राबर्ट् हुक्

(कालः – १८.

०७. १६३५ तः ०३. ०३. १७०३)

राबर्ट् हूक्
राबर्ट् हुक्
An artist's impression of Robert Hooke. No authenticated contemporary likenesses of Hooke survive.
जननम् फलकम्:OldStyleDate
ऐल् आफ् वैट्, इङ्लण्ड्
मरणम् ३ मार्च् १७०३ (६७ आयुः)
लण्डन्, इङ्लण्ड्
कार्यक्षेत्राणि भौतिकशास्त्रं एवं रसायनशास्त्रम्
संस्थाः आक्स्फोर्ड् विश्वविध्यालयः
मातृसंस्थाः क्रैस्ट् चुर्च्, आक्स्फोर्ड्
Academic advisors राबर्ट् बायिल्
विषयेषु प्रसिद्धः हूक्-नियमः
Microscopy
applied the word 'cell'
प्रभावः रिचार्ड् बस्बि


राबर्ट् हुक्
हुकेन संशोधिताः त्वचः जीवकोशाः
राबर्ट् हुक्
राबर्ट् हुकस्य अपरं सूक्ष्मदर्शकयन्त्रम्
राबर्ट् हुक्
राबर्ट् हुकस्य सूक्ष्मदर्शकयन्त्रम्

अयं राबर्ट् हुक् (Robert Hooke) विज्ञानलोके एव अत्यन्तं प्रतिभावान् विज्ञानी । सः खगोलविज्ञानी, संशोधकः, सङ्गीतज्ञः, उपकरणानां निर्माता, ज्यामितिविषयस्य प्राध्यापकः, भवनस्य विन्यासकारः, तत्त्वज्ञानी, भाषातज्ञः, भूमापकः चापि । सः राबर्ट् हुक् विभिन्नेषु क्षेत्रेषु पाण्डित्यं सम्पादितवान् आसीत् । बहुमुखप्रतिभावान् अयं राबर्ट् हुक् १६३५ तमे वर्षे जुलैमासस्य १८ दिनाङ्के इङ्ग्लेण्ड् देशस्य ऐल् आफ् वैट् प्रदेशस्थे फ्रेश् वाटर् इति प्रदेशे जन्म प्राप्नोत् । सः बाल्ये बहुविधैः रोगैः पीडितः अभवत् । तथापि श्रमेण अधीत्य आक्स्फर्ड्-विश्वविद्यालयं प्राविशत् । तत्र प्रख्यातस्य भौतविज्ञानिनः राबर्ट् बायिलस्य सख्यं प्राप्तम् । तदनन्तरम् अयं राबर्ट् हुक् विज्ञानस्य विभिन्नेषु विभागेषु प्रतिभां प्रादर्शयत् । अयं राबर्ट् हुक् यद्यपि अत्यन्तं प्रतिभावान् तथापि तावानेव कलहशीलः कृपणः च आसीत् । तस्मात् एव कारणात् सः जनानां प्रीतिसम्पादने असमर्थः अभवत् । तस्मिन् काले प्रख्यातानां विज्ञानिनाम् ऐसाक् न्यूटन्, क्रिस्टोफर् रेन्, राबर्ट् बायिल्, हुजेस् इत्यादीनाम् अनुयायिनः अस्य राबर्ट् हुकस्य अपमानं तिरस्कारं च अकुर्वन् । अनेन राबर्ट् हुकेन निर्मितानाम् उपकरणानां यथा मूल्यम् एव न स्यात् तथा अपि अकुर्वन् । तेन एव कारणेन अयं राबर्ट् हुक् वृद्धाप्ये महता अनारोग्येण, मानिसिकक्लेशेन च पीडितः अभवत् । एषः राबर्ट् हुक् विज्ञानस्य सर्वासु अपि शाखासु आवश्यकानाम् उपकरणानां निर्माणम् उपयोगं च जानाति स्म । तद्विषये ऐसाक् न्यूटन् अपि एनं राबर्ट् हुकं पराजेतुं न शक्नोति स्म । तादृशः आसीत् अयं राबर्ट् हुक् ।


