवान् । मेघनादः मारणाध्वरदीक्षित आसीत् । येन चतुर्दशवर्षाणि यावत् ब्रह्मचर्यं परिपालितं तेनैव मेघनादस्य वधः कर्तुं शक्य आसीत् । तदा लक्ष्मण एव मेघनादं मारितवान् ।

सीतामातरि लक्ष्मणस्य भक्तिः

लक्ष्मणः सर्वदा सीतारामयोः मातरं पितरञ्च पश्यति स्म । यदा रामः सुवर्णमृगमनुसरन् गतः तदा 'हा सीते ! हा लक्ष्मण !' इति आक्रन्दनं श्रुतम् । तस्मिन्नवसरे तच्च आक्रन्दनं रामस्येति मत्वा सीता स्वभर्तुः रामस्य रक्षणार्थं गन्तुं लक्ष्मणं प्रेरितवती । तदा च लक्ष्मणः 'नैषः रामस्य ध्वनिः अपि तु आसुरीशक्तेः प्रभाव' इति कथितवान् । तदा लक्ष्मणः सीतायामन्यमनस्कः सन् इत्थं ब्रवीतीति सीतामाता लक्ष्मणं भर्त्सितवती । तदा च लक्ष्मणः बहु खेदमनुभूतवान् । सीतापहरणानन्तरं वानरसैन्येन सीतान्वेषणमारब्धम् । तदा वस्त्रेण बद्ध्वा क्षिप्तानि कतिचन आभरणानि प्राप्तानि | लक्ष्मणस्य सीतायां महती भक्तिरासीदिति हेतोः रामः तेषामाभरणानाम् अभिज्ञानं प्राप्तुं लक्ष्मणाय दर्शयति | लक्ष्मणः प्रतिदिनं भक्त्या सीतां प्रणमति स्म इति कारणेन केवलं पादाङ्गुलीयकस्य अभिज्ञानं प्राप्नोति | एतच्च लक्ष्मणस्य आदर्शव्यक्तित्वविषयकं हृदयङ्गमं चित्रणं रामायणे समुपलभ्यते |


Tags:

लक्ष्मणः मखसंरक्षणम्लक्ष्मणः नासाच्छेदःलक्ष्मणः मेघनादस्य वधःलक्ष्मणः सीतामातरि लक्ष्मणस्य भक्तिःलक्ष्मणःअयोध्याउर्मिला माण्डवी श्रुतकीर्तिः चदशरथःरामःसुमित्रा

🔥 Trending searches on Wiki संस्कृतम्:

द्रौपदी मुर्मूविष्णु प्रभाकर१० अप्रैलरेडियोअनर्घराघवम्भारतस्य राष्ट्रध्वजःव्याकरणशास्त्रस्य इतिहासःनोकियाकाफीपेयम्आस्ट्रियाब्उल्लेखालङ्कारःगद्यकाव्यम्वटवृक्षःद्वाविमौ पुरुषौ लोके...बभ्रुःस्पेन्अक्सिजनईजिप्तदेशःवासांसि जीर्णानि यथा विहाय...८८७देशभक्तिःब्राह्मीलिपिःलायबीरियाअल्बेनियाभीष्मपर्वपञ्चाङ्गम्कैवल्यपादःसन्धिप्रकरणम्उत्तर कोरियाकशेरुकाःकेन्द्रीयविद्यालयसङ्घटनम् (KVS)टेनिस्-क्रीडा२६ मईकोरियालिभाषावायुःद्वापरयुगम्भोजपुरीभाषास्त्रीपर्वरसःपुरुषसूक्तम्G20आर्मीनियासेंट किट्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याकुवैतप्राचीनवास्तुविद्यादक्षिण-आफ्रिकाधान्यम्शिवः२७ मार्चइराक्मय्यावेश्य मनो ये मां...१८ अगस्तमसूरिकालाट्वियामेघदूतम्अनुबन्धचतुष्टयम्जमैकाचक्रम् (योगशास्त्रम्)बेलीजसंस्कृतसाहित्यशास्त्रम्ध्यानाभाव-अतिसक्रियता-विकारःफारसीभाषानालन्दाविश्वविद्यालयःमोलिब्डेनमयूनानीभाषाशर्मण्यदेशःब्रह्मवैवर्तपुराणम्ईरानविविधसंस्थानां ध्येयवाक्यानि🡆 More