पञ्चमहालमण्डलम्

पञ्चमहालमण्डलम् (गुजराती: પંચમહાલ જિલ્લો, आङ्ग्ल: Panchmahal district) इत्येतत् गुजरातराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति गोधरा इति नगरम् ।

पञ्चमहालमण्डलम्
मण्डलम्
गुजरातराज्ये पञ्चमहालमण्डलम्
गुजरातराज्ये पञ्चमहालमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters गोधरा
Area
 • Total ५,१०० km
Population
 (२०११)
 • Total २३,८८,२६७
Languages
 • Official गुजराती, हिन्दी
Website panchmahal.gujarat.gov.in
पञ्चमहालमण्डलम्
मध्यगुजरात

भौगोलिकम्

पञ्चमहालमण्डलस्य विस्तारः ५,१०० चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे दाहोदमण्डलं, पश्चिमे खेडामण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे वडोदरामण्डलम् अस्ति । अस्मिन् मण्डले १,०४७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले अष्ट नद्यः प्रवहन्ति । ताः यथा- पानम् ,महीसागरः, गोमा, मेसरी, कोकण, दादरा, वेरी, सुखी ।

जनसङ्ख्या

२०११ जनगणनानुगुणं पञ्चमहालमण्डलस्य जनसङ्ख्या २३,८८,२६७ अस्ति । अत्र १२,२७,८०५ पुरुषाः ११,६०,४६२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४५८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४५८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४५ अस्ति । अत्र साक्षरता ७२.३२% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- १ घोघम्बा २ गोधरा ३ हालोल ४ जाम्बुघोडा ५ कडाणा ६ कालोल ७ खानपुरं ८ लुनावाडा ९ मोरवा (हडफ) १० सन्तरामपुरं ११ शहेरा

कृषिः वाणिज्यं च

गोधूमः, 'मेइज्' च अस्मिन् मण्डले उत्पाद्यमाने प्रमुखे सस्ये स्तः । आम्रफलं, कदलीफलं, पपितफलं, बृहज्जम्बीरं, 'ग्वावा' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि फलानि सन्ति । वृन्ताकं, कपिशाकं ('क्याबिज्'), कूष्माण्डः, 'कोलीफ्लवर्', पलाण्डुः, लसुनं, आर्द्रकं ('जिञ्जर्') च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि शाकानि सन्ति । कृषिः, 'मिनरल्स्', क्षीरोत्पादनं, 'एञ्जिनियरिङ्ग् एण्ड् आटोमोबायिल्स्', प्रवासोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति । गुजरातराज्यस्य मण्डलेषु 'क्वार्ट्ज्'-उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति ।

वीक्षणीयस्थलानि

चाम्पानेर-पावागढ-पुरातत्वशास्त्रोद्यानं विश्वपारम्परिकस्थानेषु अन्यतमम् अस्ति । इदं प्रमुखं वीक्षणीयस्थलम् । अत्र प्रतिवर्षं २० लक्षाधिकपर्यटकाः गच्छन्ति । अस्मिन् मण्डले विद्यमानं जम्बूघोडा-वन्यजीविधाम, रतनमहल-भल्लूकधाम च प्रसिद्धं वीक्षणीयस्थलम् अस्ति । लुणेश्वरमहादेवमन्दिरं, मन्देश्वरमहादेवमन्दिरम् अपि अस्य मण्डलस्य वीक्षणीयस्थलं वर्तते ।

बाह्यसम्पर्कतन्तुः

Tags:

पञ्चमहालमण्डलम् भौगोलिकम्पञ्चमहालमण्डलम् जनसङ्ख्यापञ्चमहालमण्डलम् उपमण्डलानिपञ्चमहालमण्डलम् कृषिः वाणिज्यं चपञ्चमहालमण्डलम् वीक्षणीयस्थलानिपञ्चमहालमण्डलम् बाह्यसम्पर्कतन्तुःपञ्चमहालमण्डलम्आङ्ग्लभाषागुजरातराज्यम्गुजरातीभाषागोधरा

🔥 Trending searches on Wiki संस्कृतम्:

फ्रान्सदेशःफाल्गुनमासःअजर्बैजान१४लाला लाजपत राय२२ जनवरी९ जूनजे साई दीपकतेनालीमहापरीक्षामार्जालःदृष्ट्वा तु पाण्डवानीकं...बिजनौरउपसर्गाः१० जनवरीआदिशङ्कराचार्यःआयुर्वेदःचिलिकच्छमण्डलम्भारतीयभूगोलम्विकिस्रोतःकामसूत्रम्मेघदूतम्साङ्ख्यदर्शनम्१९ अगस्तछन्दःअष्टाङ्गयोगःनव रसाःमिनेसोटा४४४संस्कृतम्१५१४जैनतीर्थङ्कराःवात्स्यायनः२५ सितम्बरदुष्यन्तःखण्डशर्कराव्लादिमीर पुतिनवेदाविनाशिनं नित्यं...बौद्धधर्मःअलाबुजार्ज २मास्कोनगरम्नडियादए आर् रहमान्कारकम्संस्कृतसाहित्येतिहासःअन्ताराष्ट्रियः व्यापारःयवद्वीपवयनाट् लोकसभा मण्डलम्अलङ्कारसम्प्रदायःउर्वारुकम्नादिर-शाहःअव्ययीभावसमासःजीवनीनरेन्द्र सिंह नेगी९१२रवीना टंडनलन्डन्गौतमबुद्धःमणिमालाभगत सिंहयेषामर्थे काङ्क्षितं नो...जातीजूनब्राह्मणम्मालाद्वीपःकाव्यम्सूरा अल-नासन्शरीरं च रक्तवाः स्रोत🡆 More