एषः राबर्ट् हुक् अत्यन्तं तीक्ष्णमतिः, एकपाठी च आसीत् । सः नूतनानि उपकरणानि यथा बहुशीघ्रं निर्माति स्म तथैव तावदेव शीघ्रं पुरातनानि उपकरणानि समीकरोति स्म अपि । भौतविज्ञाने जीवविज्ञाने च अनेन राबर्ट् हुकेन कृतानि संशोधनानि विज्ञानस्य इतिहासे एव शाश्वतरूपेण स्थितानि सन्ति । तस्मिन् काले एव प्रकाशस्य तरङ्गविषये, गुरुत्वाकर्षणबलस्य विषये, बाष्पयन्त्रविषये च चिन्तयित्वा सिद्धान्तं निरूपितवान् आसीत् अयं राबर्ट् हुक् । १६७८ तमे वर्षे अयं राबर्ट् हुक् “हुकस्य नियमान्” (Hooke’s Law) निरूपितवान् । अग्रे तेषां नियमानाम् अनुसारम् एव घट्याः उपकरणं, नौकायाः "क्रोनोमीटर्” नामकम् उपकरणं च निर्मितम् । जीवविज्ञानस्य क्षेत्रे अयं राबर्ट् हुक् अत्यन्तं बुद्धिमान् सूक्ष्मदर्शकयन्त्रस्य तन्त्रज्ञः आसीत् । १६६५ तमे वर्षे तेन लिखिते "मैक्रोग्राफिया” नामके पुस्तके स्पष्टानि, सुन्दराणि, वैज्ञानिकानि च चित्राणि सन्ति । सूक्ष्मदर्शकद्वारा जीवकोशाणां संशोधनं कृत्वा तेषां जीवकोशाणां "सेल्” इति नामकरणम् अपि अयम् एव राबर्ट् हुक् अकरोत् । १५० वर्षाणाम् अनन्तरं तद्विषये संशोधनं कृतवन्तौ ष्लेडेन् तथा स्छ्वान् इति विज्ञानिनौ अपि तदेव नाम रक्षितवन्तौ । इदानीम् अपि तस्य राबर्ट् हुकस्य स्मरणार्थं तस्य जन्मस्थाने कश्चन वस्तुसङ्ग्रहालयः अस्ति । एषः राबर्ट् हुक् १७०३ वर्षे मार्च्-मासस्य ३ दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यानुबन्धः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

आर्गनपियर सिमों लाप्लासआर्यभटः२७३शरीरं च रक्तवाः स्रोतमृत्तैलोत्तनचुल्लिः१ फरवरीमहाकाव्यम्व्लादिमीर पुतिनवासांसि जीर्णानि यथा विहाय...4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःकावेरीनदी१२७४लेखातन्वीअर्जुनविषादयोगः२४ सितम्बरसर्पगन्धःक्षीरपथ-आकाशगङ्गाx9hqn११५०एक्वाडोरसत्त्वात्सञ्जायते ज्ञानं...यदा यदा हि धर्मस्य...ओट्टो वॉन बिस्मार्कधान्यानि१९ जूनस्वामी विवेकानन्दःलेसोथोट्प्रकरणम् (दशरूपकम्)भारतेश्वरः पृथ्वीराजःद्विचक्रिका२१ जनवरीनासतो विद्यते भावो...१८९५विपाशायवद्वीपअलङ्कारशास्त्रम्आङ्ग्लविकिपीडियामैथुनम्नलः२८ अप्रैलजावाअष्टाध्यायीउपमालङ्कारःहरीतकीपक्षिणःनरेन्द्र सिंह नेगीतेनालीमहापरीक्षा१६१५दक्षिणकोरियायवःचिलिविकिपीडियाराजशेखरःरूपकालङ्कारःअन्तरतारकीयमाध्यमम्मोक्षःद हिन्दूशब्दःनेताजी सुभाषचन्द्र बोसपुराणम्पञ्चमहायज्ञाः४४४इतालवीभाषायो यो यां यां तनुं भक्तः...मार्जालःकर्मणैव हि संसिद्धिम्...🡆 More