परशुरामः

परशुरामः विष्णोऽवतारोऽस्ति। भृगुवंशस्य जमदग्निमहर्षिः एतस्य पिता। राजाप्रसेनजितस्य पुत्री रेणुका एतस्य माता। महाविष्णोः दशसु अवतारेषु परशुरामस्य षष्ठोऽवतारः। महापराक्रमशालियोद्धाऽस्ति। उन्मत्तानां क्षत्रियाणां नाशनार्थं विष्णुः इदानीन्तनस्य वैवस्वतमन्वन्तरस्य नवदशे त्रेतायुगे परशुरामस्य रूपेण अवतारं कृतवान्। रुमण्वन्तः, सुषेणः, वसुः, विश्वावसुः च अस्य चत्वारः सहोदराः।

परशुरामः
परशुधारि परशुरामः
परशुधारि परशुरामः
कनडालिपिः ಪರಶುರಾಮ
सम्बन्धः वैष्णवः
शस्त्रम् परशुः (paraśu)
व्यक्तिगतविवरणम्
पितरौ

पराक्रमः

पितुः जमदग्नेः आज्ञानुसारं मातुः रेणुकायाः कण्ठमेव कर्तयित्वा पुनः पितुः वरदानेन ताम् उज्जीवितवान्। कार्तवीर्यार्जुनस्य सहस्रबाहून् कर्तितवान्। एकविंशतिवारं क्षत्रियान् मारयित्वा तेषां रक्तेन पितृभ्यः तर्पणं दत्तवान्। श्रीरामेण पराजयं प्राप्तवतः तस्य वैष्णवतेजः नष्टमभवत्। परशुरामः पाण्डवैः सह सन्धिं कर्तुं दुर्योधनं हितवचनम् उक्तवान्। भीष्माचार्येण सह युद्धं कृतवान्।

बोधनम्

कर्णः ब्राह्मणवेषेण गत्वा परशुरामे अस्त्रविद्याभ्यासं कृतवान्। किन्तु यदा परशुरामेण कर्णः अब्राह्मणः इति ज्ञातं तदा 'भवता अधीता विद्या युद्धावसरे विस्मृता भवतु' इति कर्णं शप्तवान्। एषः सुवर्णमाहात्म्यस्य विषये वसिष्ठेन सह संवादं कृतवान्। वसिष्ठस्य पूर्वजानां वृत्तान्तं श्रृत्वा ज्ञातवान्। परशुरामः द्रोणाय अस्त्रविद्याभ्यासं कारितवान्। अश्वमेधयागं कृत्वा पूर्णभूमण्डलं कश्यपाय दानं कृतवान्। परशुरामः विद्यमानस्य सप्तमस्य वैवस्वतमन्वन्तरस्य अनन्तरस्य अष्टमसावर्णिमन्वन्तरे सप्तर्षिषु अन्यतमः भवति।

शिवभक्तिः

पितुः मरणानन्तरं दुःखितः एषः शिवं शरणं गतवान्। सन्तुष्टः शिवः परशुम् अनुगृहीतवान्। देवी दिव्यास्त्राणि दत्तवती। शिवेण एषः पापरहितः, अजेयः, जरामरणरहितः च अभवत्। शिवस्य अनुग्रहेण एतेन सर्वं प्राप्तम्। भृगुवंशोद्भवः, जमदग्नेः पुत्रः परशुरामः लोकहितार्थं पुनःपुनः तीव्रनिष्ठया तपः कुर्वन् महेन्द्रपर्वते इदानीमपि अस्ति इति विश्वस्यते।

रघुवंशे वर्णनम्

महाकविः कालिदासः रघुवंशस्य एकादशे सर्गे शिवधनोः भङ्गोत्तरस्य अवसरे परशुरामस्य वर्णनं करोति। भास्करः यस्यां दिशि उषितः तां दिशं श्रिताः शृगालाः क्षत्ररुधिरपितृतर्पणोचितं परशुरामं आवह्यति तद्वत् रोदनम् अकुर्वन्। ततः सेनायाः अग्रे सपदि उत्थितः तेजसो राशिः प्रादुरभवत्। ततः सर्वेषां सम्मुखे काचित् पुरुषाकृतिः समुत्पन्ना। यज्ञोपवितलक्षणं पित्र्यमंशं धनुषोर्जितं मातृकमंशं धारकः भार्गवश्चन्द्रयुक्तो सूर्य इव सभुजगश्चन्दनद्रुम इव स्थितः। क्रोधात् पुरुषबुद्धेः तस्य मर्यादालङ्घिनः अपि पितुः शासने स्थितेन कम्पमानजननीशिरश्छिदा प्राक् करुणाजीयत तदनन्तरं महीम् अजीवयत। यः दक्षिणकर्णे धृतया अक्षमालया क्षत्रियवधानाम् एकविंशतिसङ्ख्यया व्याजपूर्वगणनान्दधदिव निर्बभाव। पितुः जमदग्नेः वधभवेन कोपेन नृपवंशनाशार्थं प्रवृत्तं तं भार्गवं स्वां दशां चावलोक्य बालपुत्रः पार्थिवः (दशरथः) दुःखितः अभवत्।

बाह्यसम्पर्कातन्तुः

Tags:

परशुरामः पराक्रमःपरशुरामः बोधनम्परशुरामः शिवभक्तिःपरशुरामः रघुवंशे वर्णनम्परशुरामः बाह्यसम्पर्कातन्तुःपरशुरामः

🔥 Trending searches on Wiki संस्कृतम्:

२८ अगस्तशब्दःवासांसि जीर्णानि यथा विहाय...बुल्गारियाश्वेतःयजुर्वेदःक्षेमेन्द्रःदेवनागरीअन्तरतारकीयमाध्यमम्एम् जि रामचन्द्रन्१५१४सूरा अल-अस्रनार्थ डेकोटापर्यावरणशिक्षा२५ सितम्बर३०८विश्वकोशःभारतीयप्रौद्यौगिकसंस्थानम्सचिन तेण्डुलकरजार्जिया (देशः)इन्द्रःभारतम्सलमान खानकाव्यम्सेनयोरुभयोर्मध्ये रथं...यदा यदा हि धर्मस्य...नलःपाषाणयुगम्२९ अप्रैलDevanagariअलङ्कारशास्त्रस्य सम्प्रदायाःमहिमभट्टःसंस्कृतविकिपीडियासागरः१६७७पक्षिणः०४. ज्ञानकर्मसंन्यासयोगः१४ओट्टो वॉन बिस्मार्क२०१०प्वाद्ययन्त्राणिसोडियमअजर्बैजानसूरा अल-नास९१२अरावलीवात्स्यायनःखण्डशर्करा१२७४काशिकाअल्लाह्चार्वाकदर्शनम्काव्यमीमांसाशुक्लरास्याभासःकिरातार्जुनीयम्मनसा, पञ्जाब्कच्छमण्डलम्कौशिकी नदीअस्माकं तु विशिष्टा ये...कङ्गारू१८९५दमण दीव च२०१५भारतस्य अर्थव्यवस्थाए आर् रहमान्बहूनि मे व्यतीतानि...१००कलिङ्गद्वीपःगयाना🡆 More