पणजी

पणजी  ( शृणु) /ˈpənəɡiː/) (हिन्दी: पणजी, आङ्ग्ल: Panaji)नगरं गोवाराज्यस्य उत्तरगोवामण्डलस्य केन्द्रमस्ति । एतत् नगरं माण्डवीनद्याः तीरे विकसितमस्ति । गोवाराज्यस्य तृतीयं बृहत्तममेतन्नगरम् गोवाराज्यस्य राजधानी अस्ति ।

पणजीम्महानगरम्

पणजी/ पणजे/ पोणजी

Panaji
'land that never floods'
पणजीम्महानगरम्
पणजीमहानगरम्
देशः भारतम्
राज्यम् गोवाराज्यम्
मण्डलम् उत्तरगोवामण्डलम्
महानगरविस्तारः ३६ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) १,१४,४०५
Founded by कदम्बवंशीयः सत्यदेवनामकः राजा
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body पणजी म्युनिसिपल् कोर्पोरेशन्
 • महापौरः सुरेन्द्र फुर्टाडो
 • उपमहापौरः बेण्टो लोरेना
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
पीनकोड
४०३ ०XX
Area code(s) ०८३२
Vehicle registration जीए-०७
साक्षरता ८५.००%
भाषाः कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website www.ccpgoa.com

इतिहासः

पणजी-नगरस्य इतिहासः बहु पुरातनः अस्ति । कदम्बवंशीयः सत्यदेवनामकः राजा (१००७-१०५०) अस्य नगरस्य निर्माणं कारयित्वा अस्य पहजनीखली इति नामकरणं कृतवान् । कोङ्कणी-पुर्तगालीभाषयोः भिन्नोच्चारणत्वात् नगरस्यास्य पोन्नजी, पोङ्गीम इत्येते नामान्तरे स्तः । पणजी इति नाम तु संस्कृतापभ्रंशशब्दः । पहजनी, खली इत्येताभ्यां संस्कृतशब्दाभ्यां व्यत्पुनः पञ्जखली इति मूलशब्दः कदम्बवंशीयस्य त्रिभुवनमल्ल इत्यस्य राज्ञः शासनकाले लिखितताम्रपत्रेषु उल्लिखितः अस्ति । तयोः शब्दयोः अर्थः पहजनी = नौ (Ship), खली = कुल्या (creek) च भवति । पुर्तगालीजनाः गोवाराज्यं यदा स्वाधीनं कृतवन्तः, तदा १८४३ तमस्य वर्षस्य ‘मार्च्’-मासस्य द्वाविंशतितमे (२२) दिनाङ्के नामपरिवर्तने सति अस्य नाम ‘नोवा गोवा’ इति अभूत् । १९६१ तमे वर्षे महाराष्ट्रात् भिन्ने सति अस्य नगरस्य नाम पणजी इति जातम् ।

वीक्षणीयस्थलानि

  • कला ‘एकेडमी’:- कलाक्षेत्रे अभूतपर्वप्रसिद्धिं प्राप्तवतः ‘दीनानाथ मङ्गेशकर’ इत्यस्य कलाविदः नाम्ना स्थापितं सभागृहम् (Auditorium) अस्ति । तत् सभागृहं ‘बेण्डोगकर’ मार्गे स्थितमस्ति । तस्मिन् सभागृहे अनावृत्तं चलच्चित्रगृहं (Open air Theater), लघुचलचित्रगृहं, गीतमुद्रिकाकक्षः (Recording room), सङ्गीतालयः च अस्ति । ‘फेब्रुआरी’-मासे अत्र POP, BEAT, JAZZ इत्येषां सङ्गीतानाम् उत्सवो भवति । तस्मिन् समये बहवः सङ्गीतरसिकाः तत्र गच्छन्ति ।
  • केसिनो रोयाल् (Casino Royal):- गोवाराज्यस्य बृहत्तमं द्यूतक्रीडाभवनमस्ति एतत् । अत्र धनं जेतुम् ईप्सायां सति भिन्नक्रीडाः क्रीडन्ति जनाः । यथा – Slots, Poker च । अत्र विशालभोजनकक्षः अस्ति ।
  • मीरामर-समुद्रतटः:- माण्डवीनदी-अरबीसमुद्रयोः सङ्गमे स्थितः एषः समुद्रतटः प्रख्यातः अस्ति । मीरामर इति पुर्तगालीशब्दस्यार्थोऽस्ति समुद्रदृश्यम् इति ।
  • दोना पौला:- तत्र अरबी-समुद्रस्य, दोना-पौला-नद्योः च सङ्गमः भवति । तत्र सायंकाले सूर्यास्तस्य दर्शनाय जनाः गच्छन्ति ।

मार्गाः

विमानमार्गः

वास्को द गामा इत्यस्मिन् नगरे स्थितं 'डाबोलिम'-विमानस्थानकम् पणजी-तः त्रयोविंशतिः (२३) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गोवाराज्याय वायुयानानि सन्ति ।

धूमशकटमार्गः

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः

भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय 'बस्'यानानि अपि सन्ति । मुख्यतः मडगांव-मुम्बई-वास्को द गामा -आदिनगरेभ्यः 'बस्'यानानि सन्ति ।

बाह्यानुबन्धः

http://www.ccpgoa.com/ www.ccpgoa.com

Tags:

पणजी इतिहासःपणजी वीक्षणीयस्थलानिपणजी मार्गाःपणजी बाह्यानुबन्धःपणजीKok-पणजी.ogaआङ्ग्लभाषाउत्तरगोवामण्डलम्गोवाराज्यम्माण्डवीसञ्चिका:पणजी.oggहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

बेलं गुहास्वप्नवासवदत्तम्करीना कपूरवर्णःडोमोनिकन रिपब्लिकद्यावापृथिव्योरिदम् - 11.20२४८अधिवर्षम्उद्भटःदेवभक्तिःक्रिकेट्-क्रीडाविकिःचार्ल्स २फरवरी १३सायणःपञ्चाङ्गम्चतुर्थी विभक्तिःचंद्रयान-3विकिमीडियापिताप्राचीनभारतीया शिल्पकलाभारतीयसंस्कृतिः१९०३संस्कृतभारतीयजुर्वेदःमेघदूतम्हरीतकीनेताजी सुभाषचन्द्र बोसनवम्बर १५सूरा अल-इखलाससितम्बरममता बनर्जीविदुरःमास्कोनगरम्ओषधयःअव्ययीभावसमासःसेंड विन्सेन्ड ग्रेनदिनेश्चकाव्यविभागाःपरित्राणाय साधूनां...जार्जिया (देशः)४६६मन्दाक्रान्ताछन्दःदेवनागरीपण्डिततारानाथः११५५ब्रह्मयज्ञःशिशुपालवधम्अक्तूबर १२स्याम्सङ्ग्द्युतिशक्तिः१७०७छन्दःनवग्रहाः१०७१सिलिकन२६ जुलाईइण्डोनेशियानवम्बर १६सिडनीगौतमबुद्धःबौद्धधर्मःस्वातन्त्र्यदिनोत्सवः (भारतम्)प्राणायामःशल्यक्रियासांख्ययोगःविन्ध्यपर्वतश्रेणीइन्द्रःश्रीधर भास्कर वर्णेकरमनोहर श्याम जोशीअभिनवगुप्तदौलतसिंह कोठारीअभिनवगुप्तः🡆 More